|| ॐ ||
|| कृषिशासनम् ||
|| वैदिक कृषि विज्ञान ||
श्री जाह्नवी तीर श्री सूकर ( सोरों ) क्षेत्र वासि सनाढय गर्गगोत्रोद्भव द्विवेद्यवटन्क
श्रीमदृशिनारायणात्मज
दशरथ शास्त्रि संपादितम् |
तत्कृत नारायणभाष्य राघवभाष्य द्वय संबलितम् |
तच्च
श्री सारस्वत पुर ( सावनेर ग्राम )
वासिभ्यामागराप्रान्तान्तर्गत पलियाग्रामाभिजनाभ्यां
सनाढय महामण्डलपति
रायबहादुर श्री रतीरामात्मज राघोवा
तनुजाभ्यां औरनेरी मजिस्ट्रेट सनाढयवर्य शाण्डिल्य
गोत्रज देव पादाभ्यां चिरञ्जीविभ्यां
श्री शुकदेव वासुदेवाभ्यां
नागपुरे
श्री श्रेष्ठि राठीत्युपाह्व शिवनारायणजीकस्य ;मारवाडी मशीन ;
मुद्रायन्त्रागारे जनताहिताय शीशकाक्षरैर्मुद्रापयित्वा
प्रकाशितम्
प्रथमाबृतौ सहस्रसंख्या
वैक्रमीय संवत् शालिवाहनीय शकाव्दाः
१९७७ १८४२
मा० आषाढ शुक्ला ति ० १०
प्रकाशको पुनर्मुद्रणाधिकारी ई ० १९२० /०१
|| प्रकाशकीय वक्तव्य ||
धार्मिक , आस्तिक जनों के लिये प्राचीन वैदिक विज्ञान से सम्पन्न कृषिविज्ञान का विवरण इस पुस्तक में किया गया है | अन्न ही जीवन है और अन्नोत्पत्ति में देश ,काल तथा वृष्टि ज्ञान अत्यावश्यक है अतः इस पुस्तक में आवश्यक ज्योतिष , आयुर्वेद तथा मन्त्र , तन्त्र का विज्ञान सन्निहित किया गया है | जो आजकल के दूषित पर्यावरण में अत्यधिक उपादेय है | पहले अध्याय में श्रुति ,स्मृति तथा पुराणों के द्वारा यह सिद्ध किया है कि ब्राह्मणों के लिये कृषि ही सर्वोत्तम जीविका है | दूसरे अध्याय में कृषि कार्य को चार भागों में बांटा है १ भूमि परीक्षण २ बृषभ परीक्षण ३ बीज परीक्षण ४ स्वामी के लक्षण { किसान की योग्यता } | तीसरे अध्यायमें द्वितीयपाद का विवरण गाय , बैलोंके लक्षण तथा उनकी शुभाशुभ जाति , गुण दोष आदि | चौथे अध्यायमें | उनके रोगोंकी चिकित्सा आदि | पांचवें अध्यायमें तृतीय पाद का विवरण बीजके गुण दोष आदिका वर्णन | छठ्ठे अध्यायमें चतुर्थपाद के प्रसंङ्ग में किसान कैसे स्वस्थ रहें इसका निरूपण किया है |सातबें अध्यायमें खेतीकी उपज कैसे बढ़ाई जाये , बीज कब बोया जाये , हल , फाल आदि खेतीके यन्त्रों का निर्माण आदि |आठबें अध्यायमें वर्षा विज्ञान | नौबें अध्यायमें बाजार भाव कब और कितना बढ़ेगा या घटेगा आदिका विज्ञान | दसवें अध्यायमें नराई , गुड़ाई तथा खेतीकी बीमारियोंसे रक्षा कैसे कीजाए आदि विषयों का वर्णन है | ग्यारहवें अध्यायमें फसलकी वृद्धि तथा रक्षाके लिये यज्ञका विधान बताया है |
स्वामी निर्दोष
प्रस्तावनम् |
भोः भोः गैर्वाणवाणी चरणारविन्दमकरन्दास्वादनलोलुपा धार्मिकमर्मविचाराकूपारपारंगमा व्यवहारकासारनिस्तरण विलक्षणविचक्षणा महीयां विद्वांसः | अभिनवसदृक्षविषयश्रवणाभिलाषुकानांकरुणावरुणालयानाम्प्रज्ञावतां श्रीमद्भवतां सविधे यत्किमप्यनेन कापटुना वाडववटुना रारट्य्ते ! किन्तत् |
इह खलु परमगुरुणा महर्षिणा दयालुना प्रजापतिना श्रीमनुना धर्मसार्वभौममण्डलमण्डनायमानानां स्नातकवाडवानांकृते जीवनप्रस्तावे “अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः | या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ” ( म ०अ ० ४ श्लोक संख्या २ ) इति (परस्यापीडा शिलोन्छायाचितादिरद्रोहः ईशत्पीडा याचितादिरल्पद्रोहः नतु हिंसैव द्रोहः तस्या निषिद्धत्वात् |अद्रोहेण तदसंभवेल्पद्रोहेण या वृत्तिर्जीवनोपायः तदाश्रयणेन ) “अपिच तस्मिन्नेव चतुर्थाध्याये मनुस्मृतौ ” ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा सत्यानृताभ्यामपि वा न श्ववृत्या कदाचन || इति ( मनु० अ ० ४ श्लोक संख्या ४ ) इति संशाशचितं |
तत्राद्धा श्ववृत्तिं निषेधता “अपिवा ” शव्दाभ्यां भङ्ग्यन्तरेण वाणिज्यस्याप्रतिषेधः प्रदरीदर्शितो विज्ञायते विचारपरिपक्वशेमुषीमद्भिः “वाणिज्य नृपतेः सेवा वेदानध्ययनंन्तथा | कुविवाहः क्रियालोपः कुलपातनहेतवः (पद्मपुराणे पातालखण्डे अध्याय ९ श्लोक संख्या ४९ ) इति पद्मपुराणाद्युक्तेः | अवशिष्टानाञ्चतुर्णामाजीवनानां मध्ये प्रथममुञ्छशिलाख्यः जीवनं कुटिलकालवशेन यायावरस्नातकाभावाद्धर्मसिन्धुकारिभिस्तदप्येतन्निषिद्धत्वाच्च चर्म्मकारादिहस्तगतत्वेन प्रणानष्टमेव | श्रीमतो भगवतो धर्मस्याधुना पादमात्रावशेषत्वेन द्वितीयमप्ययाचकत्वमुररीकुर्वताङ्करात्सङ्गलितम् | तृतीयंचवैदेशिकविद्याप्रसारप्रभावेण जगत्यां याचितोपि जनो नक्करति याचकानित्यतोमानिनां हस्ताद्वाहुल्येन प्रध्वस्तम् | चतुर्थञ्च कर्षणापरपर्य्यायम्प्रमृतः यं शालीनानाञ्चतुर्णां स्नातकानां मध्ये कुसूलकुम्भीधान्ययोरर्थे प्रतिपाद्यापि पश्चात्स्वकण्ठेनैवापत्स्वेव वैश्यवृत्तित्वेन निरूपितम् |
पुनश्चानापन्नानामात्मतन्त्राणामयाचकत्वधार्मिकाणां मानिनां संसारे केन कथं वा जीवनं भवेदिति सन्देहान्दोलायमानचेतसान्चतुर्वर्गाप्तिषाधयिषावतां हितचिकीर्षयाऽनेकशः संहिताग्रन्थान्पर्यालोलुच्य यत्र तत्र श्रुतिस्मृतिपुराणेतिहासादिषु प्रमाणानि समन्वालोचयित्रा कर्षणमेवातिपुण्यतममाजीवनमिति मन्यमानेन मया प्रत्याहारम्प्रत्याहारं क्वचिन्निजनिर्म्मितपद्यपाठम्कारंकारन्क्वचिच्च यथालव्धमेव पाठं विन्यस्यैतदविस्तृतमेकादशाध्यायात्मकं कृषिशासनं नाम पुस्तकं संगुम्फितम् |
तत्र प्रथमे श्रुतिस्मृतिपुराणादिभ्यः संसाधितं वाडवानां कृषिजीवनं ! द्वितीये चतुष्पादं कर्षणं निरूपयता
भूपरीक्षणादि – तत्पूजनस्तवनचिकित्सामाहात्म्यं संदर्शितम् ! तृतीये तत्द्वितीयपादविवरणव्याजेन गवां वृषभाणां च
रक्षा -माहात्म्य -नासाभेद -शाललक्षण -वन्धन -प्रवेशादि -तच्छुभाशुभजाति -गुण – दोशादिकंच |
चतुर्थे तद्रोगचिकित्सनम् ! पञ्चमे च तृतीयपादनिरूपणच्छलेन बीजगुण -दोषभेदादिकम् |
षष्ठे चतुर्थस्वामिपादकथनप्रसंगेन कृषाणलक्षणन्तदारोग्यनिरूपणम् ! सप्तमे च कृषकादिव्युत्पादन – योग्यायोग्यक्षेत्र -कूपादिखनन- बीजोप्ति- तत्समय – कर्षण- फल- हल फालादिनिर्मिति – तन्मुहूर्तादिकन्च लिखितम् | अष्टमे वृष्टिज्ञानादि ! नवमे समर्घादि ! दशमे निस्तृणीकरण – व्याधिखन्डन -जल- क्षेत्ररक्षण – नलरोपण- पुष्ययात्रा- शाखाकर्तन- मर्दन- मेधिस्थापन- खलविधान- आढकनिर्माणोत्तोलनास्थापन – नवान्नभक्षण- तन्मुहूर्तादिकन्च चित्रितम् |एकादशेध्याये च तदुपयोगिखलयागदानधर्म्मादिप्रयोगसन्दर्भो विन्यस्तः |
तदेतद्दर्शनमात्रेणैव धर्मरहस्य कृषिमाहात्म्यदिज्ञानबोधकं कर्षकाणांचित्ताकर्षकम्पुस्तकमपूर्णमेव मन्मुखात्परिश्रुत्य नागपुरप्रान्तान्तर्गतसारस्वतपुर (सावनेर ग्राम )निवासिभिरर्गला (आगरा )ख्य्प्रान्तान्तर्गतपलियाग्रामाभिजनैः सनाढयमहामण्डलधवैः सनाढ्यवर्य्यैः शाण्डिल्यगोत्रोद्भवैः पलीयास्पदैरानरेरीमैजिस्ट्रेटरायबहादुरपदधारिभिः श्रीमद्र्तीरामात्मजराघोवाशर्म्मभिः स्वगृहे मामाहूय श्रवणमात्रेणैवास्य च सकृत्प्रकाशनंस्वीकुर्वद्भिः कृषिप्रेमिभिः साधारणजनबोधाय विवृत्तिविधानाय समुत्साहितेन मया यथावत्प्रमाणविन्यासपूर्वकं स्वजनकनाम्नासंस्कृतभाष्यं समुत्साहकनाम्नाच तद्धस्तलिखितमिव निजदेशीयभाषाभाष्यं व्यधायि | यत्र नारायणभाष्ये प्रमाणतयोपन्यस्तग्रन्थाः प्रतिस्थले ऋग्यजुरथर्वसंहिताः सभाष्याः शतपथ तैत्तिरीयोपनिषदादयश्च सविवृति मनु -याज्ञवल्क्यं- वशिष्ठ – देवल – मेधातिथि- पराशर- वृहत् पराशरापस्तम्बात्रि- हारीतादिस्मृतयः श्रीमद्भागवत – देवी- भागवत- मार्कण्डेय- कूर्म्म- लिङ्ग- शिव- ब्रह्म- ब्रह्मवैवर्त- भविष्याग्नि – कालिका- पद्मादि पुराणानि च महाभारतगीता- वाल्मीकिरामायणेतिहासनिवन्धाः- आर्य्यविद्यासुधाकर- धर्म्मसिन्धु – निर्णयसिन्धु- चतुर्वर्गचिन्तामणि- तिथितत्व -कर्म्मलोचन- मत्स्यसूक्त- विष्णुरहस्य- संवत्सरप्रदीप- कृत्यरत्नाकर- वृहत् पराशरसंहितादयो निर्णयग्रन्थाश्च ,कृषिपद्धति- कृषिसंग्रह – भोजनकृत्यकल्पतरु – राजमार्तण्ड- ज्योतिषकल्पतरु -वराहसंहिता- मयूरचित्राख्य चक्रपाणि – भावमिश्रकृतयश्चाक्षिगोचरी भवन्ति |
तदेतादृशमधीत्य चोभयभाष्यसहितमेतत्स्वसमीपे मुद्रणार्थंतैः संरक्षितमासीत |
ततश्च निष्करुणेनातिकुटिलकठिनकरालकालेन कस्माच्चित् प्रबलदुर्विपाकप्रभावात्तत्कलेवर आत्मवत्सम्पाद्य (विस्मृत्य )तन्मन्मनोरथो व्यर्थतां नीतः | पुनश्च तत्सुनुभ्यान्चिरंजीविभ्यां
श्रीशुकदेववासुदेवशर्मभ्यामात्मजनुःप्रदस्य स्वर्गतस्य सन्तोषाय सकलजनहितायास्य मुद्रापणमङ्गीकृत्य नागपुरे मारवाडी मशीननाम्नि मुद्रायन्त्रालये शीशकाक्षरैर्मुद्राप्य प्रकाशितम् |
तदेतत्प्रज्ञावन्तश्चतुर्वर्गसिद्धिसिषाधयिषवो वाडवादिकर्षकाः स्वस्वनिकेतने वेदपुस्तकमिव सकलजगदुत्पादनावनविलयनसमर्थपरमात्ममूर्तिमिव सम्ग्रह्य प्रपूज्य चाहर्निशं स्वयमेव ब्राह्मणाद्वा श्रवणमननादि द्वारा स्वान्तस्थमनोबुद्धिमन्दिरे निधाय सञ्जातप्राचीनकृषिकर्म्मपद्धतिज्ञानबलेनाधिकाधिकलाभमुत्थाप्यास्मत्परिश्रमं सफलयेयुस्तर्हीतोप्यधिकतया कृषिविषयकप्रावीण्योत्कर्षत्वविधानज्ञानादिकमभिनवपुस्तकप्रकाशनेन समर्पयिष्यते | आशास्येच यद्यप्यत्र मुद्रणयन्त्रालयस्थकर्म्मचारिणा शोधकस्यचानवधानतया दृग्भ्रमेण च यत्र क्वचनापतितदोषनिराकरणायान्ते शुद्धाशुद्धपदबोधकपत्रसंयोजनाव्यधायि तथाप्यवशिष्टस्खलनस्थले तत्प्रस्खलनं मनुष्यगतोधर्म्मः ,इतिज्ञानिनः स्निग्धदृशो नैसर्गिकगुणग्रहणनिपुणाः सदयहृदयाः प्रियसुहृदो मदपराधसहिष्णवो दोषज्ञा एव तदपमार्ज्जकाः शरणम् |
यदत्रयैर्यैः प्रियमित्रवर्यैर्महामहिमशालिभिः सद्भिः ( इटावा ) नगरनिवासिभिर्ब्राह्मणसर्वस्वसंपादकैर्वेदव्याख्यातृभिः श्री भीमसेनशास्त्रिभिः श्रीवृन्दावनधामनिवासिभिर्भारतरत्नललाम – भारतभूषण – विद्यारत्न – शतावधान – घटिकाशतकाद्यनेकोपाधिभूषितैः- साहित्याचार्यैर्महामहोपदेशकैः श्री दुर्गादत्तशास्त्रिभिश्च मारहराभिजनैटानगरवास्तव्य वादिमुखमर्दकवैय्याकरणैरायुर्वेदाचार्यैः परमगुरुभिः श्रीमद्रामनाथशास्त्रिभिश्चालीगढनिवासि सहस्रौदीच्य याज्ञिक श्रीवैकुण्ठनाथशास्त्रितनुजनुर्भिः श्रीयादवनाथपण्डितैश्चालीगढस्थैर्ब्रह्मभुवनाख्यपुस्तकालयसंरक्षकैः सारस्वतसंपादकैः सारस्वतैः सप्तभाषाविज्ञैः श्रीज्योतिस्वरूपैः , हस्तरसनगरनिवासिभिर्याज्ञिकैःश्रीदिवाकरशास्त्रिभिः
श्रीसूकर ( सोरों ) क्षेत्रस्थ श्रीवराहमन्दिराधीशैर्महन्तपरिव्राजकाचार्य्यश्रीसदानन्दपुरीस्वामिभिः श्रीपौराणिकगोपीनाथासूरिभिरस्मत्प्रिय -सुहृत्सहस्रौदीच्यपाठकोपाह्वभट्टश्रीज्वालादत्तदारकैश्चिरंजीविभिः श्रीपार्वतीवल्लभादिरन्यैश्चात्मीयभारतीभवनेभ्यः पुस्तकदानप्रदर्शनस्थलविशेषसूचनादिना साहाय्यमकारि तेषाम्परोपकारिणाम्कृतज्ञेन धन्यवादास्तान्प्रतिसमर्प्य अन्ते अग्रे च ये कुशाग्रबुद्धयः अत्र यथाशास्त्रं स्वस्वसम्मतिम्प्रदास्यन्ति सधन्यवादास्तान् यथातथमेव द्वितीयावृत्तौ समावेशयिष्यन्त इतिशिवम् |
विदुषां विनीतवशंवदः
जिला — एटा श्री सूकर ( सोरों ) तीर्थवासी
द्विवेदी श्रीमदृशिनारायणतनूजो दशरथशास्त्री
श्री हरिः शरणम् |
कृषिशासनस्थ विषयानुक्रमणिका |
विषयाः पृष्ठाङ्काः
प्रथमोऽध्यायः
१ मंगलाचरणम्
२ जीविका विचारः
३ ब्राह्मण प्राशस्त्यम्
४ ब्राह्मण जीविका कथनम्
५ विप्रवृत्तिभङ्ग कथनम्
६ विप्राणां कृषिवृत्ति कथनम्
द्वितीयोऽध्यायः
७ चतुष्पाद कृषि कथनम्
८ कृषि प्रथमपाद विचारः
९ भूमिपरीक्षा
१० कर्षणे निषिद्धभूकथनम्
११ अविदार्यभूविदारणे फ़ल कथनम्
१२ रजोवतीभूलक्षणन्तत्खनन निषेधः
१३ भूमिपूजा (वास्योरा ) कथनम्
१४ भूमिपूजाप्रयोगः
१५ भूस्तुतिः
१६ सारदान कथनम्
१७ सारस्थापन कथनम्
१८ ऊषरभूचिकित्सा कथनम्
१९ अनूपादि भूचिकित्सा कथनम्
२० भूमहिमा
तृतीयोऽध्यायः
२१ कृषि द्वितीयपाद कथनम्
२२ गोरक्षा कथनम्
२३ गो माहात्म्यम्
२४ वृष माहात्म्यम्
२५ नासाभेद कथनम्
२६ नासाभेदक कील मान कथनम्
२७ शाला लक्षणम्
२८ बन्धन नियमः
२९ शालाप्रवेश कथनम्
३० गोप्रस्थानयात्रा प्रवेश मुहूर्त चक्रम्
३१ गोवृषाणां शुभाशुभ लक्षणम्
३२ अशुभवृष कथनम्
३३ शुभवृष कथनम्
३४ गवां शुभाशुभ लक्षणम्
३५ वृषाणां ब्राह्मणादि जाति कथनम्
३६ ब्राहमण वृष कथनम्
३७ क्षत्रिय वृष कथनम्
३८ वैश्य वृष कथनम्
३९ शूद्र वृष कथनम्
४० द्विजाति वृष कथनम्
४१ सात्विक वृष कथनम्
४२ राजस वृष कथनम्
४३ तामस वृष कथनम्
४४ द्विगुण वृष कथनम्
४५ त्रिगुण वृष कथनम्
४६ नील वृष कथनम्
४७ शुभ वृष लक्षणम्
४८ ध्वज वृष लक्षणम्
४९ वाम वृष लक्षणम्
५० क्षेम वृष लक्षणम्
५१ भद्र वृष लक्षणम्
५२ शिव वृष लक्षणम्
५३ स्थिर वृष लक्षणम्
५४ वृष गुण कथनम्
५५ वृष दोष कथनम्
५६ व्यङ्ग लक्षणम्
५७ विवर्ण लक्षणम्
५८ विषम लक्षणम्
५९ श्वित्री लक्षणम्
६० धूम्र लक्षणम्
६१ चल लक्षणम्
६२ खर लक्षणम्
६३ विजातीय वृषपालने दोषाः
६४ दूरे गोचारण निषेधः
६५ वाह्य वृषाः
६६ गोपालन विधिः
चतुर्थोऽध्यायः
६७ निर्बलवृषयोजन निषेधः
६८ निर्बल वृष रक्षणम्
६९ वृष चिकित्सा
७० स्कन्धरोग प्रतीकारः
७१ स्कन्धशोथ चिकित्सा
72 पिटिकाशोथ चिकित्सा
७३ पिटिकास्राव कथनम्
७४ क्षतपूरण विधिः
७५ घेघनिदानम्
७६ घेघ चिकित्सा
७७ कण्डू चिकित्सा
७८ आटोप चिकित्सा
७९ मन्दाग्नि चिकित्सा
८० हन्नवात निदानम्
८१ हन्नवात चिकित्सा
८२ खञ्ज निदानम्
८३ पंगु निदानम्
८४ पंगु चिकित्सा
८५ बृंहण विधिः
८६ शृङ्गरोग चिकित्सा
८७ कर्णशूल चिकित्सा
८८ दन्तमूलशूल चिकित्सा
८९ मुखजिह्वा रोग चिकित्सा
९० गलग्रहादि रोग चिकित्सा
९१ अतीसार चिकित्सा
९२ भग्नसन्धान चिकित्सा
९३ वातपित्त प्रतीकारः
९४ कफ़रक्त प्रतीकारः
९५ कोष्ठशाखा रोग प्रतीकारः
९६ कासश्वास प्रतीकारः
९७ पौष्टिक विधिः
९८ ग्रहनाशक धूपः
९९ शुष्कदुग्ध रोग निदानम्
१०० शुष्कदुग्ध रोग चिकित्सा
१०१ दुग्धवृद्धि विधिः
१०२ रसायन कथनम्
१०३ सर्वरोग प्रतीकारः
१०४ गोपुरीषे लक्ष्मी पूजा
१०५ पोलोत्सव कथनम्
पञ्चमोऽध्यायः
१०६ बीजपाद कथनम्
१०७ बीज व्युत्पत्तिः
१०८ पुष्टबीज माहात्म्यम्
१०९ अपुष्टबीजपुष्टि कथनम्
११० सद्बीज लाभोपाय कथनम्
१११ बीजसंग्रह कालः
११२ बीजस्थापन विधिः
११३ बीजस्थापन मुहूर्तम्
११४ दीपादि दुष्ट बीज त्यागः
११५ बीजस्थापन मुहूर्त चक्रम्
११६ बीज सङ्ख्या कथनम्
११७ षड्विध बीज कथनम्
११८ द्विविध बीज कथनम्
११९ गृह्योपवन्य बीज कथनम्
१२० वन्योपवन्य बीजोक्तिः
१२१ औषध बीज कथनम्
१२२ क्षेत्रज बीज कथनम्
१२३ वासन्त बीजोक्तिः
१२४ शारद्य बीजोक्तिः
षष्ठोऽध्यायः
१२५ स्वामि पाद कथनम्
१२६ कृषाण लक्षणम्
१२७ दारिद्र्यजनक कृषाण लक्षणम्
१२८ दारिद्र्यनाशोपाय कथनम्
१२९ वैद्य मित्रता
१३० वैद्यकज्ञानावश्यकता
१३१ आरोग्य कथनम्
१३२ ज्वरोपाय कथनम्
१३३ ज्वर पाचनम्
१३४ क्वाथ कथनम्
१३५ वातज्वरे क्वाथः
१३६ पित्तज्वरे क्वाथः
१३७ कफ़ज्वरे क्वाथः
१३८ द्वन्द्वजे क्वाथः
१३९ त्रिदोषजे क्वाथः
१४० ज्वरघ्न क्वाथः
१४१ त्रिदोषोत्थज्वरे क्वाथः
१४२ जीर्णज्वरे क्वाथः
१४३ कासादौ क्वाथः
१४४ ज्वरातीसारे क्वाथः
१४५ आमातीसारे क्वाथः
१४६ ग्रहणी कथनम्
१४७ कफ़े मन्दाग्नौ च क्वाथः
१४८ आमाजीर्णादौ क्वाथः
१४९ पाण्डुकामलघ्न क्वाथः
१५० तर्प्पणम्
१५१ पार्श्वशूलादौ क्वाथः
१५२ कासे क्वाथः
१५३ हिक्कादौ क्वाथः
१५४ वान्तत्रये क्वाथः
१५५ मूर्च्छा रोगे क्वाथः
१५६ उन्मादे दशमूलादि क्वाथः
१५७ वाते मन्यास्तंभे क्वाथः
१५८ वात रक्त चिकित्सा
१५९ आमवाते क्वाथः
१६० शूले क्वाथः
१६१ कासादौ शुण्ठी क्वाथः
१६२ कृच्छ्र रोगे क्वाथः
१६३ अश्मरी नाशक क्वाथः
१६४ प्रमेह नाशक क्वाथः
१६५ त्वचारोगादेश्चिकित्सा
१६६ सर्वाङ्गशोथरोग चिकित्सा
१६७ अन्त्र वृद्धि चिकित्सा
१६८ उपदंश चिकित्सा
१६९ कुष्ठ रोग नाशक क्वाथः
१७० शीतपित्तादौ क्वाथः
१७१ अम्लपित्तादौ क्वाथः
१७२ वमने क्वाथः
१७३ विसर्पे क्वाथः
१७४ मसूरीरोगे क्वाथः
१७५ मुखपाके गण्डूषः
१७६ शूलादौ क्वाथः
१७७ गर्भिणीज्वरे क्वाथः
१७८ सूतिका दुग्धवृध्यै क्वाथः
१७९ प्रसूती रोगे दशमूल क्वाथः
१८० दारिद्र्य नाशिनी कृषिः
सप्तमोऽध्यायः
१८१ कृषक व्युत्पत्तिः
१८२ कृषि व्युत्पत्तिः
१८३ फ़ाल व्युत्पत्तिः
१८४ योग्यक्षेत्र कथनम्
१८५ क्षेत्रबन्धक्रिया
१८६ श्रेष्ठ क्षेत्रम्
१८७ कूपादि खननम्
१८८ नालिकाजलसेकः
१८९ करदान कथनम्
१९० बीजवाप समयः
१९१ शारद्य क्षेत्र कथनम्
१९२ वासन्त क्षेत्र कथनम्
१९३ बीजवाप कालः
१९४ बीजवाप मुहूर्तम्
१९५ तच्चक्रम्
१९६ बीजोप्तौ सर्पाकारचक्रम्
१९७ बीजोप्ति विधिः
१९८ रोपण मुहूर्तम्
१९९ वापारोप भेदः
२०० रोपण प्रकारः
२०१ कर्षण फ़लम्
२०२ कर्षण प्रकारः
२०३ वपन प्रकारः
२०४ हल महिमा
२०५ पराशरोक्त हल लक्षणम्
२०६ हलनिर्माणेऽशुभवृक्षाः
२०७ हलीशा लक्षणम्
२०८ युग लक्षणम्
२०९ शम्या लक्षणम्
२१० प्रतोद लक्षणम्
२११ हल चित्रम्
२१२ प्रतोद चित्रम्
२१३ धर्म्यादि हल कथनम्
२१४ तत्प्रवाह क्रमः
२१५ वक्षराख्य हल लक्षणम्
२१६ त्रिरदाख्य हल लक्षणम्
२१७ अर्गलाख्य हल लक्षणम्
२१८ वक्षर हल चित्रम्
२१९ त्रिरद हल चित्रम्
२२० अर्गल हल चित्रम्
२२१ हल फ़लम्
२२२ हलप्रवाहे हलचक्र कथनम्
२२३ तच्चक्रम्
२२४ हलप्रवाहे शुभ नक्षत्राणि
२२५ हलप्रवाहे शुभ वाराः
२२६ हलप्रवाहेऽशुभ वाराः
२२७ हलप्रवाहे शुभ तिथयः
२२८ हलप्रवाहेऽशुभ तिथयः
२२९ हलप्रवाहे शुभ लग्नानि
२३० हलप्रवाहेऽशुभ लग्नानि
२३१ हलप्रवाह विधिः
२३२ हलप्रवाह मुहूर्त चक्रम्
२३३ हलप्रवाहे शुभ वृषाः
२३४ अर्घ्य मंत्रः
२३५ हलप्रवाहे वर्ज्य वृषाः
२३६ रेखाविधिः
२३७ रेखा शुभाशुभ फ़लम्
२३८ हलप्रवाहे शकुन विचारः
२३९ दुःशकुनानि
२४० मकरकुम्भार्ककर्षण माहात्म्यम्
२४१ कर्षण माहात्म्यम्
२४२ माघादिमासेषुकर्षण माहात्म्यम्
२४३ हेमन्तादिषु कर्षण माहात्म्यम्
२४४ मदि महिमा
अष्टमोऽध्यायः
२४५ वृष्टिज्ञानावश्यकता
२४६ वृष्टिज्ञानोपाय प्रकारः
२४७ वर्षेशादि कथनम्
२४८ वर्षेश फ़लम्
२४९ संवत्सर मंत्री फ़लम्
२५० मेघानयनन्ततः शुभाशुभ वृष्टि ज्ञानम्
२५१ जलाढक मानम्
२५२ समुद्रादौ वर्षण भागाः
२५३ जल मानम्
२५४ मासिक वृष्टि ज्ञानोपायः
२५५ वासरनैशिक वृष्टि ज्ञानोपायः
२५६ मतान्तरेण वार्षिक वृष्टि ज्ञानम्
२५७ पौषात्सप्तमे मासि वृष्टि ज्ञानम्
२५८ वार्षिक वृष्टि ज्ञानम्
२५९ पराशरोक्त भाविवृष्टि लक्षणम्
२६० वार्षिक दश नक्षत्राणि
२६१ रोहिणीचक्रतो वृष्टिज्ञानम्
२६२ रोहिणी चक्रम्
२६३ ज्येष्ठेचित्रादिनक्षत्रेभ्यो वृष्टिज्ञानम्
२६४ आषाढपूर्णिमा वायुतो वृष्टिज्ञानम्
२६५ आषाढशुक्ल नवमीतो वृष्टिज्ञानम्
२६६ प्रकारान्तरेण वृष्टिज्ञानम्
२६७ श्रावणतो वृष्टिज्ञानम्
२६८ वृष्टिज्ञानस्य शकुन कथनम्
२६९ ग्रहचारवशाद् वृष्टिज्ञानम्
नवमोऽध्यायः
२७० समर्घादि लाभालाभ कथनम्
२७१ चैत्रान्महर्घादि कथनम्
२७२ वैशाखात्समर्घादि कथनम्
२७३ ज्येष्ठात्समर्घादि कथनम्
२७४ आषाढात्समर्घादि कथनम्
२७५ श्रावणात्समर्घादि कथनम्
२७६ भाद्रपदात्समर्घादि कथनम्
२७७ आश्विनात्समर्घादि कथनम्
२७८ कार्तिकात्समर्घादि कथनम्
२७९ मार्गशीर्षात्समर्घादि कथनम्
२८० पौषात्समर्घादि कथनम्
२८१ माघात्समर्घादि कथनम्
२८२ फ़ाल्गुनात्समर्घादि कथनम्
दशमोऽध्यायः
२८३ निस्तृणीकरणादि कृषिकर्म कथनम्
२८४ निस्तृणीकरण माहात्म्यम्
२८५ निस्तृणीकरणसमय कथनम्
२८६ रोगनाशार्थ जलमोचनम्
२८७ व्याधिखण्डन विधिः
२८८ मन्त्रविधिः
२८९ जल रक्षणम्
२९० क्षेत्र रक्षणम्
२९१ नलरोपण विधिः
२९२ शस्य रोपणम्
२९३ जल सेचनम्
२९४ शस्यरोपण जलसेचन मुहूर्तचक्रम्
२९५ धान्यच्छेदन विधिः
२९६ धान्यच्छेदन क्रिया
२९७ धान्यच्छेदन मुहूर्तम्
२९८ धान्यच्छेदनमुहूर्त चक्रम्
२९९ धान्यमुष्टिग्रहण मुहूर्तम्
३०० तच्चक्रम्
३०१ मेधिस्थापन मुहूर्तम्
३०२ तच्चक्रम्
३०३ तद्विधानम्
३०४ धान्य कट्टनम्
३०५ पुष्ययात्रा कथनम्
३०६ मञ्जरीकट्टनमर्दन माप समयः
३०७ पौषे तद्व्यय प्रतिषेधः
३०८ मापक्रमः
३०९ आढक मानम्
३१० आढकनिर्म्मितौ काष्ठ कथनम्
३११ कणमर्दन मुहूर्तम्
३१२ धान्यरक्षण मुहूर्तम्
३१३ तच्चक्रम्
३१४ धान्यस्थापने मन्त्रविधिः
३१५ नवान्नभक्षण मुहूर्तम्
३१६ तच्चक्रम्
३१७ तिथिविषघटी कथनम्
३१८ तच्चक्रम्
३१९ वारविषघटी कथनम्
३२० तच्चक्रम्
३२१ नक्षत्रविषघटी कथनम्
३२२ तच्चक्रम्
३२३ तद्दोष परिहारः
३२४ नवान्ननक्षत्रचक्र कथनम्
३२५ शस्त्रादिकरण सामग्री
३२६ तच्चित्राणि
एकादशोऽध्यायः
३२७ यज्ञोपदेशः
३२८ दानोपदेशः
३२९ कृषेः परोपकारित्व कथनम्
३३० अन्नमुष्टिदान महिमा
३३१ अन्नदान माहात्म्यम्
३३२ सीतायज्ञोपदेशः
३३३ नवान्न प्राशनम्
३३४ कृषि महिमा
३३५ सीतायज्ञ पदार्थ क्रमः
|| इति शिवम् ||
टीकाद्वयोपेतम्
|| कृषि शासनम् ||
|| प्रथमोध्यायः || [ 1 ]
|| श्री गणेशाय नमः ||
|| कृषि शासनम् ||
|| मंगलाचरणम् ||
इच्छा गोदारणा द्येना द्येना कृष्यात्म काश्यपीम् ||
उप्तं संपादितं विश्वं महः किमपि मन्महे ||१ ||
|| श्री गणेशाय नमः || नारायणभाष्यं || नत्वा श्रीरामनाथाख्यं गुरुं साम्बं सु ( प्र ) धी प्रदम् |
यत्कृपावशतः कुर्वे कृषिशासन भाष्यकम् ||१ || तत्र खलु डौन्गरसिः स्वप्रारीप्सित निवन्धस्य निर्विघ्न परि समाप्ति पूर्वकं लोकशिक्षा प्रचारार्थ मविगीत शिष्टाचार परिप्राप्त मभीष्ट फ़ल दान समर्थ देव नमस्कारात्मकं मंगलं प्रतिजानीते | इच्छागोदारणादिति | मह स्तैजसं रूपम् ! मिमप्यनिर्वचनीयम् | वयं मन्महे मन्यामहे प्रणमाम इत्यर्थः ! मनु अवबोधने तनादि | किन्तन्मह इत्याकान्क्षायामाह | येनेत्यादि | येन आद्येन विभुना सर्वनियन्त्रा निर्विकारेण परब्रह्मणा ,च परमदयालुना विष्णोर्नवमावतारेण श्रीपृथुनाम्ना वा | ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमामोषधीर्विप्राः तेनायं स उशत्तमः ॥ १४ ॥ प्रथमस्कन्धे तृतीयोऽध्यायः इति भागवतात् ! एकोऽहं बहुस्या मिति श्रुति बोधित मनसि जायमानेच्छा ! साचाऽसौ | गौः स्वर्गेच बलीवर्दे रश्मौच कुलिशे पुमान् | स्त्री सौरभेयी दृग्वाणदिग्वाग्भूष्वप्सु भूम्नि चेति विश्व मेदिनी कोषौ !सा दीर्यतेऽनेनेति गोदारणं लाङ्गलम् | लाङ्गलम् हलम् | गोदारण मित्यमरः | तेन | आर्षोऽयं प्रयोगः | कर्तृ करणयो स्तृतीयेति करणे प्राप्तायास्तृतीयास्थाने सुपां सुलु गिति आदादेश विधानात् ,एतेन निवन्धस्यास्य ऋषिसंमतत्वं समुद्योतितमात्मनश्चर्षि सूनुत्वंसमुद्बोधितम् ! अथवा हेतौ पञ्चमी ! वा ,दारणे येन , इति पाठे निमित्ते सप्तमी बोध्या | अथवा !इच्छया
यदाभिषिक्तः पृथुरङ्ग विप्रैः
आमंत्रितो जनतायाश्च पालः ।
प्रजा निरन्ने क्षितिपृष्ठ एत्य
क्षुत्क्षामदेहाः पतिमभ्यवोचन् ॥ ९ ॥
तन्नो भवानीहतु रातवेऽन्नं
क्षुधार्दितानां नरदेवदेव ।
यावन्न नङ्क्ष्यामह उज्झितोर्जा
वार्तापतिस्त्वं किल लोकपालः ॥ ११ ॥चतुर्थस्कन्धे सप्तदशोऽध्यायः
इत्यन्त भागवतीय पाठ प्रति बोधित क्षुत्प्रपीडिताखिलप्रजा प्रार्थना वशतः !
पृथुः प्रजानां करुणं निशम्य परिदेवितम् ।
दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२ ॥
इति जायमानया करुणया इत्यर्थः नगच्छन्तीत्यगाः पर्वताः !
समां च कुरु मां राजन् देववृष्टं यथा पयः ।
अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११ ॥ चतुर्थस्कन्धे अष्टादशोऽध्यायः
इति भूम्याधिदेवी वाक्य श्रवण जन्यः अनुकम्पा पूर्वकम्
दीर्यन्तेऽनेनेति दारणन्धनुः ! तस्यलक्षणया कोट्यां शक्तिग्रहात् ! धनुष्कोटेरित्यर्थो लभ्यते ! तेन |
चूर्णयन्स्वधनुष्कोट्या गिरिकूटानि राजराट् ।
भूमण्डलं इदं वैन्यः प्रायश्चक्रे समं विभुः ॥ २९ ॥चतुर्थस्कन्धे अष्टादशोऽध्यायः
इत्यनेन पृथुतएव कृषि कर्मोत्पत्तिर्वर्तमान कृषिकर्मोपयोगि लाङ्गलादि करणादयश्च तत्प्रयोगोपयोगि यन्त्रागार निर्माणादि दैनन्दिनातिशय प्रावीण्याविस्काराभावश्च ध्वनितः ! अतः सएवाद्यः कर्षकः इत्यपि प्रतीयते |
आत्मा चित्तं मनः इत्येकार्थाः शव्दाः ! आत्मा कलेवरे यत्ने स्वभावे परमात्मनि ! चित्ते धृतौ च बृद्धौ च परव्यावर्तनेऽपिचेति धरणिः | तच्च तत्काश्यपी भूमिस्ताम् ! आत्मनः स्वस्य मण्डल मध्यवर्तिनी काश्यपी पृथिवी ताञ्चेत्यर्थः | अग्रे प्रलयकाले स्वस्मिन लीनं सत् पुनर्यथास्थाने स्थापितं निजमाया वैभवेन | अथवा दुष्ट चौरादि भयेन भूम्यधिष्ठात्री देवी ग्रसितान्नादिबीजजातेर्युक्त्या कृषिक्रमरीत्योप्तम् |
पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते ।
भुज्यमाना मया दृष्टा असद्भिः अधृतव्रतैः ॥ ॥ ६ ॥
अपालितानादृता च भवद्भिः लोकपालकैः ।
चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥ ७ ॥
नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा ।
तत्र योगेन दृष्टेन भवानादातुमर्हति ॥ ८ ॥ चतुर्थस्कन्धे अष्टादशोऽध्यायः इति नानाकारतया फलरूपं विश्वं संसारं संपादितम् ! वत्सं कृत्वा मनुं पाणौ अदुहत्सकलौषधीः | इति अनेक प्रकारकमन्नजातिजातं विश्वं सर्वं संपादितं निष्पादितमित्यर्थः | अनेनान्न प्रादुर्भावानन्तरमेव सर्वेषामन्नानिच्छन्दोमयादीनि सञ्जातानि | अर्थात अन्नादेव सर्व जीवनम्भवतीति संदर्शितम् | तत्र चाऽयंक्रमः अन्नंभुक्त्वैव वेदपाठ शक्ति,र्वेदमन्त्रार्थज्ञानेन सोमलतापानाधिकारः ,श्राद्ध क्रिया ज्ञानादयश्च सम्भवन्तीति | तथा च श्रीमद्भागवतम् | तथापरे च सर्वत्र सारमाददते बुधाः ।
ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥ १३ ॥ चतुर्थस्कन्धे अष्टादशोऽध्यायः
अथच प्रेक्षावत्प्रवृत्युपयुक्त विषय प्रयोजन संवन्धाधिकारिणः इत्थं बोध्याः | कृषिविषयः तत्कर्मणासह वचन सन्दर्भ रूपस्यास्य प्रतिपाद्य प्रतिपादक लक्षणः संवन्धः | प्रमाण संवलितस्य धर्मार्थ काम मोक्ष साधनभूतस्य कृषिकर्मणः शास्त्रीय लौकिक प्रमाण व्यवहार गम्यत्वात् ! प्रयोजनन्तु वर्ग चतुष्टय सिद्धिः | कृषिकर्म मर्माभिज्ञाः बोद्धारो धर्मशास्त्र पटवो निज धर्मरता ब्राह्मणवर्णसम्भृताश्चनरा अधिकारिणः | इति ||१ ||
|| श्री गणेशाय नमः || राघव भाष्यम् || प्रणम्य सच्चिदानन्दं लोकोपकृतये मया || क्रियते स्वाख्ययाभाष्यं नृगिरा कृषिशासने ||१ || जिस आद्य (पृथु राजा से पूर्व कृषिकर्मके प्रादुर्भाव न होने से आद्य कहा हे ) परमदयालु परब्रह्म परमात्मा ने इच्छारूप हल से मन रूप भूमि को जोतकर प्रलय कारण निजमें सूक्ष्मरूपसे लीन हुए बीज को बोया और पुनः उसीको बृहत अनेक रूपात्मक संसारको यथावत सम्पादन( सर्जन)किया उसी अनिर्वचनीय तेजोरूप ईस्वर को हम प्रणाम करते हें || अथवा || जिस आद्य(प्रथम ) श्रीविष्णु अवतारधारी कर्षक ने क्षुधापीडित अति दुःखी प्रजाके प्रार्थनावश उत्पन्न होकर निज इच्छा से दयापूर्वक पर्वतविदारण समर्थ ( कृषि (खेतों) में उपयोगी पांवले कुदाल हल आदि करणों का जन्म न होनेसे धनुष कोटि कहा है |) धनुष कोटि से निज मण्डल मध्यगामिनी भूमिको भूमिप्रार्थनासे समान ( जल स्थिर होने योग्य )कर और चौरभयसे भूमिग्रसित अन्नादिबीज जातिको युक्ति (कृषिक्रिया )से फल रूपतया सम्पादन किया उस अनिर्वचनीय पराक्रमादि युक्त तेजस्वी पृथु नामधारी को हम नमस्कार करते हैं ||१ ||
१ . पृथु राजा से पूर्व कृषि कर्म के प्रादुर्भाव न होने से ” आद्य ” कहा है |
२ . कृषि ( खेती ) में उपयोगी फावले , कुदाल , हल , आदि करण का जन्म न होने से ” धनुष कोटि से ” कहा है |
इस ऐतिहासिक वृत्त से विदित होता है कि दैशिक वैदेशिक प्रचारित अनेक कर्मों में उपयोगी नाना भांति के यन्त्र (मशीनें )और उनके स्थापन करने के स्थान ( मिल ) आदि की रचनामें आधुनिक जनोंकी यत्किञ्चित ही चतुराई सी जानी जाती है || हिन्दी में लेख बढनेके कारण सविस्तार प्रमाण मैंने अपने राघव भाष्य में नहीं लिखे हैं , जिन महाशयों को देखना हो ,वे दयालु मुख्य ग्रन्थ या नारायण भाष्यको अवश्य देख लेवें ||
। । जीविका विचारः । ।
असारे खलु संसारे घोरापत्ति सुदुस्तरे !!
धर्मज्ञो ना कथं जीवे द्यत एतद् विचार्यते । ।२ । ।
अति सुविषम समये धर्मज्ञ पुरुषस्य कथं जीवनं स्यादित्यऽतोस्य सन्दर्भस्य प्रस्ताव इत्युच्यते ! धर्मज्ञः ,अहरहः सन्ध्या मुपासीत , , अवश्य्न्च ब्राह्मणोऽग्नीनादधीत ,इत्यादि स्वधर्म ज्ञानवान् घोरापत्तिभिरग्रेलिखिष्यमाणाभिः । सुदुस्तरेऽतिदुर्घटे । ।२ । ।
घोर विपत्ति ग्रसित अति कठिन असार संसार में धर्मज्ञ मनुष्य कैसे जीवन व्यतीत करै यह विचारा जाता है ||२ ||
। । ब्राह्मण प्राशस्त्यम् । ।
प्रजासृजाऽऽदौ सकलं चराचरं
विरच्य विश्वं कथिता जनाः शुभाः । ।
तत्राऽपि पादोरुभुजाऽननोद्भवाः
क्रमेण शस्ताः गुरवो बुधास्ततः । ।३ । ।
कोऽसौ विचार इत्यत आह । प्रजासृजा ब्रह्मणा ।
भूतानां प्राणिनः श्रेष्ठाः प्राणिषु बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । । १.९६ । ।
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । । १.९७ । ।
इत्यादि स्मृति मनुबदन्नाह ।
जना इति ! जनाः शुभाः शस्ताः श्रेष्ठाः इत्यर्थः । तत्राऽपि जनेष्वपि । क्रमेणोत्तरोत्तराः पादोरुभुजाऽननोद्भवाः शूद्र वैश्य क्षत्रिय ब्राह्मणाः । शस्ताः प्रशस्ताः । शस्त क्षेमे प्रशस्ते चेति हैमः । ततस्तेभ्यो ब्राह्मणेभ्यः बुधाः विद्वान्सः । गुरवो महान्तः । गुरुर्महत्याङ्गिरसे पित्रादौ इति हेमचन्द्रः । ।३ । ।
। । ब्राह्मण जीविका कथनम् । ।
प्रथम ब्रह्मा जी ने चराचर जगत को रचकर मनुष्य उत्तम कहे और उनमें भी शूद्रों से वैश्य , वैश्यों से क्षत्रिय , क्षत्रियों से ब्राह्मण , ब्राह्मणों से भी विद्वान् ब्राह्मण उत्तम कहे हैं यह मनुस्मृति अध्याय प्रथम में व्यवस्था लिखी है || ३ ||
तेषान्तु मन्वादिभिरार्यवर्यै
र्हिताय वेदान् प्रविचार्य सम्यक्
मृताऽमृतार्त प्रमृतादि वृत्ति
र्लोके सुधर्म स्मृतिषू पदिष्टा । । ४। ।
मन्वादिभिस्तेषां धर्मतो जीवनो पायाः संदर्शिता इत्याह । तेषा मित्यादिना ! आर्येषु महाकुल प्रसूतेषु ब्राह्मण क्षत्रियेषु ।महाकुल कुलीनाऽऽर्ये इत्यमरः आर्य लक्षणन्तु प्रोक्तं वसिष्ठेन ! कर्तव्य माचरन्काम मकर्तव्य मनाचरन् ! तिष्ठति प्रकृताचारे सतु आर्य इति स्मृतः इति ! तेषु वर्याः प्रधानानि ! क्लीवे प्रधानं प्रमुखं प्रवेका नुत्तमोत्तमाः ! मुख्य वर्य वरेण्याश्चेत्यमरः । तैः । एतेनाऽऽचार्याणां महत्तमत्वन्द्योतितम् । आदिना याग्यवल्क्यात्रि वसिष्ठादयोबोध्याः । वेदान् ऋग्यजुस्सामाथर्वाख्यान् ! तु अवधारणे प्रशंसायामत्रास्ति ! तेन प्रशस्तानान्तेषां विद्वद्ब्राह्मणादीना मित्यर्थः ! हिताय कल्याणाय सुधर्म स्मृतिषु श्रेष्ठधर्मस्मारकेषु निबन्धेषु मनुस्मृत्यादिषु ! सोः पूजार्थकतया च धर्मशास्त्रस्य पूज्यतमत्वन्द्योतितम् ! मृतम् भैक्षञ्चामृततमयाचितंञ्चर्तमुञ्छशिलञ्च प्रमृतं कर्षणञ्चादि वाणिज्यादिजीवनञ्च तच्चासौ वृत्तिर्जीवनम् ! उपदिष्टैव कठितैव ! अवधारणार्थक तुपदेनैतदपि बोधिताम् नस्वकल्पनया किमपि लिखामि । किन्तु प्राञ्चैर्यद्गदितन्तदेव दर्शयामीति भावः तथा च मनु चतुर्थाध्याये विप्राणा माजीवान प्रस्तावे ।
ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्यां अपि वा न श्ववृत्त्या कदाचन । । ४.४ । ।
ऋतं उञ्छशिलं ज्ञेयं अमृतं स्यादयाचितम् ।
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् । । ४.५ । । इति मनुस्मृतिः/चतुर्थोध्यायः
एव मेव श्रीमद्भागवते सप्तमस्कन्धे श्रीमान् व्यासोऽप्याह । तदन्यच्चात्र विस्तार भयेन नोपहर्तुमिच्छामि । इति दिक् । ।४ । ।
उनके हित सुखार्थ मनु आदि आचार्यों ने वार २ वेदों क विचार कर स्मृतियों में मृत ( भिक्षा ) अमृत ( याचना विना मिलना ) झृत ( बाजार गली मार्ग में पतित अन्नकणों का बीनना और खेतों में पडी हुई बाल भुन्टे का बीनना) प्रमृत ( खेती ) आदि पद से { शब्द से } व्यापार और नौकरी जीवन कहे ही है पुनः मैं अब नवीन क्या लिख सकता हूं यह भावार्थ है और यह व्यवस्था भी मनु ० अ ० ४ श्लो ० ४ .५ में भली भांति लिखी है । ।४ । ।
|| विप्र वृत्तिभंग कथनम् ||
सर्वोत्तमा सा त्वविचार काल
प्रभावतो नीच जनैर्गृहीता । ।
मध्या हता धर्म विहीन राज
न्यत्व प्रभावाद् दुरलाभतो ऽपि । । 5 ||
इदानीं ब्राह्मणाना माजीवनेषु उत्तममध्यमाधमत्व प्रकारपूर्वक विचारप्रस्तावनार्थन्तत्तलाभालाभ द्वारा सुजीवनमुपदिषति । सर्वोत्तमेति विशेषकेन । शिलोञ्छनायाचितयाचित कृषि वाणिज्य सेवाख्या उत्तम मध्यम मध्यमतर मध्यमतमाधमाधमतराः षड्वृत्तयः सामान्यतया , अद्रोहेणैव भूतानां अल्पद्रोहेण वा पुनः ।
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि । । ४.२ । । इत्यतो ,अनापदि , इत्यनुवर्त्य ,ऋतामृताभ्यां ,इत्यादि श्लोकद्वयेन धर्मशास्त्रे मनुस्मृतौ प्रोक्ताः । तत्र सवाजावनेभ्यो
ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते ।
कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२ ॥ स्कन्ध 11 उद्धव गीता अध्याय 17 श्लोक 42
किञ्च ,
शिलोञ्छवृत्त्या परितुष्टचित्तो
धर्मं महांतं विरजं जुषाणः ।
मय्यर्पितात्मा गृह एव तिष्ठन्
नातिप्रसक्तः समुपैति शांतिम् ॥ ४३ ॥
इति भागवतैकादशस्कन्धः सप्तदशाध्याये
उत्तमा या शिलोञ्छवृत्ति सा तु कस्येदंजीवनमित्यविचाराद्ब्राह्मणानां ,शिलोञ्छनं कलौ निषिद्धमिति धर्मसिन्धु लेखरूपात्कालप्रभावाच्च नीचजनैश्चर्माकाराद्यैर्गृहीता मध्याऽयाचित वृत्तिः स्वस्थाने परस्थाने वा विना याञ्चा अलभ्यमानेत्यर्थः । हता नष्टा । धर्मविहीन राजन्यत्व प्रभावात् वनवासिनान्तपः प्रधानधर्माणां ब्राह्मणानामाजीवनार्थमन्नादि दान करणं क्षत्रियाणांक्षेमाय परमो धर्म इति शास्त्र विहित निज धर्म रहित क्षत्रिय जाति प्रभावात् । अपिच । दुरलाभतो दुःखेनाऽप्यलाभाच्चेत्यर्थः । ( यत्र महत् एकपुरे त्वनेकाधीश प्रभावो ) इति पाठे एकपुर एकस्मिन्पुरे । चादग्रामेऽपि । स च विप्रादि वर्ण प्रायः प्राकार परिखादि रहितो हट्टादि विहीनो बहुजन वासस्थानो ग्रामः विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्तिहि । सतु ग्राम इतिप्रोक्तः शूद्राणां वास एव वा ।।
तथा शूद्रजन प्राया सुसमृद्ध कृषीवला । क्षेत्रोपयोग भूमध्ये वसतिर्ग्राम संज्ञिकेति ।। मार्कन्डेयपुराणात् अनेकाधीश प्रभावः । तस्याधिपतयश्च बहवो मदगर्विताः स्व स्वभूमिं बर्धयन्तः स्वपर दत्तांगामपहरन्तश्च तेषां प्रभावो मध्यामयाचित वृत्तिमहन् हतवानवधीदित्यर्थः । अधुना याचितोऽपि न ददाति तदाऽयाचिते कथमिति भावः || ५ ||
जो समस्त वृत्तियों में ब्राह्मणों की शिलोञ्छ वृत्ति उत्तम जीविका थी वह विचारहीन और कलिकाल प्रभाव ( कलियुग में ब्राह्मणों को शिला आदि बीनना बर्जित है धर्मसिन्धु आन्हिक प्रकरण में लिखा है ) से चमार जातीयादि जनों ने ले ली , और अयाचितत्व मध्यम जीवन वर्तमान काल में निज धर्म रहित क्षत्रिय जाति के प्रभाव से । और याचने पर भी जब नहीं देता तो बिना याचे कौन दे सकता है यह दुरलाभ से भी नष्ट हो गई ।।५ ।।
सा ऽ मानका मध्यतरा विनष्टा
विनिन्द्यते मध्यतमा च कैश्चित ॥
कर्म प्रभीतै रधमाऽति दूरात्
सन्त्यज्यतेऽन्त्या न कदाऽप्यऽहेया ॥ ६ ॥
मान मेव मानकन्नमानक ममानकन्तेन सहिता सामानका अपमान सहिता याञ्चाया मप्यधुना मानहानिरित्यतो मध्यतरा याचित वृत्तिर्विनष्टा क्वचित्क्वचिन्मानहनिर्भयेन याञ्चैव न क्रियत इति भावः । निजनिजेष्टा जीवनानामात्मात्मनैव परमोत्तमत्वमभिमन्यमानैः कैश्चित्सेवा वृत्ति धारकैर्व्यापाराजीभिश्च वा मध्यतमा कृषि जीविका विनिन्द्यते । धर्म प्रभीतैर्वास्तविकात्मीय धर्ममर्म्माभि विचाराप्रविष्ट बुद्धि वैभवतया धर्म शास्त्रोक्त स्वधर्म विरुद्धाचरण सेवने जातित्व हानि श्रवण भीरुभिः । तथाहि ।
वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्मेण जीवन्हि सद्यः पतति जातितः । । १०.९७ । । इति मनुः ॥ श्रीमती गीताप्येवञ्च ।
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३- ३५॥
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् । । १.९६ । । इति याज्ञवल्क्यः । किञ्च कर्मणां व्यत्यये वृत्यर्थानां कर्मणां विपर्यासे यथा ब्राह्मणो मुख्य वृत्या अजीवन् क्षात्रेण कर्मणा जीवेदित्यनुकल्पः तेनाऽप्यऽजीवन् वैश्य वृत्या , तयाऽप्यऽजीवन् शूद्र वृत्या , । क्षत्रियोऽपि स्वकर्मणा जीवनार्थेनाऽजीवन् वैश्य वृत्या तयाऽप्यऽजीवन् शूद्र वृत्यावा । वैश्योऽपि स्ववृत्याऽजीवञ्छूद्रवृत्येति कर्मणां व्यत्ययः। तस्मिन् व्यत्यये सति यद्याऽऽपद्विमोक्षेऽपि तां वृत्तिं न त्यजति तदा पञ्चमे षष्ठे सप्तमे वा जन्मनि साम्यम् ।
जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् । । १.९६ । ।
यस्य हीन वर्णस्य कर्मणाजीवति तत्समान जातित्वं भवति । तद्यथा । ब्राह्मणः शूद्र वृत्या जीवन् तामपरित्यजन् यम्पुत्रमुत्पादयति सोऽपि तयैव वृत्या जीवन् पुनरप्येवं परम्परया सप्तमे जन्मनि शूद्र मेव जनयति ।
वैश्य वृत्या जीवन् षष्ठे वैश्यं । क्षत्रिय वृत्या जीवन् पञ्चमे क्षत्रियम् ।
क्षत्रियोऽपि शूद्र वृत्या जीवन् षष्ठे शूद्रम् वैश्य वृत्या जीवन् पञ्चमे वैश्यम् । वैश्योऽपि शूद्र वृत्या जीवन् तामपरित्यजन् पुत्र परम्परया पञ्चमे जन्मनि शूद्रं जनयतीति तन्मिताक्षरायां विज्ञानेश्वरः ।
वृत्या स्वभाव कृतया वर्तमानः स्वकर्म कृत् ।
हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियादिति || ७.११.३२।
श्रीमद्भागवते सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णये एकादशोऽध्यायः ॥ ११ ॥
॥ नारद वाक्यम् ॥
अधमा वाणिज्य वृत्तिः । अति दूरात् सन्त्यज्य ते ।अहेया ग्राह्या न कदापीति पूर्वाचार्यैरेव सुनिषिद्धा ।
सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् ।
वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । ।२० ।। इति भागवते सप्तम स्कन्धे नारद वाक्यात् ।
सीदन् विप्रः वणिक् वृत्त्या पण्यैः एवापदं तरेत् ।
खड्गेन वाऽऽपदाक्रान्तो न श्ववृत्त्या कथञ्चन ॥ ४७ ॥इति भागवतैकादशस्कन्धे सप्तदशेऽध्याये श्रीकृष्ण वाक्याच्च
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् । । ४.६ । ।इति मनु वाक्याच्च
न कुर्यात्कृषि वाणिज्यं सेवावृत्तिं तथैवच ।
ब्राह्मण्याद्धीयते तेन तस्मात्त्तानि विवर्जयेत् ।। इति स्मरणाच्च ॥६ ॥
अपमान सहित होने से मध्यतर याचित वृत्ति अर्थात मानहानि भय होने से कहीं २ ब्राह्मण ही याचना नहीं करते अतः विनष्ट ही सी है । और नौकरी को उत्तम जानने वाले और व्यापार को श्रेष्ठ बताने वाले कोई २ ब्राह्मण मध्यतम ( खेती ) जीविका को निन्द्य कहते है । और निज जीवन त्याग कर परजीवन द्वारा कालान्तर में जातित्व नाश श्री मनु ,गीता ,याज्ञवल्क्य ,मिताक्षरा ,श्रीमद्भागवत सप्तम स्कन्ध में श्रवण कर निजधर्म मर्म के आशयलेश मात्र के भी यथार्थ ज्ञान न होने से भयभीत हुए ही ब्राह्मण अधम (व्यापार ) जीवन को दूर से ही त्याग कर भागते है । और भागवत ७ स्कन्ध नारद वाक्य, भागवत ११ स्कन्धश्रीकृष्ण वाक्य , मनु ० अ ० ४ श्लोक ६ से अन्त्य ( नौकरी )जीवन आपत्ति में भी ग्राह्य नहीं है ॥ ६ ॥
॥ विप्राणां कृषि वृत्ति कथनम् ॥
परन्त्वपास्या अपि वा न शूद्रै –
रुक्ताऽधमाऽन्त्येति जगाद धीरः ॥
सुदूरदर्शी मनुरार्यवर्य –
श्चतुर्विधं स्वी विदधेऽवशेषम् ॥७ ॥
एवं शिलोन्छनादिवृत्तयो नष्ट प्राया एव कारणान्तरैः पुनराधुनिकानां विप्राणां कृते किमवसितमिति प्रदर्शयितु माह । परमित्यादि । धीरः कोविदो वेदवेत्ता । आर्येषु स्मृतिकारेषु वर्योऽग्रणी । सुष्ठु दूरान् भावियुगधर्मान् पश्यतीति सुदूरदर्षी चतुर्युगयोग्य धर्मालोचयिता । मनुराचार्यः । परन्तु किन्त्वर्थकः । ,ऋतामृताभ्या , मित्यत्रोत्तरार्धे , सत्यानृताभ्या , मित्यत्राऽपि वेतिशव्द ग्रहणा ,न्नश्ववृत्ये , त्यत्रनेति शव्द ग्रहाणाच्च । अपि ,वा ,न ,इति त्रिशव्दै रधमा , ‘‘ पशूनां रक्षणं दानं इज्याध्ययनमेव च । वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च । । १.९० । । इति प्रथमाध्याये स्वमुखेनैव ब्रह्मणाधम वणिग् जन जीवनेषु मुख्यतया परिगणिता अतः, वाणिज्यवृत्तिः ।
एकं एव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषां एव वर्णानां शुश्रूषां अनसूयया । । १.९१ । । इति मुख्यतया सेवाया वृत्याश्शूद्रवृत्ति कथनातत् ।
अन्त्या सेवा वृत्तिः । अपि सा त्याजनीया । सर्वथा ब्राह्मणैरिति जगाद । स्वयमेव मनुर्ब्राह्मणानां वाणिज्य सेवा वृत्योर्निषेधं प्रोक्तवान् । इति भावः । पुनर्ब्राह्मणानां जीवनार्थं धर्मतया किमङ्गीकृतवानित्यत आह । चतुर्विधम् इति । अवशेषन्तयोर्वाणिज्यसेवयो रवशिष्टाञ्चतुर्विधञ्चतुः प्रकारकं शिलोन्छनादि कर्षणान्त माजीवनं स्वीविदधे स्वीचक्र । चतसृणा मपि वृत्तीनां गृहस्थ भेद व्यवस्थया मुख्य गौणत्वमुररीवानित्याशयः ।
तत्रेयं व्यवस्था । तथाच । गृहस्थो द्विविधः । यायावरः शालीनश्च ।
द्विविधो गृहस्थो यायावरः शालीनश्चेति देवलाद्युक्तेः । तयोर्यायावरः प्रवरो यश्च याजनाध्यापन प्रतिग्रह भिन्न शिलोन्छवृत्ति धान्यसम्पन्नः केवलं परमार्थप्रियः ।
प्रतिग्रहं मन्यमानः तपस्तेजोयशोनुदम् ।
अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥ ४१ ॥ इति भागवतात्
वर्तयंश्च शिलोञ्छाभ्यां अग्निहोत्रपरायणः ।
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा । । ४.१० । ।
न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन ।
अजिह्मां अशथां शुद्धां जीवेद्ब्राह्मणजीविकाम् । । ४.११ । ।
संतोषं परं आस्थाय सुखार्थी संयतो भवेत् ।
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः । । ४.१२ । । इति मनु वाक्याच्च
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः । । १.१२८ । । इति याज्ञवल्क्यस्मृतेश्चापि । इत्यञ्च ,ऋतमुञ्छशिल , मिति जीवनन्तु ब्राह्मण मुख्यस्य यायावर गृहस्थस्यैव नत्वन्यस्य । शालीनास्तु प्रेष्य चतुष्पद गृह ग्राम धन धान्य युक्तो लोकानुवर्ती षट्कर्मा । सोऽपि चतुर्विधः।
कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा । । ४.७ । । इति मनुस्मृतेः ।
कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा । इति याज्ञवल्क्यस्मृतेश्च ।
कुसूलधान्यकः, कुम्भीधान्यकः ,त्र्यहैहिकः अश्वस्तनिकश्चेति । याजनाध्यापन प्रतिग्रह कृषि वाणिज्य पाशुपाल्यैः षड्भिर्जीवति स प्रथमो बहु पोष्यवर्गः । याजनादि त्रिभि र्द्वितीयः। स्ततो न्यूनपोष्यवर्गकः ।
याजनादि द्वाभ्यां तृतीय स्ततोऽपि स्ततो न्यूनपोष्यवर्गकः । अध्यापनेनैव चतुर्थक स्ततोऽपि न्यूनपोष्यवर्गकः ।
षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते ।
द्वाभ्यां एकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति । । ४.९ । । इति मनूक्तेः । एषां गृहस्थानां मध्ये कश्चित् गृहस्थो यो बहुपोष्यवर्गः सः प्रकृतैः ऋतायाचित भैक्ष कृषि वाणिज्यैः पञ्चभिस्तेनचैवेत्यनेनैव च शव्दसमुच्चितेन कुसीदेनेत्येवं षड्भिः कर्मभिः षट्कर्मा भवति षड्भिरेतैर्जीवति । अन्य स्ततोऽल्पपरिकर स्त्रिभिर्याजनाध्यापनप्रतिग्रहैरद्रोहेणेत्येतत् श्लोकसंग्रहीतैः प्रवर्तते ।
अपरः पुनः प्रतिग्रहः प्रत्यवरः इति वक्ष्यमाणत्वात्तत्परित्यागेन द्वाभ्यां याजनाध्यापनाभ्यां प्रवर्तते । उक्तत्रयापेक्षातश्चतुर्थः ब्रह्मसत्रेणाध्यापनेन जीवतीति कुल्लूकात् मेधातिथ्युक्तेश्च । एवञ्च कुसूलधान्यकशालीनविप्रगृहस्थस्य षट्कर्मजीवनेष्वधिकारः प्रतीयते यथा
चतुर्णां अपि चैतेषां द्विजानां गृहमेधिनाम् ।
ज्यायान्परः परो ज्ञेयो धर्मतो लोकजित्तमः । । ४.८ ।। मनुरुक्तेरेषामुत्तममध्यमाधमत्वं जीविका व्याजेन चार्यैरारोपितन्तदन्यदेतदिति । तत्र मुन्यङ्गी कृतासु चतसृषु जीविकासूत्तमा तु यायावरगृहस्थाभावादिकारणैर्नीचजनैर्गृहीतत्वाद्व्यापन्ना । मध्याऽयाचितजीविकाऽपि स्वधर्म रहित क्षत्रियत्व प्रभावादि कारणाद्व्याहता । मध्यतरा याञ्चावृत्ति रपमानवतीत्वाद्विनष्टप्रायैव । मध्यतमा कृषि राधुनिकैः ,कैश्चिद्विनिन्द्यते ,इत्यत्रैव कैश्चिदिति शव्देणा दाधुनिकानामपि कुसूलधान्यादीनां शालीनानां गृहस्थानां विप्राणां कृतेऽनापद्यपि ज्यायसीति मनुनैव निश्चितेति सुदूरदर्शी शव्द ग्रहणसामर्थ्यात्प्रतीयते । दैनन्दिनमधिकाधिकव्यवहारप्र्सरत्वात् ।तथाच । इममेवाशयमादाय पराशरोऽप्याह । षट्कर्म सहितो विप्रः कृषि कर्माणि कारयेदिति । ऋग्वेदेऽपि श्रूयते। अक्षास इदंकुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः।
कुमारदेष्णा जयतः पुनर्हणो मध्वा संपृक्ताः कितवस्य बर्हणा।।७।। १०.३४ इति
अक्षास इत् अक्षा एव अन्कुषिनोऽन्कुशवन्तः । नितोदिनो नितोदितवन्तश्च । पुरुषे च कृषौ प्रवर्तमानः।
निकृत्वानः पराजये निकर्तनशीलाश्छेत्तारो ,वा तपना स्तापयिष्णवः पराजये कितवस्य सन्तापकाः सर्वस्वहारकत्वेन कुटुम्बस्य संतापनशीलाश्च भवन्ति । किञ्च जयतः कितवस्य कुमारदेष्णा धनदानेन धन्यतां लम्भयन्तः कुमाराणान्दातारो भवन्ति अपिच मध्वा मधुना संपृक्ताः प्रतिकितवेन वर्हणा परिवृद्धेन सर्वस्वहरणेन कितवस्य पुनर्हणः पुनर्हन्तारो भवन्ति । इति तत्सायण भाष्यम् । इत्यतोऽवगम्यते कृषिकर्मलव्धवहुधनस्य विप्रस्य दयूतकर्मप्रवृत्तिर्द्यूतकर्मणोऽतिनिन्द्यत्वन्च | एवमेवाग्रे तत्रैव ‘‘अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः । तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥१३॥ इति
हे कितव ! वहुमन्यमानो मद्वचने विश्वासं कुर्वन् त्वमक्षैर्मादीव्यो द्यूतं मा कुरु कृषि मित् कृषि मेव
कुरुस्व कुरु । वित्ते कृष्यासम्पादिते धने रमस्व रतिं कुरु तत्र कृषौ गावो भवन्ति । तत्र जाया भवति ।
तदेव धर्म रहस्यं श्रुतिस्मृतिकर्ता सविता सर्वस्य प्रेरको दृष्टि गोचरोऽर्य ईश्वरो मे मह्यं विचटे
विविध माख्यातवान् । इति तत्सायन भाष्याच्चाऽपि प्रत्यक्षत एव ,ज्ञायते द्यूतकर्म धनोपार्जिताच्छ्रुतिस्मृति
कथितकृषिकर्मणो वित्तदिसञ्चयो ज्यायान् । इति जीविकार्थ मेव कृषेरुपदेशोऽयं वेदे नतु
यज्ञादिनिमित्तकायाः सर्वसंमतायाः कृषेः । तथा ऋग्वेद तृतीयाष्टकाष्टमाध्यायेऽपि ।
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥४॥ मण्डल ४ सूक्त ५७
इति श्रूयते वाहाः वलीवर्दाः शुनं सुखं यथास्यात्तथा भारं वहन्तु । नर इति नृ शव्दस्य प्रथमावहुवचनान्तम् ।
कर्षुका नरः शुनं यथास्यात्तथा कर्म कुर्वन्तु । लाङ्गलं नाम अयोमुखं भूविदारकं काष्ठं कृषतु
भुवं विदारयत्वित्यर्थः । किञ्च माध्यन्दिनीयवाजसनेयियजुर्वेदसंहितायामष्टादशाध्यायस्थ सप्तम नवम
मन्त्रगत ,सीरञ्चमे ,कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे यज्ञेन कल्पन्ताम्,इति पाठ भाष्याशयेनाऽपि
प्रतीयते श्रुतिस्मृतिशास्त्रसम्पन्नो विप्रो नित्याद्यनुष्ठाता शङ्करतो हलादिक मभिवाञ्छति । हलाद्यपेक्षा च
कृषिवृत्तिधारकत्व एव सम्भवति । अयमप्युपदेशो जीविकार्थ मेवच प्रतिभाति । अन्यथा प्रार्थनाया
असमञ्जसत्वं स्यात् । याज्ञिकी कृषिस्तु तत्रैव द्वादशाध्याये दृष्टव्या । तथाच
सीरा युञ्जन्ति कवयो युगा वितन्वते पृथगित्यादि पञ्च मन्त्रैः । अ. 12 मं. 67 । सोग्नेर्दक्षिणां श्रोणिम् ।
जघनेन तिष्ठन्नुतरां सस्यपुरस्ता द्युज्यमान मभिमन्त्रयते ।सीरा युञ्जन्ति कवयो युगा वितन्वते पृथगिति ये विद्वान्सस्ते कवयस्ते सीरञ्च युञ्जन्ति कवयो युगा वितन्वते पृथग् धीरा देवेषु सुम्नये ति यज्ञो वै सुम्नं धीरा देवेषु यज्ञं तन्वाना इत्येतत् ,इति तदीय शतपथ प्रथमप्रपाठक चतुर्थब्राह्मणेन । सीरा युञ्जन्ति सीराणि लाङ्गलानि
युञ्जन्ति कवयो मेधाविन इत्यादि तदीयोव्वटभाष्येण च । धीरा धीमन्तोऽग्निक्षेत्रविदः कवयः कृषिकर्माभिज्ञाः
सीरा सीराणि हलानि युञ्जन्ति वृषैर्योजयन्ति युगा युगानीत्यादि ,इति तदीयमहीधरभाष्येण च सीरा युञ्जन्ति धीरा अग्निक्षेत्रविदः कवयः कृषिकर्माभिज्ञाः इत्यादि ,इति तदीयोदयभाष्येण च । एवमथर्ववेद तृतीयकाण्डचतुर्थानुवाक
सप्तदशसूक्तस्य ,सीरा युञ्जन्ति , इत्यादि नव मन्त्रैश्च वर्णिता । एवमेवान्त्येष्टिनिमित्तभूताऽपि वेदे श्रूयते ॥
यागाधिकारश्च विशेषतया ब्राह्मणस्यैव सर्वत्र युगेषु स्थितः। अवश्यञ्च ब्राह्मणोऽग्निनाऽदधीत ,दर्शपूर्णमासाग्रहणेष्टि
चातुर्मास्यपशुसोमैश्च यजेत नेयमिकं ह्येतद्रिणसंस्तुतञ्च । विज्ञायते हि त्रिभि ऋणै ऋणवान् ब्राह्मणो जायते ।
यज्ञेन देवेभ्यः प्रजया पितृभ्यो ब्रह्मचर्येण ऋषिभ्य इत्येष वाऽनृणो यज्वा यः पुत्री ब्रह्मचर्यवान् इति वशिष्ठस्मृतौ
समयलेखाभावात् । इत्यलं पल्लवितेन प्रकृतमनुसरामः । एवञ्चोभयथाऽपि वस्तुतः कृषिजीवनं सत्ययुगादावपि
श्रेष्ठतया स्मृतिषूपदिष्टम् । अन्यथा स्वात्माराम आत्मतन्त्रः श्रीमान् जडभरतस्तृतीये जन्मनि आङ्गिरस गोत्रे
समुद्भूतःसन्निजभ्रात्रिभिरात्मधर्मविद्भिः शालिक्षेत्ररक्षायां कथं नियोजित इति तदितिहासः श्रीमद्भागवते समन्वालोचनीयोविद्वद्भिः। किञ्च भागवत एकादश स्कन्ध उद्धवम्प्रति श्रीमद्भगवता कृष्णेन श्रावितोऽवन्ति समुद्भूत कार्ष्यब्राह्मणस्येतिहासश्च कथं संगच्छे दितिदिक् ॥ ७ ॥
एवं शिलोञ्छनादि छओ जीविका नष्ट ही सी है परन्तु वर्तमान कालिक विप्रों को सेव्य कौन सी जीविका शुद्ध है यह विचारा जाता है । मनु अ ० ४ श्लो० ४ के उत्तरार्ध में अपि ,वा , न , इन तीन शव्दों के लिखने से ही साफ़ २ श्री मनु भगवान ने ही ब्राह्मणों को व्यापार और सेवावृत्ति का निषेध कहा है । पुनः अब शेष शिलोञ्छ ,अयाचित ,याचित ,कृषि ,इन चार वृत्तियों का विचार करना रहा सो लिखते हैं । देवलादि ऋषियों के मत से गृहस्थ दो तरह के होते हैं । यायावर और शालीन । सर्व शास्त्र सम्मत शिलोञ्छ वृत्ति धारक यायावर गृहस्थ ब्राह्मण को केवल परमार्थ साधक कहा है । और शालीन गृहस्थ के चार भेद शास्त्र से मिलते हैं । जैसे ,कुसूलधान्य जिसकी यज्ञ कराने ,विद्या पढाने , दान लेने ,कृषि करने ,व्यापार करने ,सूद लेने से वा पशु पालने से .इन छह कर्मों से जीविका कही है अतएव उसीको षट्कर्मा कहा है अर्थात् जिसके बहुत बडा कुटुम्ब हो वह षट्कर्मा होता है । दूसरा कुम्भीधान्य जिसकी जीविका यज्ञ कराने ,विद्या पढाने , दान लेने इन तीन कर्मों से कही है । और तीसरा त्र्यैहैहिक जिसकी जीविका यज्ञ कराने , विद्या पढाने इन दो ही कर्मों से प्रतिपादन की है एवं चौथा अश्वस्तानिक जो केवल विद्या पढाने से ही जीवन यापन यापन करता है तो सिद्ध हुआ कि जैसे २ सांसारिक व्यवहारों में व्ययाधिक्य होता जावे तैसे २ ही जीविका वृद्धि करता जावे और जीविका वश यथायोग्य चारों को शालीन गृहस्थों में गिना जावे । जो स्मृतियों में इन्ही चारों में कुसूलधान्य से कुम्भीधान्य ,कुम्भीधान्य से त्र्यहैहिक ,त्र्यहैहिक से अश्वस्तानिक गृहस्थी उत्तम कहा है वह दूसरी वात है । अब चार जो मनु ने जीविका मानी है उनमें शिलोञ्छ वृत्ति यायावर गृहस्थों के अभाव आदि कारणों से नीच जन हस्तगत हो गयी और अयाचित विलकुल नष्ट हुआ क्योंकि याचना में मानहानि भय है । तो आज तो केवल हस्त कृत कृषि जीवन ही शेष मालुम हुआ उसी आशय को सुदूरदर्शी पद सिद्ध करता है । यद्यपि अनापत्ति काल में कृषिजीवन मनु आदि महर्षियों ने कुसूलधान्य शालीन गृहस्थ के लिये निश्चय किया है तथापि वर्तमान में अधिक व्यवहार वृद्धि से चारों शालीन समान ही हैं । इसी आशय को ले श्री पराशर ने विप्र मात्र को जीविकार्थ कृषि का उपदेश करते हैं । ऋग्वेद मण्डल १० अ० ३४ से द्यूत कर्म का निषेध कह कर जीविकार्थ कृषि का उपदेश किया है और यजुर्वेद संहिता अध्याय १८ मन्त्र ७ और ९ में भी जीविकार्थ ही कृषि उपदिष्ट है । और यज्ञ निमित्त कृषि के उपदेश के मन्त्र यजुर्वेद अध्याय १२ और शतपथ ब्राह्मण १ म प्र ० ४ व्रा के मन्त्र पृथक ही है यह उनके उव्वट ,महीधर ,उदय ,गिरिधर ,ज्वालाप्रसादीय भाष्यों से सिद्ध है । और अथर्व वेद काण्ड ३ अनुवाक ४ सूक्त १७ में मन्त्र १ ,२ ,३ ,४ ,५ ,६ ,७ ,८ ,९ ,के सायण भाष्य से भी सिद्ध है । ऐसे ही अन्त्येष्टि निमित्तक कृषि का उपदेश वेद में लिखा है । यज्ञाधिकार ब्राह्मण को किस धर्मशास्त्र में नहीं लिखा है । अतः सिद्ध हुआ कि सर्वथा ब्राह्मण को कृषि करना योग्य ही है । यदि यह सिद्धान्त अयोग्य होता तो अङ्गिरा गोत्री ब्राह्मण परम महात्मा विद्वान् निज भोले धर्मज्ञ भ्राता जडभरत को चावल के खेत रखाने की क्यों आज्ञा देते, यह भागवतस्थ उन्ही के इतिहास से सिद्ध होता है कि जडभरत के भ्राताऔं के खेती होती थी और भी भागवत के ही ११ वें स्कन्ध में उज्जयनी नगरी के कदर्य ब्राह्मण के इतिहास से भी सिद्ध होता है कि विद्वान ब्राह्मण खेती करता था परन्तु धन खर्च नहीं करता था अतः उसकी दुर्दशा बीतने पर उसे स्वर्गावाप्ति हुयी यह और ही बात है ॥ ७ ॥
कृषिक्रिया सर्व युगेषु पूजिता
द्विजै र्न निन्द्या कथिता कदापि च ॥
अतः सुसेव्या भुवने द्विजाग्रजैः
सदा चतुर्वर्ग फलेप्सुभिर्जनैः ॥८ ॥
ननु ‘‘ हलान्तं ब्रह्मवर्चस ’’ मिति श्रुतिसूत्रस्य ,हलिनो ब्राह्मणा भ्रष्टाः , इत्यादि पुराण वाक्यानाञ्च
ऊर्ध्ववस्त्र मधोवस्त्रं वस्त्रञ्च च गालबन्धनम् ।षड्भि र्विप्राः क्षयं यान्ति हालाहल हलायुधै ,रिति स्मृतेश्च
आकर्षणं शत्रुनिवर्हणञ्च कृषि वाणिज्यं पशुपालनञ्च । शुश्रूषणन्चाप्यगुरो रहेतोः कार्यं च तद्विद्यते ब्राह्मणस्य ॥ इति भारतोक्ते श्चापि का गति रिति चेच्छ्रूयताम् ।, हलान्तं ब्रह्मवर्चस ,मित्यत्र हले ,अन्तो नाशो यस्येति व्यधिकरणवहुव्रीहिसमासाश्रयेणेन लक्षणया तद्ग्रहण कर्मणीति बोधेन याज्ञिककृषिकर्मणो वाधः शङ्क्यत उताऽऽजीवनायोपदिष्यमानकृषिकर्मण इति । पाठान्तरं ज्याकर्षणं शत्रुनिवर्हणञ्च कृषिर्वणिज्या पशुपालनञ्च। शुश्रूषणञ्चापि तथार्थहेतो- रकार्यमेतत् परमं ब्राह्मणस्य॥ ” इति पाद्मे स्वर्गखण्डे २७ अध्यायः॥
आद्येऽदोषस्तस्याः सर्व संमतत्वात् । श्रुतेर्वलवत्तरत्वाच्च । द्वितीये तदवस्थ एव । नत्वेवं पशूनां रक्षणं दानं इज्याध्ययनं एव च । वणिक्पथं कुसीदं च वैश्यस्य कृषिं एव च । । १.९० । । इति मनुना
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । कुसीदकृषिवाणिज्य पाशुपाल्यं विशः स्मृतम् । । १.११९ । । इति याज्ञवल्क्यादि महर्षिभिश्च तत्र तत्र वैश्यस्यैव कर्मसु तस्याः परिगणितत्वात् । जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् । । १.९६ । । इत्यादिना षष्ठे जन्मनि तत्समानजातित्वापत्तेश्चेति वाच्यम् । तत्र कुसीद कृषिधर्म गणनाषु मध्ये धर्मिणो ,वैष्यस्येति लिखितत्वात् । विशोऽमुख्यधर्म प्रतीतेः।
विप्राणां प्रमितेन चेति तदुपदेशव्यर्थतापत्तेश्च । नचैवम्परस्पर विरोधोऽन्यत्रापि पुनः पुन र्वैष्यवृत्तिष्वेव तत्पाठप्रदर्शनादिति वाच्यम् । ‘‘ पशूना ’’ मित्यत्र कृषेः पृथगेव पाठात् । मनोर्वलवत्तमत्वाच्च । आहोस्वित्पूर्वं सामान्यतयो पदिष्टस्य कृषिकर्मणः उभाभ्यां अप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।
कृषिगोरक्षं आस्थाय जीवेद्वैश्यस्य जीविकाम् । । १०.८२ । । इत्यनया स्मृत्या
वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा ।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् । । १०.८३ । । इति मनुस्मृत्या च
कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः ।
भूमिं भूमिशयांश्चैव हन्ति काष्ठं अयोमुखम् । । १०.८४ । ।इति मनुस्मृत्या च तेनैव वाधप्रदर्शनात् ।
अन्यथाऽऽपन्नस्य विप्रस्य जीवेद्वैष्यस्य जीविकां इत्यादि उपदेशोक्तिः कथं संगच्छेत् ।
आस्तान्तावद्विधिहीनायाः सामग्रीरहितायाः न पुनर्द्वितीयस्याः । अन्यथा अपाङ्क्तेय ब्राह्मण कृष्याऽवसरे उक्तै ,कृषिजीवी श्रीपदी च सद्भिर्निन्दित एव च , इत्यत्र चतुर्वर्गचिन्तामणिपरिशेषखण्डे श्राद्धकल्पे ब्राह्मणनिरूपण प्रकरणावसरे । कृषिजीवी यः प्रतिषिद्धया कृष्या जीवति सा चाऽनापदि प्रतिषिद्धा । आपद्यपि स्वयं क्रियमाणा अन्यतः कार्यमाणापि यथोक्तावधि विरहिताप्रतिषिद्धा । कृषिविधिस्तु
राज्ञो दत्त्वा च षड्भागं देवतानां: च विंशकम् । त्रिषड्भागं च विप्राणां कृषिं कृत्वा न दोष भागितित्यादि स्मृतिकारैः प्रतिपादितम् इति हेमाद्रिद्युक्तेर्व्यर्थतापत्तिः । अन्यच्च पाठान्तरं वाचस्पत्ये – राज्ञो दत्त्वा च षड्भागं देवतानां च विंशकम्। त्रयस्त्रिंशञ्च विप्राणां कृषिकर्मा न लिप्यते। कुसीदकृषिवाणिज्यं प्रकुर्वन्तः स्वयंकृतम् । कृषेरभावे वाणिज्यं तदभावे कुसीदकम् ।। २५.२।। इति कूर्म पुराणोक्त वाक्यस्य व्यर्थतापत्तिश्च स्यात् । अतएव ,प्रमृतेने ,ति मनौ सर्वज्ञ नारायणः । प्रमृतं प्रकर्षेण प्राणिनां मारकत्वात् ।तथाच । द्विजातिमुख्य वृत्तीना मित्युपक्रम्य कृषिवाणिज्ययो रभिध्याना न्नानयोरापदिवर्णान्तरवृत्तितया ब्राह्मणैरनुध्यानम् । किन्तु स्ववृत्तितयैवेति । अतः सिद्ध माद्येयुगेऽपि स्वयंकृतं विधिसहितं कृषिजीवनं विप्राणाम् । अतश्च ज्ञायते ,हलान्तं , हले अन्तः समीपोयस्येति समीपार्थेऽपि अन्तशव्दस्याऽभिधानकैः परिग्यातत्वात् । तथाच हलान्तं हलग्रहणपर्यन्तं ब्रह्मवर्चसमिति तद्बोधान्नदोषस्य तादवस्थ्यम् । यत्तूक्तं ,हिंसाप्रायां पराधीता,मित्यादि । तदत्र मेधातिथि राह । कृषिनिन्देह वैश्यवृत्ति स्तुत्यर्था न पुनर्ब्राह्मण वृत्ति प्रतिषेधार्था । तथाच सत्युपदेशो व्यर्थोऽस्या आपद्येत । इत्युक्ते नायन्तत्राऽपि दोषः । यदत्र सर्वज्ञ नारायणादयो गौतम मतानुसारेण स्वयंकृतायां दोष मूचिरेऽनेकोपकरण सीतादि संपाद्यत्वात्तदतिभ्रममूलकम् । गौतमस्मृते स्त्रेतार्थकत्वा न्मनोश्च सत्ययुगार्थकत्वात् ।
कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः ।
द्वापरे शाङ्खलिखिताः कलौ पाराशराः स्मृताः ।। १.२४ ।।इति पराशर स्मृतेः ॥ राघवानन्द स्त्वत्रएतदाह
,हिंसाप्रायत्वात् , इति तदुत्तरन्तु हेमाद्रिवचनेनैव दत्तं मूलेप्यग्रे स्फ़ुटी भविता । एव मेव ,हलिनो ब्राह्मणा नष्टाः , इत्यादि पुराण वाक्येषु हलंविद्यत इति मत्वर्थीयेनिनन्तस्य हलवन्तो हलधारका इत्यर्थावगमात्तादृशाएव नष्टा नाश मायान्ति धनगेहादिना न पुनर्हलकर्षका स्तज्जनितगोधनान्नादि सर्वसुखसंपन्नत्वात् । इत्यर्थावगमाददोषः । एवञ्च ,उर्ध्ववस्त्र ,मिति स्मृते रपि उर्ध्ववस्त्रमूर्ध्वभागाङ्ग परिधानयोग्य मङ्गरक्षी शिरस्त्राणादिकम् । अधोवस्त्रं नीचैर्भागाङ्ग परिधानक्षमं कौपीन धौतवस्त्रादिकम् । गलबन्धनं गले कण्ठे स्कन्धे वा धारणयोग्यमङ्गोच्छादिकम् । क्षयं निवासस्थानं गृहं प्रतिष्ठामित्याद्यर्थकंपदम्। निलयापचयौ क्षया वित्याभिधानिकोक्तेः । हालाहल विषन्तच्चात्र शुद्धमपेक्षितम् । तस्य गुणवत्तमत्वात् । आयुर्वेदीयानां सिद्धान्तात् । हलन्तु प्रकृतं प्रसिद्धमेव । आयुधान्यस्त्रशस्त्राणि । तैरित्यर्थाददोषः । नचात्राऽऽचार्यै रूर्ध्वमुखवस्त्राधोमुखवस्त्रदिक माधुनिकैः प्रचारित मपेक्षितन्नापिचात्राशुद्धशृङ्गकादिविषं विधिहीनं हलकर्मा शिक्षितायुधादिकमिच्छितं यत स्त्व्दुक्त दोषः स्यात्। नापि शिक्षितशस्त्रास्त्रादिविद्यस्य विषस्यापाङ्क्तेयत्वं स्यादित्यलमतिजल्पितेन। ,आकर्षण , मित्यादि भारतोक्तेरपि आपस्तम्वाद्युक्त , नीलीकर्षणकर्ता तु नीलीवस्त्रानुधारकः । किञ्चिन्न तस्य दातव्यं चाण्डालसदृशो द्विजः । । ,इत्यर्थपरत्वा ददोषः ।यत्तूक्तं धर्मसिन्धौ , आपदि क्षत्रवैश्यादिवृत्तिं विप्रः कलौ त्यजे दिति । तदत्यसङ्गतन्तत्रैव पूर्वापरग्रन्थ विरोधात् । तथाच तत्रैवाग्रे आन्हिक प्रकरणे। वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥ स्कन्ध ७ अध्याय ११ इति भागवतीय श्लोकोपरि विचित्रा वार्ता कृष्यादि इत्यनापदर्थ लेखदर्शनात्पुनः किमापदीति निषेधात्।एवंच प्रमाण बलेन मनुसमकालिकी कृषिवृत्ति विप्राणां यदा प्राप्यते न तदा त्रेता द्वापरयोरप्राप्तेति किमु वक्तव्य मेवास्तीति वाच्यम् । कलौ तु पराशरः प्रतिपादयत्येव। नन्वास्तान्तावत्कथमपि धर्म्यं विप्राणां कृषिजीवनं पुरायुगेऽपि परंच तै रेवात्मीयात्मीयप्रवन्धेषु तत्प्रतिपादनपूर्वक तन्निषेधस्तन्निंदा च कुतो विहितेतिचेच्छ्रूयताम्। निषेधस्तु तपोव्यग्रत्वात् समयाभावात्। निन्दाऽपि तत्साधनविशेषाभावात् षट्कर्माचरणरहितत्वेन भाविप्रजायाः सामर्थ्याभावाच्च । अन्यथा साक्षात्स्मृतिकारा ब्रह्मपुत्रा वशिष्ठात्रिगौतमादयः कथं कृषिकर्मकरा आसन् कथं च तैस्तैरात्मीयात्मीयस्मृतिषूपदेशस्तस्याः कृतः । इच्छसिचेत्तदितिहासानालोचयितुन्तर्हि पश्य लैङ्गे त्रिषष्टितमेऽध्याये श्रीमतो वशिष्ठस्येतिहासम् । तथाच
अनावृष्ट्या हते लोके ह्युग्रे लोकेश्वरैः सह।।
वसिष्ठस्तपसा धीमान्धारयामास वै प्रजाः।। ६३.८१ ।
अन्नोदकं मूलफलमोषधीश्च प्रवर्तयन्।।
तानेताञ्जीवयामास कारुण्यादौषधेन च।। ६३.८२ ।। इति तपसा कृष्यादि रूपेणेति तदर्थः ।
यतश्च कुद्दालादिधारणमन्तरा कूपादिखननमसम्भवम् । तदभावे जलाभावः एवं हलादिकरणग्रहणाभावेचौषधिगणस्य प्रजातेरनुत्पत्तौ च मूलफलान्नाभाव स्तदासर्वाप्रजाप्राणपुष्ट्यभावोपीति
यौक्तिकशास्त्रश्रुतेः। किञ्च वाल्मीकीये रामायणे अयोध्याकाण्डे त्रिजटस्येतिहासं च। तथाहि ।
तत्राऽऽसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः ।क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥
तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् ।अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥ अपास्य फालम् कुद्दालम् कुरुष्व वचनम् मम ।रामम् दर्शय धर्मज्ञं यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥
स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।स प्रतिष्ठत पन्थानं यत्र रामनिवेशनम् ॥२-३२-३२॥भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि । दीप्त्या ब्रह्मवर्चसेनेति तट्टीका । आ पञ्चमायाः कक्ष्याया नैनं कश्चित् अवारयत् ॥२-३२-३३॥स राज पुत्रमासाद्य त्रिजटः वाक्यमब्रवीत् ।निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः ।क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥ इत्यादि । क्षतेन खननेन वृत्तिर्यस्येति । रामकृतरामाभिरामीय तट्टीका । लाङ्गलेन खननं पृथिव्याः कृषिकर्मण्येवोपयुक्तम्भवति नान्यत्रेति जानन्त्येव विज्ञतमाः । एव मेव श्री देवीभागवते द्वादश स्कन्धे शिवपुराणे च गौतमस्येतिहासस्तत्र तत्र दृष्टव्यः । अत्र च विस्तार भयेन नोपहर्तुमिच्छामः। एव मन्येषा मपि मुनीनां व्यवस्था पुराणेषु दृष्टव्या । एव मपि पुरायुगेषु सिद्धं धर्म्यं कृषिजीवनं विप्राणामिति । नचैवमनापदर्थ कृषिजीवन साधनाय यावान्पुराणप्रमाणसंदर्भ उपन्यस्तस्तावानापद्येवेति साधयतीति वाच्यम् । तेषाञ्चराचर जगत्सर्जनक्षमशीलशक्तिश्रवणात् । नचैवं तपसा कृष्यादिरूपेणेति तदर्थ इति कथमुक्तमिति वाच्यम् अन्नोदक मित्यादे रसङ्गतत्वापत्तेः । अन्यथौषधेनेत्यस्यस्थानेऽमृतेनेति लेखनमसमञ्जसं स्यात्
स्याच्चैव मन्नोदकमित्यादि पाठो व्यर्थ इति । अन्यच्च त्रिजटोपाख्यानगत रामायणीय पाठस्थ ‘‘ भृग्वङ्गिरःसमं दीप्त्ये ’’ ति लेखः दीप्त्या ब्रह्मवर्चसेनेति तदर्थ लेखश्च व्यर्थायेत आपन्नानान्तेजोहीन दर्शनात् ॥
किञ्च ,कुसूलः कुम्भीधान्योवे ,ति मन्वादिप्रदर्शित चतुर्विध गृहस्थ विप्रेषु कुसूलधान्यस्य विप्रस्य षट्कर्मणा
,षट्कर्मैकोभवति ,इति शास्त्रेण जीवनं प्रतिपादितं तत्र षड्वृत्तिषु कुल्लूकभट्टेनाऽपि कृषेरुल्लेखः कृतश्च व्यर्थः स्यात् । तस्याऽनापदीति निर्वचनात् तत्र सर्वैर्विप्रैः कुतो न कृतेत्यत्रैतदेव वदिष्यामो वयं यत्पृथुराज्यात्पुरासमये विषमभूमितया कृषिकरणं केवलं श्रमावहमेव न सम्यक् फलदानक्षमभूदित्यतोऽल्पकृषका विप्राः समभूवन् । एतदपि लैङ्गे ऊनचत्वारिंशत्तमेऽध्याये विष्णोरवतारस्य पृथुभूपस्येतिहासादवगम्यते । तथाच ।
अथाल्पकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश । ऋतुपुष्पफलाश्चैव वृक्षगुल्माश्च जज्ञिरे ॥ ४०॥ चतुर्दश संख्या का स्ता विष्णुपुराणे लिखिताः । यथा
ब्रीहयः सयवा माषा गोधूमा अणवस्तिलाः ।
प्रियङ्गु सप्तमा ह्मतो अष्टमास्तु कुलत्थकाः ।। २४ ।।
श्यामाकास्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तास्तदूत् मर्कटका मुने ।। २५ ।।
ग्राम्यारण्याः स्मृता ह्मतो ओषध्यस्तु चतुर्द्दश ।
यज्ञनिष्पत्तये यज्ञस्तथासां हेतूरुत्तमः ।। २६ ।। इति । शतपथब्राह्मणे चतुर्दशकाण्डे सप्तमेप्रपाठके
चतुर्थेब्राह्मणे द्वाविंशतिकण्डिकायान्तु दशग्राम्याणि अन्नानि प्रतिपादितानीति। तच्च विषयान्तरन्दृष्टव्यम् । तथाच दश ग्राम्याणि धान्यानि भवन्ति । व्रीहि यवास्तिला माषा अणु प्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलत्थाश्च तान् सार्धं पिष्ट्वा दध्ना मधुना घृतेनोऽपसिञ्चत्याज्यस्य जुहोतीति ।
ऋतुपुष्पफलाश्चैव वृक्षगुल्माश्च जज्ञिरे ॥ ४०॥
प्रादुर्भूतानि चैतानि वृक्षजात्यौषधानि च ॥
तेनौषधेन वर्तन्ते प्रजास्त्रेता युगेस्तदा ॥ ४१ ॥
ततः पुनरभूत्तासां रागो लोभश्च सर्वशः ॥
अवश्यं भाविनार्थेन त्रेतायुग वशेन च ॥ ४२ ॥
ततस्ताः पर्यगृह्णन्तः नदी क्षेत्राणि पर्वतान् ॥
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ॥ ४३ ॥
विपर्ययेण चौषध्यः प्रनष्टास्ताश्चतुर्दश ॥
मत्वा धरां प्रविष्टास्ता इत्यौषध्यः पितामहः ॥ ४४ ॥
विष्णो रंशात्मकत्वात्पितामहः पृथु नाम राजर्षि रित्यर्थः ।
दुदोह गां प्रयत्नेन सर्व भूतहिताय वै । प्रयत्नेन दारणादिना समभूमि बीजवापादियुक्त्येत्यर्थः ।
तदाप्रभृति चौषध्यः फालकृष्टास्त्वितस्ततः ॥ ४५ ॥
वार्ता कृषिं समायाता वर्तुकामाः प्रयत्नतः । । प्रयत्नतो दारणादिना समीकृत भूमौ हलखातादिकरण क्रियया वर्तुकामा जीवितुकामा इत्यर्थः । अत्र सार्वविभक्तिकस्तसिः ।
वार्तावृत्तिः समाख्याता कृषिकाम प्रयत्नतः ॥ ४६ ॥
अन्यथा जीवितन्तासां नास्ति त्रेतायुगात्यये ॥
हस्तोद्भवा ह्यपश्चैव भवन्ति वहुशस्तदा ॥ ४७ ॥ इति लिङ्गपुराणे पूर्वभागे ३९ अध्यायः ।
एवं विष्णु भागवतादि पुराणेषु पृथु भूपस्येतिहासाच्च ।तत्समानार्थकाथर्ववेदाष्टमकाण्ड पञ्चमाध्याय
दशमसूक्त मन्त्रबलाच्चापि । तथाहि ।
सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति ।
तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् ।
तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्।
ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥२४॥ इति । एतेन कृषिकर्मारम्भ स्तत्करणारम्भकालोपि निर्दिष्टः । सिद्धान्तितं चेतः पूर्वकालेऽपि कृषिकर्माल्पत्वं विप्राणां धार्म्मिकी कृषि विधानत्वं चेत्यत आह । कृषिक्रियेति । भुवने लोके । कदाऽपि अनापत्तावपि च तु स्वयंकृताऽपि ।सदा सर्वस्मिन्काले ।
चतुर्वर्गफलेप्सुभिर्धर्मार्थकाममोक्षफलेच्छुभिरित्यर्थः ॥ ८ ॥
शङ्का — हलग्रहण या कृषिकर्म करने से ब्राह्मण पतित हो जाता है ?
उत्तर — यह शङ्का याज्ञिककृषि और अन्त्येष्टि निमित्तक कृषिकर्म कर्ता का वाध नहीं कर सकती । कारण श्रुति स्मृति पुराणेतिहासों से ब्राह्मणमात्र को कृषि कर्तव्य सिद्ध है ।केवल जीविकार्थ कृषिकर्म का वाध अवश्य कर सकते हैं क्योंकि कृषि करना वैश्य का धर्म शास्त्रों में लिखा है । सो बात ठीक २ बनती नहीं कारण मनुस्मृति अध्याय १ में वैश्य धर्म गणना में कुसीद और कृषिशव्द के मध्य में वैश्यशव्द के लेख से गौणधर्म कृषि करना वैश्य का प्रतीत होता है । यदि ऐसा न माना जाय तो अनापत्तिकाल के लिये ,प्रमृतेन च ,यह मनुकृत कृषि का उपदेश व्यर्थ होवेगा । यदि कहो अनेक शास्त्रों में प्रतिवचन वैष्यवृत्तियों में ही कृषि का लेख पाया जाता है तो आप एक मनुवाक्य से ही समस्तों का खण्डन कैसे करते हो तो ,यन्मनुरवदत्तद्भेषजं भेषजतायाः ,इस प्रमाण से मनुवाक्य समस्तों को मन्तव्य है अतः अन्य वाक्यों का यहां निरादर किया जाता है ।
शङ्का— मनु को ही मानते हो तो मनूक्त आपद्धर्मों में ,कृषि गोरक्ष मास्थाय जीवेद्वैष्यस्य जीविकाम् ,इस स्मृति से वैष्यवृत्ति कृषिजीवन ब्राह्मणों को अनापत्ति में आचार्यों ने क्यों माना और क्यों आपत्ति में भी उसकी निन्दा की ।
उत्तर —यह शङ्का विधिहीन खेती करने वालों को वाध कर सकती है किन्तु जो विधिसहित खेती करते हैं उनको नहीं ,वह विधि आगे मूलग्रन्थ में ही विदित होजावेगी । यह ,कृषिजीवी ,इस मनु के पद के व्याख्याता हेमाद्रि ने व्यवस्था ठीक ठीक बांध दी है । और ऐसे मानने में कूर्मपुराण का वाक्यभी नहीं बिगडता है । इसीसे ,प्रमृतेन ,इस पद के व्याख्याता सर्वज्ञनारायण की उक्ति भी सत्य प्रतीत होती है । अतः निश्चय हो गया कि सत्ययुग में भी स्वयंकृत ब्राह्मणों का कृषिजीवन था। और यह भी सिद्ध हुआ कि हल से जोतने पर ब्राह्मण पतित नहीं होते । यह समस्त स्मृतिकारों का मत है । एवं मनुसमकाल में जब विप्रों का कृषिजीवन अनापत्ति में सिद्ध होता है तव पुनः कौन कह सकता है कि त्रेता द्वापर कलियुग में खेती नहीं करनी चाहिये ।
शङ्का — यदि कहा कि जब यही बात सत्य है तो उक्त मुनियों ने निज निज स्मृतियों में क्यों बिधि निषेध निन्दा लिखी ?
उत्तर — यह कि तप कर्म से फ़ुरसत न मिलने से और कृषिकी सामग्री के अभाव होने से । यदि ऐसा न होता तो साक्षात्स्मृतिकर्ता ब्रह्मा के पुत्र वशिष्ठ ,अत्रि ,गौतम , आदि क्यों कृषि करते ,देखिये लिङ्गपुराण अध्याय ६३ .८१ में भूपालादि सहित प्रजा को पीडित देख कृषि करके श्री वशिष्ठजी ने प्रजा रक्षा की ।
एवं श्रीवाल्मीकीय रामायण अध्याय ३२ श्लोक २९ से ३३ तक में गर्गगोत्रज त्रिजट ब्राह्मण कृषिकर्ता से उसकी तरुण स्त्री ने कहा कि वनयात्राप्रवृत्त श्रीरामचन्द्र आज ब्राह्मणों को धनादान करते सुने जाते हैं अतः हलादि त्याग रामदर्शन कीजिये यदि कुछ लेने की इच्छा होवे तो । इतना सुनते ही त्रिजट भृगु ,अङ्गिरा ,आदि ऋषिसम ब्रह्मतेजस्वी था श्रीरामचन्द्रजीकी पांचवीं ड्योढी तक विनारोके ही पहुंचा और रामजी से कहा कि वहुपुत्र कर्षक ब्राह्मणकी तरफ़ देख दया कीजिये ,श्रीरामचन्द्रजी ने उसकी वृद्धता की शक्ति जानने की इच्छा से कहा कि तुम जितनी गौ चाहते हो उतनेही दूर निज दण्ड को फेंक दीजिये आज्ञा पाकर विप्र ने सरयूपार दण्ड फेंका और राम ने उतने स्थान में खडी हुई गौऔ को देकर आशीर्वाद स्वीकार किया । यदि वह खेती नहीं करता तो क्यों हल ,फावड़ा ,कुदाल बांधता । यदि कहो की समस्त ब्राह्मण क्यों नहीं करते थे तो कह सकते हैं की पृथुराजा के राज्य से पूर्व भूमि विषम थी अतः खेती में कम प्राप्ति होती थी और ग्राम्य और जांगलिक १४ प्रकार के अनाज व्रीहि ,यव ,उर्द,गेंहू ,आदि के बीज थे अतः कोई कोई समभूमि वाले कर लेते थे। यह लिंगपुराण पूर्वभाग अध्याय ३९ और श्रीमद्भागवत और अथर्ववेद काण्ड ८ अध्याय ५ सूक्त १० में लिखे पृथु के इतिहास से सिद्ध होता है । इससे कृषि और कृषिकर्मारम्भकाल कहा। और सत्यादियुगों में भी थोडी सी खेती ब्राह्मणों द्वारा होती थी यह सिद्ध किया । अब जो सिद्ध हुआ वही कहते हैं कि सत्ययुगादि में कृषिकर्म था और कभी भी ब्राह्मणों ने कृषि की निन्दा नहीं की और जो की भी है उसका तात्पर्यही और प्रतीत होता है । अतः संसार में धर्मार्थकाममोक्ष फल चांहने वाले ब्राह्मणों को सदा कृषिकर्म करना योग्य है ॥ ८ ॥
————————————————————————————————————————–
( १ ) यहां शङ्कावाक्य प्रतिवादी के प्रश्न व्यङ्ग्य गर्भित होनेसे व्यङ्ग्यविधि से लिखा है ।
( २ ) द्वितीयादि — अर्थात् कल्पान्तर्गत दूसरे ,तीसरे सत्ययुग में भी । यह बात ,वार्ता विचित्रा , भागवत टीकाकार श्रीधर ने स्पष्ट की है ।
वदे ज्जगत्या मविचारतो यो
निन्द्या कृषि स्त्याजतमैकवारम् ॥
सो वेदविद्वत्परिषत्सु कथ्यो
भवे न्नितान्तं न्विति मे विचारः ॥९ ॥
एवञ्च कृतादिषु सिद्धायां कृषौ सेति दूषयेत्स विद्वत्सभासूपालम्भनीय इति वक्तु माह । वदेदित्यादि ।जगत्यां भूमौ योऽविचारतोऽविचारादेकवार मपि कृषि र्निन्द्या तित्याज्यतमाऽतिशयेन त्यक्तव्येति वदति व्रूयात् । सःकथ्य उपालम्भनीय इत्यर्थः । नितान्त मतिशयार्थे । नु अनुनयार्थे ॥ ९ ॥
जगतीतल पर विना विचार एक वार भी जो मनुष्य कृषिकर्म को निन्द्य और त्यागने योग्य कहै वह वेदवेत्ता पण्डितोंकी सभाओंमें उपालम्भनके योग्य होगा , यह अत्यन्त मेरा विचार है ॥ ९ ॥
यस्याः प्रभावाद्विचतुष्पदाः खगाः –
शरीसृपाद्या नरलोकवासिनः ॥
देवर्षिगन्धर्वमुखा स्त्रिविष्टप –
निवासिनो वै सुखिनो भवन्तकि ॥ १० ॥
कृषिः परमोपक्रिया क्रियेति निदर्षयितु माचष्टे । यस्या इति । द्विचतुष्पदा मनुष्यवृषादयः । शरीसृपाद्याः कीटजातिविषेषाः। देवर्षिगन्धर्वमुखाः स्वाहास्वधादिकर्मद्वारा ,अमरमुनिगन्धर्वयक्षराक्षस पितृभूतसिद्धगणादयः। त्रिविष्टपनिवासिनः स्वर्गलोकवासिनः । भवन्तकीति स्वार्थिका कजन्तः ॥१० ॥
जिसके प्रभाव से मनुष्य ,पशु ,पक्षी ,चींटी आदि कीटविशेष जीव मनुष्यलोकवासी और देवता ,मुनि ,गन्धर्व ,पितृगण ,भूत ,प्रेत ,राक्षस ,सिद्ध ,चारण ,आदि स्वर्गलोकवासी जीव सुखी होते हैं अर्थात् जीवन धारण करते हैं ॥१०॥
तां को विनिन्दे दबुधोऽपि यस्याः –
समुच्छलन्त्यत्र महर्घ्यरत्नता ॥
धर्मोऽपि सिद्धत्यखिलो मनुष्या –
अरोगकाया सुदृढः समुन्नताः ॥११ ॥
एवं परोपकारिण्याः कृषिक्रियाया मूर्खोऽपि निन्दां न कुर्यादिति निगदितु मनुवदति । तां क इत्यादि
अवुधो मूर्खोऽपि । अत्र लोके । महर्घ्यरत्नता अनेकानि मुक्ता हीरकादीनि महर्घ्याणि महन्मूल्येन लब्धानि रत्नानि तथा स्वर्णादिधातवः समुच्छलन्तीति किमुतवक्तव्य मेवास्तीति भावः सामूहिकोऽत्र तल् प्रत्ययः । वेदोदितो धर्मः ॥ ११ ॥
उस परमपरोपकारिणी खेतीकर्म की कौन मूर्ख भी निन्दा कर सकता है कि जिसमें से बढिया २ मूल्य के हीरा आदि मणि और स्वर्णादि उत्तम धातु समुदाय पैदा होते हैं । और समस्त धर्म भी रक्षित होते हैं एवं निरोग शरीर सुदृढ सुपुष्ट मनुष्य जिससे रहते हैं ॥११ ॥
अपास्य मालस्य मपास्य पूज्यै-
र्ग्राह्याऽऽत्म हस्तैः प्रणिषेवणीया ॥
कृषिक्रिया धर्म्यतमा सदा च –
ह्यात्मोन्नतिप्रेमपरैः प्रविज्ञैः ॥ १२ ॥
लोके समुन्नतिमीहमानैर्जनैः कृषिरेव कार्येत्युपक्रमयितु मनुवक्ति । अपास्यमालस्य मित्यादि । अपास्यन्त्याजनीयम् ।
अपास्य त्यक्त्वा ।पूज्यैर्माननीयै र्मानवद्भि रित्यर्थः । ग्राह्या स्वीकार्या ।सदा सर्वस्मिन्काले । आत्मोन्नतिप्रेमपरैः स्वीयोन्नतिवाञ्छद्भिः । प्रविज्ञै र्वेदादिशास्त्रविद्भि रित्यनेन किं पुन र्मूर्खै रिति द्योतितम् । धर्म्यतमा श्रुतिस्मृतिप्रतिपादितत्वात् ॥ १२ ॥
संसार में निजोन्नति तत्पर वेदादिशास्त्रसंपन्न माननीय मानेच्छावाले ब्राह्मणजातीय जनों को निजहस्तों से त्यक्तव्य आलस्य को त्याग कर अतिपवित्र धार्मिक सुवृत्ति कृषिकर्म सदा कर्तव्य है ॥ १२ ॥
सुसूक्ष्म दृष्टि प्रविचारतोपि
भातीति नो स्थूलदृशा कदाऽपि ॥
वेदान्तसिद्धान्त विचारदक्षः
पाथःपतिर्वै भृगवे समूचे ॥१३॥
विप्राणां सुधर्म्यजीवनं कृषिकरणमिति यत्पूर्वत्र सिद्धान्तितं तत्स्थूलदृशामगोचरमिति गदितुम्प्रतिवक्ति । सुसूक्ष्मेति। विप्राणां कृषिजीवनं सदिति धर्मशास्त्ररहस्यं सुसूक्ष्मदृष्टिप्रविचारतोऽतिसूक्ष्मदृष्टितः प्रकृष्ट विचाराद्वहुविचारा दित्यर्थः । स्थूलदृशाऽनतिसूक्ष्मविचारदृष्ट्या कदाऽपि त्रिकालेऽपि नेत्यर्थः। अन्यथा पाथःपतिर्वरुणः । निजपुत्राय भृगवे ।अन्नंब्रह्मेति परेणान्वयः । कथं समूचे । आद्यकोट्यामिति । तथाहि । कृष्णयजुषि तैत्तिरीयोपनिषदि तृतीयवल्यां प्रथमेऽनुवाके। भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ।
तँ होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥ द्वितीयेऽनुवाके । अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनस्तत्रैवाऽष्टमेऽनुवाकेऽन्नस्तुति परतया वरुणो भृगवे प्रोक्तवान् । अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ १ ॥ नवमेऽनुवाकेच । अन्नं बहु कुर्वीत । तद्व्रतम् । अन्तेच । न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । इत्यादि । अन्नवान् प्रभूतमन्नमस्य विद्यतइत्यन्नवान् अन्यथा सत्तामात्रेण तु सर्वो ह्यन्नवान् इति विद्याविशेषो न स्यात् एवं अन्नमत्ती त्यन्नादो दीप्ताग्निर्भवतीत्यर्थः । महान भवति । केन महत्व मित्यत आह । प्रजया पुत्रादिना ,पशुभिर्गोश्वादिभिः । ब्रह्मवर्चसेन शमदम ज्ञानादिनिमित्तेन तेजसा महान् भवति कीर्त्या ख्यात्या शुभप्रचारनिमित्तया । किञ्च अनेन द्वारभूतेनान्नेन ब्रह्मविज्ञातं यस्मात्तस्माद् गुरुमिवान्नं न निन्द्यात्तदस्यैवं ब्रह्मविदो व्रत मुपदिश्यते । व्रतोपदेशोऽन्नस्तुतये । स्तुतिभाक्त्वात् काञ्चान्नस्य ब्रह्मोपलव्ध्युपायत्वात् ।
अप्सु ज्योति रित्याद्युपक्रम्योक्तं तत्रैव । अन्नान्नादगुणत्वेनो पासकस्याऽन्नस्य वहुकरणं व्रतम् । तथा पृथिव्याऽऽकाशोपासकस्य वसतौ वसतिनिमित्तम् । कञ्चन कञ्चिदपि न प्रत्याचक्षीत न प्रत्याख्यानं कुर्वीत वसत्यर्थ मागतं न निवारयेत् । इत्यर्थः । वासे च दत्ते अवश्यं हि अशनं दातव्यम् । तस्माद्यया कया च विधया येन केन च प्रकारेण बह्वन्नं प्राप्नुयात् बह्वन्नसङ्ग्रहं कुर्यादित्यर्थः । यस्मादन्नवन्तो विद्वांसः अभ्यागताय अन्नार्थिने अराधि संसिद्धम् अस्मै अन्नम् इत्याचक्षते, न नास्तीति प्रत्याख्यानं कुर्वन्ति,तस्माच्च हेतोः बह्वन्नं प्राप्नुयादिति पूर्वेण सम्बन्धोऽपिचान्नदानस्य माहात्म्य मुच्यत इति तद्भाष्ये शंकरः ॥ १३ ॥
, वेदान्त सिद्धान्त ,अतिसूक्ष्मदृष्टि ज्ञानी को विदित हो सकते हैं और स्थूलविचारशील को तीन काल में भी नहीं विदित होते हैं । यदि ऐसा ही नहीं होता तो वेदान्तसिद्धान्तज्ञाता श्रीमान् वरुण निजपुत्र भृगु के लिये प्रश्न दशा में ,अन्नं ब्रह्म , ऐसा उत्तर क्यों देते ,और कृषिकर्ता का ब्रह्मतेज जाता रहता होता तो अन्नवाला दीप्ताग्नि और ब्रह्मवर्चस्वी होता है ऐसा उपदेश क्यों करते । यदि कहो अन्नवान् कृषिकर्ता तुमने कैसे जाना तो कह सकते हैं कि ,अन्नं वहु कुर्वीत ,इसके भाष्य में शंकराचार्य लिखते हैं कि जिस किसी उपाय से बहुत अन्न का संग्रह करे इससे विदित होता है कि जब मनु ने व्यापार कर्म का निषेध किया है तो पुनः कृषि के सिवाय अन्न संग्रह का अन्य कोनसा उपाय है यह तैत्तिरीयोपनिषदत् भृगुवल्ली और उसके शांकरभाष्य से विदित होता है ॥ १३ ॥
ब्रह्मान्न मस्मादपि वाऽऽद्यकोट्यां –
श्रेष्ठा प्रदिष्टा मुनिभिः कृषिं हि ॥
श्रुतिस्म्रितिप्रोक्त बुधादिकार्य –
संसाधनं गौ र्विहिता विधात्रा ॥ १४ ॥
पक्षान्तरेणापि विप्राणा मुत्तमं कृषिजीवन मित्युपदेष्टु मुपन्यासं कुरुते । अपि वेत्यादि । अस्मादपि वा वरुणोपदिष्टभृगुणा प्रथमकोट्या मेवान्नं ब्रह्मेति विज्ञातत्वात् । मुनिभि र्धर्मरहस्यविद्भि र्मन्वादिभि राचार्यैः । अन्यथा वह्वन्नं कुर्वीतेति तद्भाष्ये ,,तस्माद्यया कयाच विधया विधानेन येन केन चित्प्रकारेण ,, इति श्रीमतोभगवतः शंकरस्याचार्यस्य लेखस्य कथाशयः। वाणिज्यस्यतु ,, अपि ,वे ,,ति संदिग्धपूर्वकविकल्पार्थद्योतकाव्ययोपादानेन मनुनै व प्रत्याख्यानकरणादित्यलं पल्लवितेनेति । किञ्च हि यतः ,,ब्रह्मविद् ब्राह्मणो भवती ,,तिश्रुति वाक्यात् । अन्नब्रह्मविज्ञानिनो ब्राह्मणाएव वस्तुतः कृषिकर्ममर्मवेत्तारःपूर्वत एव समभूवन् । अतएव तत्वार्थदर्शिभि र्मुनिभि र्विप्रकर्तव्यकृषिकर्मोक्त मितिभावः । । वक्ष्यमाणैकविंशतितमे श्लोके ,,स्थूणाखननन्याय ,,समर्थनाय पक्षान्तराणि समुपन्यसन्प्रतिवदति । श्रुतिस्मृतीत्यादि । श्रुतिस्मृतिप्रोक्त बुधादिकार्यसंसाधनं श्रौतस्मार्त देवर्षि मनुष्य पितृकार्ययज्ञश्राद्ध वलिसाधनभूतेत्यर्थः। विधात्रा परमेष्टिना । विहिता कृता ॥ १४ ॥
इस मान से भी धर्मवेत्ता मुनियों ने उत्तम कृषि कही है । अब द्वितीय पक्षसे कृषि को उत्तम कहते हैं । वेद धर्मशास्त्रविहित देवता ऋषि पितृगण आदि के यज्ञ तर्पण वलि आदि कार्यों की सामग्री रूप गौ ब्रह्मा ने कही है ॥१४ ॥
तत्कर्मदक्षा द्विजवर्य वन्द्या –
आत्मै व चैको द्विविधो व्यभाजि ॥
जगध्दिताये त्यत एव तौ द्वौ –
संवन्धिनौ शास्त्रकरै रनूत्नौ ॥१५ ॥
स्वाभिमतसिद्धिं चिकीर्षु र्वशिष्ठाख्यायिका मुपढौकते । तत्कर्मेत्यादि त्रिभिः श्लोकैः । तत्कर्मदक्षाः श्रौतस्मार्त देवादिकार्यकर्मकुशलाः । द्विजवर्यैः क्षत्रियैर्वन्द्याः पूज्याः एवञ्च । एक एव आत्मा शरीरम् । द्विविधो व्यभाजि द्विधाविभक्त इत्यर्थः । शास्त्रस्य करा रचयितारस्तैः । पचादित्वादच् ।अनूत्नौ अतिपुरातनौ ।तथाच पराशरः । ब्राह्मणानां गवां चैव कुलमेकं द्विधाकृतम् । तिष्ठन्ति यत्र मन्त्राश्च यत्र सन्ति हवींषि च ॥
गोभिर्यज्ञाः प्रवर्तन्ते गोभिर्वेदाः प्रवर्धिताः । गोभिर्वेदाः समुत्तीर्णाः सषडङ्ग पदक्रमा इत्यादि ॥ १५ ॥
पूर्वोक्त उन कर्मों में चतुर ब्राह्मण हैं एवं एक ही कुलके दो विभाग संसार के कल्याणार्थ ईश्वर ने किये हैं । अतएव गौ और ब्राह्मण दोनों अति प्राचीन परस्पर सम्वन्धी शास्त्रकार आचार्यपराशर आदि ने कहे हैं ॥१५ ॥
प्रोक्ता वतो ब्रह्मसुतः स्वधर्मं –
विलोक्य गोपालन मेव चक्रे ॥
यस्याः प्रभावा द्वन एव राज्ञो –
बलं समस्तं विफलीचकार ॥१६ ॥
अतोस्माद्हेतोः । ब्रह्मसुतो वशिष्ठः स्वधर्म मिति स्वसंबन्धस्याऽप्युपलक्षणम् । विलोक्य विचार्य । गोपालनं कामधेनुसुता नन्दिनीरक्षण मेव । राज्ञा विश्वामित्रस्य बलं सेनादिरूपम् । वाल्मीकीय रामायणादौ तदितिहासो मृग्यः ॥ १६ ॥
इसी कारण से श्रीवशिष्ठजी नन्दिनी नामक गौ का पालन करते थे । जिसके प्रभाव से प्रसन्न हो लेनेकी इच्छा से लडनेको तयार हुवे श्रीविश्वामित्र राजाका समस्तसेनारूप बल बनमें अकेले वशिष्ठजी ने नष्ट कर दिया यह कथा वाल्मीकीय रामायणादि इतिहास ग्रन्थों में देखिये ॥ १६ ॥
ता गा अवश्यं परिरक्षणीया –
अटव्यभावे च कथं सुपाल्याः ॥
तज्जीवन न्त्वन्नतृणद्वयन्त –
दृगादिविद्भिः कथितं सुकर्षणम् ॥ १७ ॥
गोपालन मपि तदृते न सम्भवतीत्यतः कृषिः कर्तव्येति वेदमतं निरूपयन् समुदाहरति । ता गा इत्यादि ।
अटव्यभावे वनाभावे गोसञ्चारभूम्यभावं ,इत्यर्थः । तज्जीवनन्धेनु जीवनम् । ता गा स्तृतीयाऽध्याये वक्ष्यमाणाः ।
तत्तस्मात्कारणात् । ऋगादिविद्भिः ,,अक्षैर्मादीव्यः कृषिमित्क्रिषस्वे ,,ति ऋगवेदादि मतज्ञैरित्यर्थः । सुकर्षण -मुत्तमकृषिजीवनं विप्रस्येति ॥ १७ ॥
जो तृतीय अध्यायमें लिखी जावेंगीं वो गौ अवश्य रक्षणीय हैं परन्तु ( रून्द ,वीड,जंगल ) के विना कैसे सुरक्षित हो सकती हैं । कारण उनका जीवन अन्न ,तृण दो ही हैं इसी आशय से ऋगवेदज्ञ आचार्यों ने कृषि करना कहा है ॥ १७ ॥
मरीचिपुत्री कृषि रैतिहासिकैः –
रभाणि साचार्यऋषिः पुरातनः ॥
विभाव्यतेऽतः प्रगृहीतसूज्झिता
द्विजैः प्रमुख्या कृषिरन्यदेतकत् ॥ १८ ॥
कृषेः कर्त्ताऽऽद्याऽऽचार्यो ब्राह्मणो मरीचि रित्यादि वदन्नाह । मरीचीति । मरीचिमुनेः पुत्री पुत्रीत्वेन संपाद्य सुरक्षितेत्यर्थः इत्यैतिहासिकैः पुराणज्ञै रभाणि प्रोक्ता । अतः स एव पुरातन आद्याचार्य ऋषिर्विभाव्यते ज्ञायते । तथाच लैङ्गे पूर्वखण्डे पञ्चमाध्याये । प्रभूतिर्नाम या पत्नी मरीचेः सुषुवे सुतौ।। ५.३९ ।।
पूर्णमासं तु मारीचं ततः कन्याचतुष्टयम्।।
तुष्टिर्ज्येष्ठा च वै दृष्टिः कृषिश्चापचितिस्तथा।। ५.४० ।। इति प्रमुख्या अत्युत्तमा कृषि जीविका द्विजै र्विपैः प्रगृहीतसूज्झिता पूर्वंगृहीता पश्चात्यक्तेत्यर्थः इत्येत दन्य देतद् वृत्तम् । एवञ्च पूर्वत एव कर्षकैर्विप्रै रन्यविधया सुजीवनं निरीक्ष्य तपःप्रेमतयाऽऽलस्येनवा पूर्व मङ्गीकृताया स्त्याग उचितो ज्ञातः । तथाच मनुः ।
स्वं एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः । । १.१०१ । । इति ।
अतएव कृषे र्वैष्यजीवनेषू ल्लेखोऽकारीति भावः ॥ १८ ॥
द्वितीय, { दूसरीबात यह है कि } लिङ्गपुराण पूर्वखण्ड अध्याय ५ में लिखा है कि मरीचि मुनि की प्रभूति नामक स्त्री के २ पुत्र पूर्णमास और मारीच और ४ कन्या तुष्टि ,दृष्टि ,कृषि और अपचिति हुईं । तो क्या किसीके योनिद्वारा खेत या खेतीके कर्म या उससे उत्पन्न हुये अन्नादिफल ,फूल ,तृण ,मूल उत्पन्न हो सकते हैं यदि होते तो क्यों नहीं निज २ स्त्रियोंसे उक्त कर्षकों ने अन्नादि संपादन कर प्रजा रक्षण किया । अतः सिद्ध होता है जैसे कि निज सन्तानकी रक्षा करते हैं तैसे ही श्रीमान् मरीचि और उनकी स्त्री प्रभूति दोनों जनें कृषि ( खेती ) की रक्षा प्रेम से करते थे अतएव उस समयके मनुष्य उनकी प्रशंसा स्थान २ करते थे और कहते थे कि कृषि को पुत्री कर रक्खा है यही बात पुराणोंमें आचार्यों ने सत्यार्थ लिखदी । वर्तमानकालिक भोले पण्डित पुराणवेत्ता अब चांहें उसको उनकी पुत्री कहें या जीवन कहें ऐसाही एक इतिहास रघुवंश २ सर्ग में कालिदास ने लिखा है । उसको पाठशाला पठनशील विद्यार्थी भी जानते ही हैं पर तब भी लिखते हैं ।
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः । । २.३६ । । इति। यह दिलीपराजा से गौ के दवाने बाले सिंह ने कहा कि जो इसको सामने देवदारु के बृक्षको तुम देखते हो सो यह शंकर ने पुत्र सा कर रक्खा है इत्यादि । अतः सिद्ध होता है कि ब्राह्मणों में कृषिकर्ममर्माधिक जाननेवाले आद्य आचार्य श्रीमान् मरीचि ऋषि प्राचीन हुए । और यह भी सिद्ध होता है कि पूर्व ब्राह्मणों ने स्वीकार कर तप कार्य को अधिक जान और अन्यान्य सुलभ जीवन देख पश्चात् कृषि का त्याग प्रजार्थ कर दिया ,यह भी मनुस्मृति आदि में लिखा है यह एक दूसरी बात है । इसीसे पुनः स्मृतिकर्ता आचार्यों ने वैष्यवृत्तियों में इसका भी लेख लिख दिया ,वास्तविक कृषि जीवन ब्राह्मणों का ही है ॥ १८ ॥
प्रकर्षका धर्म्यकृषिक्रियापराः –
स्वाध्याययागादिरता अदंभिनः ॥
सद्ब्राह्मणाः पूज्यतमाः प्रकीर्तिताः –
हव्येषु कव्येषु च पङ्क्तिपावनाः ॥ १९ ॥
कृषिक्रियातत्परा एव ब्राह्मणाः पङ्क्तिपावना इति पराशरादि मतमनुवदन्नाह । प्रेति ।
प्रकर्षकाः प्रकृष्टाः कृषिकराः । तत्र हेतुमाह ।धर्म्यकृषिक्रियापराइति । धर्म्यकृषिविधिन्तु पराशराद्याः प्रोचुः ।
क्षुधितं तृषितं श्रान्तं बलीवर्दं न योजयेत् ।
हीनाङ्गं व्याधितं क्लीबं वृषं विप्रो न वाहयेत् ।। २.३ ।। इत्यादि। ,, राज्ञे दत्वा तु षड् भाग,,मित्यादिकञ्चेति तदग्रे मूले एव स्वयं स्फ़ुटी भविता। तत्क्रियायां परा अभिरताः। स्वाध्यायो वेदादिसच्छास्त्र पठनपाठनरूपो ब्रह्मयागस्तदादिपुरता स्तत्पराः । अदम्भिनो दम्भशाठ्यादिरहिताः पङ्क्तिपावना अतएव हव्येषु देवकार्येषु यज्ञेषु कव्येषु पितृकार्येषु श्राद्धेषु पूज्यतमाः प्रकीर्तिताः।
पितृमातृपरावेतौ भोक्तव्यौ हव्य कव्ययोः ।
कृष्येक वृत्तिजीवीयो भक्तो मात्रादिकेषु च ॥ इति बृहत्पराशरोक्तेः ॥ १९ ॥
जो वेदादि सच्छास्त्र पठन पाठनशील होगा वही निश्छल निर्दम्भ और धर्म्य कृषि कर्म कर्ता होगा, ऐसे कर्षक ब्राह्मण देवकार्य यज्ञों और पितृश्राद्धों में भोजनीय पङ्क्तिपावन होनेसे बृहत् पराशर स्मृतिमें कहा है और पूजनीय भी कहे हैं ॥ १९ ॥
यायाः क्रिया दृष्टिपथे पतन्त्यो –
धुना हि तासां ननु पूर्वकाले ॥
प्रवर्तका वेदविदः सुविप्राः –
प्रजज्ञिरे लोकहिताय सर्वे ॥ २०॥
भूतभवत्क्रियाप्रवर्तका विप्रा एवेति वदन्नाह ।याया इति । यायाः कर्तव्य क्रियाः। स्पष्टम्। तथाहि नीतिशास्त्र प्रणेतारो व्यासनारदकामन्दकशुक्रघटखर्परचाणक्यादयः। संग्रामविधिज्ञा अस्त्रशस्त्रादि निर्माणक्रिया कुशलाः शुक्रपरशुरामद्रोणकृपाश्वत्थामप्रभृतयः । एवं गोलक्षणकृषिकर्ममर्मविदो मरीचिगौतमपराशराद्याः। अश्वलक्षणवेत्तारः शालिहोत्रादयः । हस्तिलक्षणज्ञाः पालकाप्यमुनिप्रभृतयः । एवं बृक्षारोपण नृत्यगन्धोत्पादनादियुक्तिविदो वस्त्रवानविधिज्ञा रथगृहादिवास्तुक्रियाकुशलाश्चालेख्यपत्रच्छेद्यादि विधिमर्मवेत्तारो ब्राह्मणा एवेति तत्तकर्मकरत्वात् । यदि तेषां ब्राह्मण्य मनष्टं न ब्रह्मवर्च्चसत्वं प्रहीणन्तर्हि कृषिकराणामेव नङ्क्ष्यतीति किमुवक्तव्य मेवास्ति न हीति…भावः ॥ २० ॥
वर्तमानमें जो २ क्रिया दीख पड़तीं हैं । उनके कर्ता वेदज्ञ संसारकल्याणार्थ पूर्वमें ब्राह्मण ही हुए हैं । और यह अवश्य है कि जो जिस कर्म करनेमें प्रेम रखता है और अच्छे प्रकार जानता है वही उसकी भली भांति जानी हुई बातों का लेख लिख सकता है यह बात उनके ग्रन्थोंके देखनेसे सिद्ध होती है । जैसे नीतिशास्त्रकर्ता व्यास ,नारद ,कामन्दक ,शुक्र ,घटखर्पर ,चाणक्य आदि ब्राह्मण ही थे । संग्रामविधि और अस्त्र शस्त्र आदि बनाने चलानेवाले और जाननेवाले शुक्र ,परशुराम ,द्रोणाचार्य ,कृपाचार्य ,अश्वत्थामा आदि ब्राह्मण। और गोलक्षण जाननेवाले और खेती कर्मके मर्मवेत्ता मरीचि ,गौतम ,वशिष्ठ ,अत्रि ,पराशर आदि ब्राह्मण । अश्वलक्षण आदि जाननेवाले शालिहोत्र आदि ब्राह्मण। हस्तिलक्षण आयुर्वेद ज्ञाता पालकाप्य मुनि आदि ब्राह्मण। ऐसे ही बृक्षारोपण विधि नृत्य- गान -गन्धोत्पादन (इतर ,तेल ,फुलेल ) आदि की युक्ति जाननेवाले और वस्त्र बुनना सीमने आदि की क्रिया और रथ आदि और गृह आदि वास्तु कर्ममें चतुर एवं लिखने ,चित्रबनाने ,पत्रछेद्य आदि विधि ज्ञाता ब्राह्मण हीं थे ,यदि जब उनका ही ब्राह्मणत्व और ब्रह्मतेजस्त्व नहीं नष्ट हुआ तो केवल कृषिकर्म कर्ताऔंका अब नष्ट होवेगा यह कोई कह सकता है ,कभी नहीं ॥ २०॥
इत्थ म्प्रमाणादिचयेन धीराः –
सिद्धान्तितं कर्षणमाद्य आर्यैः ॥
सद्ब्राह्मणाना मिह जीवनं हि –
स्थूणाखनिन्यायमुखैः प्रकाले ॥२१ ॥
इत्थं स्थूणाखननन्यायात्स्वा भिलषितं संसाधयित्वा निरुक्त मेव पुनर्दृढयति। इत्थमिति। प्रमाणादिचयेन श्रुतिस्मृतियोक्त प्रमाणयुक्त्यादि समुदायबलेन। धीरा इति सम्बुद्धिः । आद्यम्प्रधानम्। आर्यैः श्रेष्ठैः। इह शास्त्रे लोके च। स्थूणायाःखनिः खननन्तन्नाम न्यायमुखै र्न्यायाद्यैः। प्रकाले प्रथमकाले सत्ययुगादौ। पृषोदरादित्वात्साधुः ॥२१ ॥
हे विद्वद्ब्राह्मणजनों ! इस प्रकार आचार्यों ने प्रमाण , युक्ति आदि प्रमाण बल से ब्राह्मणोंका मुख्य उत्तम कृषि जीवन स्थूणाखननन्याय (जैसे स्थूणा (थुनक) बार २ ठोक २ कर पुख्ता गाढी जाती है तैसे ) से पूर्व सत्यादियुगोंमें सिद्ध किया है । अतः खेती करनेमें किञ्चित् भी दोष नहीं है यह सिद्ध हुआ ॥२१ ॥
तत्राऽपि कारुण्यभरै श्च तै श्च
प्रकल्पित न्तत् क्रमतो युगेषु ॥
प्रतुष्यतुन्यायकत स्त्रिकाल-
धर्मः कलौ नेति विचारतोऽपि ॥ २२॥
हठाच्चेन्नेति वदेत्तस्य शान्त्यै ,,प्रतुष्यतु दुर्जन न्यायेन ,, कलिधर्म एवेति निरूपयन्नानयति । तत्राऽपीति । तत्राऽपि चतुर्षु जीवनेष्वऽपि । कारुण्य भरैः परमदयालुभिः। तै र्मन्वाद्याचार्यैः। तच्चतुर्विधं जीवनम् । युगेषु सत्यादिषु क्रमतः प्रकल्पितम् । तथाहि । सत्ये शिलोञ्छवृत्ति स्त्रेताया मयाचितवृत्ति र्द्वापरे याञ्चाजीवनं कलौ तु केवलं कृषिजीवनं वर मिति ,,तुष्यतु दुर्जन न्यायेन ,,व्यवस्था बोद्धव्या । प्रेत्यविवक्षितम् । किञ्चाथवा त्रिकालधर्मः सत्यादियुगीयधर्मः कलौ नेति विचारतोऽपीत्यन्वयः तथाहि ।
,, चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ।
नाधर्मेणागमः कश्चिन्मनुष्यान्प्रति वर्तते । । १.८१ । ।
इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः ।युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः ।
चौरिकानृतमायाभिर्धर्मश्चापैति पादशः । । १.८२ । ।
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः । । १.८५ । । इति मनुः
पराशरश्च ।
,, युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ।। १.३३ ।।,,इति पराशरः ॥ २२ ॥
टिप्पणी …
१ वहुब्रीहे रन्यपदार्थप्रधानत्वात् त्रेतादिकाल इत्यर्थः।
अथवा वहुब्रीहि गर्भितैकशेष समासवाक्यविज्ञानाद्ब्रह्मदिनमध्ये त्रेताद्यनन्तर सत्ययुगादावित्यर्थोवोद्धव्यः ।
प्रवन्धेषु महर्षिभिस्तथैव प्रतिपादितत्वात् ।
यदि कोई हठसे ,,नहीं ,,ऐसा शव्दोच्चारण करै उसके लिये तुष्यतु दुर्जन न्याय
(दुर्जनसे गम खाय भली है अर्थात् निज मान रक्षार्थ दुर्जनकाही वाक्य मान लेना थोड़ी देर को अच्छा है इस आशय से कहदेते हैं कि अच्छा भाई तुम कहते हो वही ठीक है इत्यादि ) से परम दयालु मनु आदि आचार्यों ने १ शिलोंछ २ अयाचित ३ याचित ४ कृषि चार प्रकार के जीवन क्रम से चारों युगोंके लिये अर्थात् सतयुगमें शिलोंछ ,त्रेतामें अयाचित ,द्वापरमें याचित ,कलियुगमें कृषि , करना कहा है । यह बात मनु और पराशर स्मृतिसे प्रकट निश्चय होती है ॥ २२ ॥
वेदादिनिष्णातमुनिप्रधीरै
र्विलेखनं जीवन मुक्त मग्र्यम् ॥
इत्थं विचिन्त्यै व कलिस्वधर्म
संसाधनायाऽऽत्मजनुः सुताद्यैः ॥ २३ ॥
एवं सिद्धान्तयित्वा कलौ निजधर्मसाधनार्थं कृषिरेव निश्चितेतिकथ्यते वेदादीति ।वेदादिनिष्णातमुनिप्रधीरै र्वेदादिविद्वदृषिप्रकृष्टपण्डितैः। आत्मजनुः सुताद्यै र्वशिष्ठादिभिः । इत्थं पूर्वोक्तप्रकारेण। कलौ स्वधर्मस्य संसाधनाय रक्षार्थम् । विलेखनं कर्षणम् । अग्र्यं मुख्यम् । ,,कामं वा स्वयं कृष्योत्पाद्य तिलान् विक्रीणीरन् ,, इति वशिष्ठोक्तेः ॥ २३ ॥ कामं वा स्वयं कृष्योत्पाद्य तिलान्विक्रीणीरन् ३१
वासिष्ठधर्मशास्त्रे प्रथमोऽध्यायः १
एवं वेदादि शास्त्रज्ञ मुनि पण्डित वशिष्ठादि मुनियोंने निज धर्म रक्षार्थ कलियुगार्थ निजहस्तसे कर्तव्य ब्राह्मणोंका सुजीवन खेतीका कर्म कहा है ॥ २३ ॥
षट्कर्मदक्ष प्रवरद्विजाना –
मनुत्तमं कर्षण मुक्त मार्याः ॥
हयादिमेधादिकृतेः कलौयुगे –
नष्टाधिकारे गदितेऽधिकारके ॥ २४ ॥
षट्कर्मरतस्य विप्रस्य कृषेरधिकार मुपदिषन्प्रतिपादयति । षट्कर्मेति । हे आर्याः
संध्यास्नानं जपो होमो देवतातिथिपूजनम् ।
आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने ।। १.३९ ।। इति पराशरोक्तेः । वृद्धपराशरस्तु
सन्ध्या स्नानं जपश्चैव, देवतानां च पूजनम् । वैश्वदेवं तथा आतिथ्यं, षट् कर्माणि दिने दिने ।।” इति । तत्र षट्कर्मसु दक्षाः कुशला स्तेषां प्रवरा उत्तमा वेदशास्त्रसम्पन्ना श्च ते द्विजा विप्रा स्तेषा मर्थ इत्यर्थः । अनुत्तमं सर्वोत्तमम् । तथाहि ।पराशरः,, षट्कर्म सहितो विप्रः कृषि कर्माणि कारये,,दिति । स्वार्थिकोऽत्रणिच् ।तत्रैवाग्रे ।
,, स्वयं कृष्टे तथा क्षेत्रे धान्यैश्चस्वयमर्जितैः । निर्वपेत्पञ्च यज्ञां श्चे,,त्यादिषु स्वार्थिकप्रत्ययान्त प्रयोगावलोकनात् । सोमयाग निमित्तभूताऽपि कृषिः कलाववश्यं कर्तव्या तस्याऽस्मिन्युगे एव शास्त्रेस्वधिकार वर्णनात् इत्यत आह । हयादी त्यादि सार्धश्लोकेन ।हे आर्या विप्राः ।हयोऽश्वशव्द आदौ यस्येति सचासौ मेधोयागश्चादिर्येषां यागाना न्तेषां कृतेः करणस्य । नष्टञ्चासावधिकारञ्च तस्मिन् सति । सोमस्य यागस्य। अधिकारएवाधिकारक स्तस्मिन् गदिते भणिते सति च ॥ २४ ॥
सन्ध्या, स्नान, जप,देवपूजन ,वलिवैश्वदेव ,अतिथिसत्कार ,कर्म कर्ता ब्राह्मणोंको कृषि करना उचित है और जो सोमयाग निमित्त भूत कृषि करनी शास्त्रमें लिखी है वह भी कलियुगमें हीं अवश्य कर्तव्य ब्राह्मणोंको है कारण अश्वमेधादि यज्ञ करनें का कलियुग में अधिकार शास्त्र देता नहीं ,और सोमयाग का
अधिकार शास्त्र से मिलता है ॥२४ ॥
सोमस्य नाकादिनिवासवाञ्छया –
तं ना चिकीर्षु र्विदधीत केन च ॥
त्रिवर्षसाध्यान्नमृते ततोऽपि –
सर्वोत्तमं कर्षण माहुरार्याः ॥२५ ॥
नाकादिनिवासवाञ्छया स्वर्गादिलोकनिवासेच्छया ना पुमान् तं सोमयागम् । चिकीर्षुः केन वस्तुना त्रिवर्षसाध्यान्न मृते विदधीत कुर्यात् । तथाहि ।
,,यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत स सोमं पातुं अर्हति । । ११.७[०६ं] । ।,,इति मनुः । याज्ञवल्क्योऽपि यथा
,,त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् । । १.१२४ । ।,,इति । तद्विधिस्तु ब्रह्मवैवर्ते कृष्णजन्मखण्डे प्रोक्तः तथाच
,,ब्रह्महत्याप्रशमनं सोमयागफलं मुने ।
वर्ष सोमलतापानं यजमानः करोति च ।। ५६ ।।
वर्षमेकं फलं भुङक्ते वर्षमेकं जलं मुदा ।
त्रैवार्षिक मिदं यागं सर्वपापप्रणाशनम् ।। ५७ ।।
यस्य त्रैवाषिकं धान्यं निहितं भूतवृद्धये ।
अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ।। ५८ ।।
महाराजश्च देवो वा यागं कर्तुमलं मुने ।
न सर्वसाध्यो यज्ञोऽयं बह्वन्नो बहुदक्षिणः ।। ५९ ।।
ब्रह्मवै० श्रीकृष्णज० ६० अ० । इति । ततोऽपि तस्मादपीत्यर्थः ॥ २५ ॥
स्वर्गादि निवास इच्छा करनेवाला मनुष्य तीन साल खर्च लायक अन्नके विना किस सामानसे सोमयाग कर सकता है कारण ब्रह्मवैवर्तपुराण श्रीकृष्णजन्मखण्ड में लिखा है कि सोमयज्ञ ब्रह्महत्या दूर करता है ।हे मुनीश्वर !और एकवर्ष नियमसे सोमवल्ली पीवै ,एकवर्ष फ़ल खावै और एकवर्ष जल पीवै ,इसप्रकार तीन वर्षमें सोमयज्ञ सर्वपापनाशक पूरा होता है । परन्तु जिसके तीनवर्ष खर्चकरने योग्य अन्न रक्खा होवै अथवा अधिक होवै वह कर सकता है चक्रवर्ती या देव वा देवांश यज्ञका अधिकारी होता है सर्व साधारण रहीस नहीं कर सकते कारण इसमें अन्न और दक्षिणा का अति व्यय होता है । इस हेतुसे भी हे ब्राह्मणों !विप्रों का कृषिजीवन उत्तम कहा है ॥२५ ॥
अश्वमेधादयो यज्ञाः सर्वे हिंसामयाः स्मृताः ॥
अतो वर्ज्याः कलौ प्रोक्ताः शास्त्रचिन्तापरायणैः ॥२६॥
सहजा ब्राह्मणाः सन्तो हिंसाकर्मविवर्जिताः ॥
दयालुत्वेन तैः स्तस्मात्सोमोह्यधिकृतः कलौ ॥२७॥
अहिंसन्तं श्रुतिर्वक्ति ,सनः पवस्व वाजयुः ॥
चक्राण श्चारु मध्वरं बर्हिष्माना विवासति ॥२८॥
अश्वमेधादियज्ञा नपास्य कलौ सोमयाग एवेति कथ मुच्यत इत्यत आह । अश्वमेधेत्यादि नवभिः श्लोकैः । तेषां हिंसामयत्वात् कलावधिक्रियतेति भावः ॥ २६ ॥ २७ ॥ तञ्च सोमयागं अहिंसं हिंसारहितं श्रुतिर्वेदो वक्ति प्रतिपादयतीत्यर्थः। तथा च मूले लिखिता ऋग्वेद सप्तमाष्टक प्रथमाध्याया द्युध्रिता श्र्श्रुतयः वदितव्याः सनः पवस्वेत्यादयः ।
स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् ।
बर्हिष्माँ आ विवासति ॥४॥ ऋग्वेदः सूक्तं ९.४४ ।
तत्सायन भाष्यञ्च यथा ।हे सोम यन्त्वां वर्हिष्मा नृत्विगा विवासति परिचरति सत्वंनोऽस्मदर्थं
वाजयु रन्नमिच्छन्नध्वरं हिंसारहितं यागञ्च चारुं कल्याणं चक्राणः कुर्वन् पवस्व क्षर इति ॥ २८॥
अश्वमेध आदि यज्ञ समस्त हिंसामय शास्त्र में लिखे है अतः कलियुग में शास्त्रविचारशील पण्डितोंने वर्जित कहे हैं ॥२६ ॥ और ब्राह्मण सहजही हिंसाकर्म रहित मार्ग से चले आते हैं तिससे दयालुतासे कलियुगमें सोमयाग का अधिकार दिया है॥ २७॥ और सोमयाग हिंसारहित है ऐसा ऋग्वेद के ७ वें अष्टक में प्रथमाध्याय में आदिके मन्त्रों में लिखा है यह श्रुतिसमुदाय ,, स नः पवस्व ,, इत्यादि मूल में और उनका सायन भाष्य संस्कृत टीका में लिखा है ॥ २८ ॥
सोमयाजिद्विजैः पूर्वं कृषिकै रन्नगोधनम् ॥
वांछितम्प्रार्थितं सोमादिति वेदविदो विदुः ॥ २९॥
चन्द्रमसः फलं याचितं सोमयाजिद्विजै रित्याचष्टे । सोमेति। वांछितं मनोभिलषित मित्यर्थः । सोमयाजिन स्तु यादृशाः पङ्क्तिपावनाः स्मृतिषू पदिष्टास्तादृशं न केनाऽप्यविदित मिति तदत्र ग्रन्थविस्तार भीत्यानोपहरामः॥२९ ॥
कृषिकर्ता सोमयाजि ब्राह्मणों नें पूर्व मनोभिलषित अन्न ,गो ,धन आदि चन्द्रमासे याचना किये ऐसा वेदवेत्ता
कहते हैं । और जैसे श्रुति स्मृतियों में सोमयाजी ब्राह्मण पङ्क्तिपावन कहे हैं तैसा किसी विद्वान को अविदित नहीं है ॥ २९ ॥
उत नो गोमती रिषो विश्वा अर्ष परिष्टुभः॥
गृणानो जमदग्निनाऽद्धाऽऽ हैषाहि श्रुति स्वयम् ॥ ३० ॥
उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः ।
गृणानो जमदग्निना ॥२४॥ ऋग्वेदः सूक्तं ९.६२ अद्धा साक्षात् स्वयं श्रुति राह ।उताऽपिच । हे सोम । जमदग्निनाम्ना ऋषिणा मया गृणानः स्तूयमानस्त्वं नोऽस्माकं गोमती गोर्भिर्युक्तानि परिष्टुभःपरितः श्रोतव्यानि विश्वा सर्वाणि । इषोऽन्नानि अर्ष गच्छ ।अस्मभ्यमेवंविधान्यन्नानि देहीत्यर्थः ॥३०॥
उस इतिहास को साक्षात् वेद कहता है कि हे चन्द्र ! मुझ जमदग्नि नामक ऋषि द्वारा स्तुत किये तुम मेरे लिये गोयुक्त कीर्तिकारक सर्वप्रकारके अन्न दीजिये अर्थात् हमारे लिये ऐसे समस्त अन्न देवो कि जिससे हमारी कीर्ति और ब्रह्मतेज,वंशवृद्धि ,गो -आदि पशुवृद्धि और स्वर्गादि निवास सुख होवे ॥ ३० ॥
यदि वांछत मानानि निशामयत भूसुराः ॥
परि णो देववीतये वाजानर्षसि गोमतः ॥३१ ॥
पुनान इन्द विन्द्रयु रर्षाणः सोमशंगवे ॥
धुक्षस्व पिप्युषी मिषं वर्धा समुद्र मुक्थ्यम् ॥ ३२
आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् ॥
वाजंगोमन्त माभर आन इन्दो शतग्विनं ॥३३ ॥
रयिं गोमन्तमश्विनम्भरा सोम सहस्रिणम्
इत्यादि श्रुतयः सन्ति सार्थका स्तस्य साधिका ॥ ३४ ॥
परि णो देववीतये वाजाँ अर्षसि गोमतः ।
पुनान इन्दविन्द्रयुः ॥४॥ ऋग्वेदः सूक्तं ९.५४
अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम्
वर्धा समुद्रमुक्थ्य १३३७ सामवेदसंहिता पूर्वार्चिकः आग्नेयं काण्डम् द्वादशः खण्डः १२पञ्चमप्रपाठके
आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् ।
वाजं गोमन्तमा भर ॥१८॥ ऋग्वेदः सूक्तं ९.६३
आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् ।भरा सोम सहस्रिणम् ॥६॥ ऋग्वेदः सूक्तं ९.६७
हेभूसुरा विप्राः! मानानि प्रमाणानि। निशामयत शृणुत। हे इन्दो सोम ! इन्द्रयु रिन्द्रकामः।
पुनानः पूयमानः। त्वं नोऽस्माकम् । देववीतये यज्ञाय । गोमतो गोयुक्तानि । वाजानन्नानि।
पर्यर्षसि परितःक्षरेत्यर्थः। हे सोम त्वं नोऽस्माकम् शंगवं सुख मर्ष क्षर। अपिच ।
पिप्युषीं प्रवृद्धाम् इषमन्नम् । धुक्षस्व पूरय। किञ्च। उक्थ्यं प्रशस्यं समुद्र मुदकं वर्ध वर्धय ॥३१, ३२ ॥
,न्यूनाधिकेनैकेनिचृत् भूरिजौ इति पैङ्गलसूत्रादत्र निचृत् ॥३२॥
ऊनाधिकेनैकेन निचृद्भुरिजौ । ३.५९ । पिङ्गलछन्दःसूत्रम्
हे सोम । त्वं हिरण्य वत्सुवर्णोपेतंच अश्ववदश्वयुक्तंच वीरवत्पुत्राद्युपेतंच धन मापवस्वास्मान् प्रतिक्षर अपिच गोमन्तं पशुभिरुपेतं वाज मन्न माभरास्मभ्य माहर। हे इन्दो !पात्रेषु क्षरन् हे सोम ! नोऽस्मभ्य माभरसंपादय देहि । किमिति। उच्यते। शतग्विनं शतं गावो यस्य स शतगुस्तद्वन्तं गोमन्तं प्रशस्त पशुमन्तम् ।
अश्विन मश्वयुक्तं । सहस्रिणं सहस्रसंख्याकम्। रयिं धनं पुत्रं वा आभर। तस्य हिंसारहितस्य सोमयागस्य साधिका सिद्धिकर्त्र्यः॥ ३३,३४॥
हे ब्राह्मणों ! यदि प्रमाणों के श्रवण की इच्छा है तो वेदवाक्य सुनिये । जैसे वेद कहता है वह सायनभाष्यानुसार हम लिखते हैं । हे चन्द्र । पवित्र तुम हमको यज्ञार्थ गोधनयुक्त अन्न और गौऔं को सुख देवो । तथा बहुतसा अन्न देवो और उत्तम वर्षा जल बढ़ाइये। ॥ ३१ ,३२ ॥ हे चन्द्रमा ! तुम सुवर्ण ,अश्व ,वीरपुत्र ,आदि उक्त धन तथा गो आदि पशु सहित हमें देवो। और सौ गौ ,उत्तम पशु एवं उत्तमोत्तम अश्व और हजारों धन पुत्र युक्त मुझे बनाइये । इत्यादि हिंसारहित सोमयज्ञ प्रतिपादन करानेवालीं श्रुति हैं ॥३३ ,३४ ॥
अतो मानानुमानैश्च पूर्वके सोमयाजिनः ॥
द्विजेन्द्राः कृषका आसन्निति निश्चीयते किल ॥ ३५॥
पूर्वके पूर्वे । द्विजेन्द्रा ब्राह्मणाः । कृषकाः कृषिकर्मपरायणाः ॥ ३५ ॥
इससे प्रमाण युक्ति अनुमान द्वारा पूर्व के सोमयाजी ब्राह्मण खेतीकरने वाले होते हुये यह निश्चय प्रतीत होता है ॥ ३५ ॥
तद्गोत्रजानरा लोके नानाजीवनतत्पराः
कुतस्त्यजन्ति तांशुद्धां कृषिवृत्तिमनुत्तमम् ॥ ३६॥
इतिनो ज्ञायते वृत्तं परन्चाऽनुमिनोमि तत् ॥
कला वज्ञानतो नृणान्धर्मप्रीतिर्न विद्यते ॥ ३७ ॥
तत्त्यागेऽनुमानतोऽऽज्ञानहेतु मेवंप्रतिपादयति । तदिति युग्मेन।तेषां सोमयाजिनां वशिष्ठात्रि पराशर गौतम जमदग्निभरद्वाजादीनां गोत्रजा वंशजाः। नानाजीवनतत्पराः वाणिज्यसेवादिरताः।अनुत्तमां नास्त्युत्तमाऽन्या वृत्तिर्यस्या स्तां सर्वोत्तमाम् ॥३६॥ अज्ञानादिति हेतुः ॥३७॥
उन सोमयाजी वशिष्ठ ,अत्रि ,पराशर ,गोतम ,जमदग्नि ,भरद्वाज आदि ब्राह्मणोंके वंशज मनुष्य लोकमें अनेक व्यापार ,सूद ,सेवावृत्ति करनेवाले क्यों सर्वोत्तम खेती जीवनका त्याग करते हैं ॥३६ ॥ यह हाल नहीं जान पड़ता परन्तु वह अनुमान द्वारा सिद्ध है, जाना जाता है कि अज्ञानवश कलियुग में मनुष्योंकी धर्ममें प्रीति नहीं है ॥३७ ॥
अतएव नराः क्षीणकायाः संतान वर्जिताः ॥
निर्धना दुःखिना धूर्ता उद्भवन्ति दिने दिने ॥३८॥
तत्त्यागे फलं निरूपयति । अतएवेत्येकेन। क्षीणकाया आलस्यादिना व्यायामविहीनत्वाज्जायमान मन्दाग्न्यादि कारणकै नानाव्याधिभिर्ग्रस्तत्वात् प्रक्षीणशरीराः । अतएव सम्यग्रसपाकविहीनशक्तितया वीर्यानुत्पत्तेस्सन्तानवर्जिताः । पुत्राद्युत्पादनाशक्ताः । अतएव दुःखिनो नानादुःख भोक्तारः । अतएव स्वोदरपोषणाय धूर्ता द्यूतचौर्यानृतादिकर्म तत्परत्वाच्छठा इत्यर्थः ॥३८॥
इसीसे मनुष्य आलस्य आदि कारणों से व्यायामादि विना जन्य मन्दाग्नि आदि कारणरूप व्याधियों से पीडित हुए क्षीणशरीर अतएव सम्यक् रसपाकहीनशक्तिसे वीर्य न बननेसे पुत्रादि उत्पादनमें असमर्थ और उपाय हीनतासे धनहीन और इसीसे अनेकदुःखभागी और उदरपुष्ट्यर्थ चोरी द्यूत आदि कर्ममें तत्पर होने से शठ होते हैं ॥३८॥
तद्धानिनाशनायैव वेदो वदत्य हर्निशम् ॥
कृषिः कार्या कृषिःकार्यानाऽत्र कार्या विचारणा ॥ ३९॥
अतस्तत् दुःखप्रहाणाय कृषिःकर्तव्येति वेदमतं वक्ति । तदित्यादिना । तद्धानि नाशनाय । क्षीणशरीरादिरूपहानिप्रहाणाय ॥ वेदो वक्ति दिवानिश ,मिति वा पाठः ॥३९॥
उक्तहानिनाशार्थ ही प्रतिदिनरात्रि वेद उपदेश करता है कि कृषि कीजिये २ इसमें किञ्चित् भी विचार नहीं कर्तव्य है ॥३९॥
गतः सकालस्तपसेष्टसिद्धि
र्ज्ञानेन यज्ञेन च यत्र यत्र॥
यच्छन्तु तस्मा त्कृषितो विधाय
येनेष्टसिद्धिः कथिता कलौ हि ॥४० ॥
तपः परं कृतयुगे त्रेतायां ज्ञान मुच्यते ।
द्वापरे यज्ञं एवाहुर्दानं एकं कलौ युगे । । १.८६ । । इति मनुः
तपः परं कृतयुगे त्रेतायां ज्ञानं उच्यते ।
द्वापरे यज्ञं एवाहुः दानं एव कलौ युगे ।। १.२३ ।। इति पराशरः एवं मनुपराशरादि मतं अन्ते उपन्यसन्ननुवदति । गत इति । यत्र यत्र च तपसा ज्ञानेन यज्ञेन चेष्टसिद्धिः कथिता सच कृतादिकालगत इत्यन्वयः । तस्मात् कृषितः कृषिं विधाय कृत्वाऽन्नादि निष्पाद्य यच्छन्तु दानं कुर्वन्तु । तथाच। लैङ्गे ।
ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते।
भजन द्वापरे शुद्धौ दानमेव कलौ युगे ।। तथाच कौर्मे ,,ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ।। २९.१०॥
अन्नदानात् परं दानं न भूतं न भविष्यति। नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित्।।ब्रह्मवैवर्तपुराणम् (प्रकृतिखण्ड 27 । 3) एवं अन्यत्रापि विस्तरः यथा अन्नदानात् परं दानं न भूतं न भविष्यति .पुण्यं यशस्यमायुष्यं बलपुष्टिविवर्द्धनं ..सर्व्वमन्नस्य दानेन भवतीति विनिश्चयः .महाकाञ्चनचित्राणि सेवितान्यप्सरोगणैः ..अन्नदस्योपतिष्ठन्ति विमानानि सुरालये .भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः। घोषवन्ति च यानानि युक्तान्यथ सहस्रशः।। ४० ॥
वह काल सतयुगादि द्वापरान्त चला गया जिसमें क्रम से तप ,ज्ञान ,यज्ञसे इष्ट सिद्धि होती थी अतः कृषिकर ,अन्न संपादन कर ,और अन्नदान कीजिये जिससे कि मनु पराशरस्मृति और लिङ्गपुराण आदि में मनोरथ सिद्धि कलियुग में लिखी है ॥ ४०॥
निवोधतो तिष्ठत जाग्रताऽधुना ।
बहि र्विनिर्गत्य परा न्प्रपश्यत॥
धर्मावनं वाञ्छत जीवनं शुभ।
कुरुद्ध्व मन्वन्य निवासिनो यदि ॥४१ ॥
एवं विप्राणांकृते कृषिजीवनं साधयित्वा प्रथमाध्यायोपसंहारं कुर्वन्स्तानेव प्रार्थनापूर्वक मुत्तेजयति।निवोधतेति युग्मेन ।भोः भोः विप्राः निवोधत मद्वाक्य मिति शेषः ।शृणुत इत्यर्थः ।किन्तद्वाक्य मित्यतआह । समाहिता भूत्वो त्तिष्ठत जागृतेत्यादि । परानन्यद्वीपनिवासिनो नरान् ।येचाऽस्मद्वेदादिशास्त्रेषु तन्महिमान मन्वालोच्यैव तत्सेवमाना इदानीं धनादेःपरां कोतिमारूढा अपि राज्यतः पृथगेव स्वकृषिं कुर्वन्ति । तत्र श्रीमन्महाराजाः सप्तम एडवर्डनामानो नृपसम्राज इत्यादयो दृष्टान्ताः । यदि धर्मावन मात्मीयधर्मरक्षणं शुभं जीवनञ्च वाञ्छत तर्हि अन्यनिवासिनो द्वितीयद्वीपदेशवासिनो नरान् ।अनुकुरुद्ध्व मनुकुरुते त्यन्वयः ॥४१॥
भोः भोः विप्रों !मेरे वाक्य को सुनिये क्या ,सावधान हो उठबैठिये निद्रा आलस्य त्यागिये और इस समय बाहर निकलकर अपनेसे अन्य मनुष्योंको देखिये ,क्या कर रहे हैं ,अर्थात् देखिये हमारे शास्त्रगतपदार्थों के माहात्म्य जाननेवाले {शव्दार्थों के माहात्म्य जाननेवाले } द्वितीय टापूनिवासी धन आदि अनन्त संपत्ति सहित हुवेभी श्रीमन्महाराजाधिराजभूपराजसम्राट सप्तमएडवर्डबहादुर साहिब निज राज्यगद्दी पर बैठे हुवे भी पृथक ही निजकी खेती कराते हैं । अतः यदि निजधर्मरक्षा और श्रेष्ठजीवनकी इच्छा करते हौ तौ अन्य द्वीपवासी मनुष्यों का इसकर्म में अनुसरण करौ ॥४१ ॥
अपास्य निन्दादियुतांच वृत्ति
प्रगृह्य वेदागमकादिविद्या ॥
निरालसाः कर्मरता द्विजेन्द्रा
स्तपस्विनः कर्षणका वरिष्ठाः ॥४२॥
इति दाशरथीकृतिषु कृसिशासने ब्राह्मणानां कृष्याधिकारकथनं नाम प्रथमोऽध्यायः ॥ १॥
तत्र निन्दादि भवेत्ताद्रिषीं याञ्चावृत्ति मपास्य सन्त्यज्य वेदागमकादिविद्या यथाशक्तिचतुर्वेदषट्शास्त्र
पुराणादिविद्याः। प्रगृह्य पठनपूर्वकं संगृह्य । हे द्विजेन्द्रा ब्राह्मणाः। तपस्विनो व्रतादिनियमतत्पराः। कर्मरताः स्वाध्याय सन्ध्योपासनादिषट्कर्मसेवमानाः सन्तः । वरिष्ठाः उत्तमाः । कर्षणं कारयन्ति कुर्वन्तीति कर्षणकाः कृषिकराः सम्भवन्त्विति शेषः ॥ ४२ ॥
इति नारायण भाष्यसहिते कृषिशासने विप्राणां कृष्यधिकारवर्णनं नाम प्रथमोऽध्यायः॥ १॥
{ संध्या स्नानं जपो होमो देवतानां च पूजनम्। आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने॥ }
{ देवपूजा गुरुपास्ति:, स्वाध्याय: संयमस्तप:। दानं चेति गृहस्थानां, षट्कर्माणि दिने दिने।। }
{ अध्यापनं अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः }
हे ब्राह्मणों !अतः अपवादयुक्त भिक्षावृत्ति त्याग यथाशक्ति चारवेद छः शास्त्र १८ पुराण आदि संस्कृत विद्या आदि विद्या पढकर निरालस { सन्ध्यादि } कर्म तत्पर व्रतादि नियम धारण करते हुवे भी उत्तमाचरणशील कृषिकर्मों को सेवन करौ ॥ ४२ ॥ इति राघवभाष्य सहित कृषिशासने प्रथमोऽध्यायः॥ १॥
टिप्पणी
श्रीकात्यायन सूत्रानुसार अति संक्षिप्त सन्ध्या ,तर्पण ,पञ्चमहायज्ञ ,कर्म थोडे समयमें और शीघ्र करनेमें आते हैं |
टीकाद्वयोपेतम्
|| कृषि शासनम् ||
|| द्वितीयोध्यायः || [ 2 ]
|| अथ प्रथमं भूमिपादम् ||
चतुष्पाद कृषि वर्णनम्
अथतां सम्प्रवक्ष्यामि ऋषिपुत्र्यधिदैवताम् ॥
सपादां कारणैर्युक्तां प्रवरां कर्षणक्रियाम् ॥ १ ॥
भूमिश्च प्रथमः पादो द्वितीयो गौस्तृतीयकः ॥
बीजन्तुर्यः पतिः प्रोक्तः कृषिशास्त्रविशारदैः ॥ २ ॥
एकेनाऽपि विहीनासा निश्फला भवति क्षणात् ॥
यथा धर्म श्चिकित्सा च तथा गौश्च कृषिस्तथा ॥३ ॥
अतः पादैर्युता सर्वैः कर्तव्याः कृषिकैः सदा ॥
यथा व्यापद्यते सानो तथेत्याहुर्मनस्विनः ॥४ ॥
सपादकारणां कृषि मनुवर्णयन्नादौ निर्विघ्नतयाऽध्यायसमाप्ति मिच्छुर्मंगल माचरति । अथेति मंगलम् । ॥ १ ,२ ॥
धर्मस्य चत्वारः पादाः भागवते यथा सत्यन्तपो दया दानं धर्मपादा इति स्मृताः। इति
कृते प्रवर्तते धर्मः चतुष्पात् तज्जनैर्धृतः ।
सत्यं दया तपो दानं इति पादा विभोर्नृप ॥ १८ ॥द्वादशस्कन्धे तृतीयोऽध्याये
चिकित्सायाश्चत्वारः पादा यथा वैद्यके । रोगी वैद्यश्च भैषज्यं परिचारक इति स्मृताः इति ॥३ ,४ ॥
मरीचिपुत्री अधिदेव जिसकी ऐसी पूर्वोक्त खेतीको पाद और कारण सहित कहूंगा ॥१ ॥ खेती के १ पृथ्वी २ गौ (बैल) ३ बीज ४ स्वामी (कर्षा ) { किसान } ये चार पाद खेतीशास्त्रज्ञाताऔं ने कहे है ॥ २ ॥ एक पाद हीन होवे तो वह तत्काल निश्फ़ल धर्म ,चिकित्सा ,गौ के भांति हो जाती है ॥ ३॥ अतः चारों पादों सहित ही कर्षकों को जैसे किञ्चित् भी बिगड़ने न पावै तैसे वह कर्तव्य है ऐसा कृषिशास्त्रज्ञाता ब्राह्मण कहते हैं ॥४॥
टिप्पणी
१ सत्यवचन ,एकादशी आदि व्रत ,दया ,दान ये ४ पाद धर्म के भागवत में कहे हैं ।
२ रोगी ,वैद्य ,औषधि ,परिचारक (रोगीकी सेवा करनेवाला )ये ४ चार पाद चिकित्साके आयुर्वेद सुश्रुतादि पुस्तकोंमें लिखे हैं ।
कृषि प्रथम पाद विचारः ।
तत्र तत्प्रथमः पादः सुसम्पाद्यो भवे द्यथा ॥
तथा विचार्यते सम्यक् जनताया हितायच ॥ ५॥
चतुष्पादेषु प्रथमस्य भूमिनामकपादस्य मीमांसा मीहमानोऽवतारयति । तत्रेत्यादि । जनताया जनसमूहस्य॥ ५ ॥
चारों पादों में प्रथम भूमि जैसे उत्तम खेतीके योग्य होवे तैसे मनुष्य सुखार्थ अच्छे प्रकार विचारा जाता है ॥५ ॥
भूमि परीक्षा ।
अनूपराऽननूपाच विपाषाणा विशर्करा ॥
ग्राह्या वसुन्धरा पुष्टा सदैव कृषिकोविदैः॥ ६ ॥
कृष्यां कीदृशी भूमि रुपयुक्ता भवतीत्यत आह । अनूपेति । अनूपरा प्रभृति शव्दाः उपलक्षका स्तेन चितादग्धश्मशानादिदूषिताऽप्यत्रानुक्ता बोध्या ! कृषिकोविदैः कृषिकर्ममर्मविद्भिः॥ ६ ॥
खेती कर्मोंके वास्तविक हालके जाननें वालोंनें खेतीके लियें कहा है कि सदा ही ऊपर ,तरायी ,पथरीली ,और रेती की जमीन को त्याग एवं श्मशान ,वीड ,(रून्द ) मार्ग ,अग्निसे जरी हुई भी आदि भूमि,कि जिसमें जोतनें बीज बोनें पर कम फसल हो या मारी जावै ऐसी पृथ्वी को त्याग और उत्तम पुखते अधिक फसल देनेवाली
मध्य { न अधिक तर हो और न अधिक सूखी } भूमि लेनी चाहियें ॥ ६॥
कर्षणे निषिद्धभूकथनम् ।
पूज्या सेव्या समाभूमि रविदार्याः रजस्वला ॥
अम्बुवाचिदिनेवाऽपि निषिद्धाकर्मलोचने ॥ ७॥
उक्तलक्षणा भूमिः पूज्या माननीया। रजस्वला भूमि रविदार्या अपिवा अम्बुवाचि दिने च अविदार्या भवति।
तथाच ज्योतिषे ।
रजोयुक् क्ष्माम्बुवाची च रौद्राद्यपादगे रवौ ।
तस्यां पाठो वीजवापो नाहिभीर्दुग्धपानतः ॥ इति
“यस्मिन् वारे सहस्रांशुर्यत्काले भिथुनं व्रजेत् ।
अम्बुवाची भवेन्नित्यं पुनस्तत्कालवारयोः” ॥ इति तिथ्यादितत्वात्
“चैत्रे च कृष्णपञ्चम्यां: काश्मीरा च रजस्वला ।इति ब्रह्मपुराणात् यतः कर्मलोचने ग्रन्थे तादृश्या स्तद्दिनेऽति निषिद्धत्वात् । तत्रत्य पद्यं मूलएवेति ॥ ७॥
परन्तु सम { जिसमें जल बराबर सम्पूर्णखेत में पहुंच सकता होवे } भूमि उत्तम जोतने योग्य है और कर्मलोचनग्रन्थमें लिखा है कि रजस्वला भूमि चैत्र कृष्ण पञ्चमीको और अम्बुवाची { जिस दिन और जिस समय सूर्य मिथुन राशि पर आवे } दिनभी जोतने योग्य नहीं है । ऐसा कर्मलोचन पुस्तकमें लिखा ।
मूल में आठवां श्लोक है ॥ ७ ॥
अमायांच पितृश्राद्धे अम्बुवाचिदिने तथा ॥
लाङ्गलेन क्षतं क्षेत्रं पृथिवी कम्पते सदा ॥ ८॥
उक्तार्थे चोक्तग्रन्थस्यैव प्रमाणमाह । अमाया मिति ॥८॥
अमावास्या, पितृश्राद्ध के दिन , और अम्बुवाची दिन ,और चैत्र कृष्णा पञ्चमी को हल से जोता जावे तौ भूमि कांपती है ॥८ ॥
अविदार्य भूदारणे फलकथनम् ।
सस्यनाशो न फलभाक्कर्ता दोषैः प्रलिप्यते ।
यस्मिन्दिने च यत्काले मार्तण्डो मिथुनं व्रजेत् ॥ ९॥
तद्दिने स्व्म्बुवाचिस्या त्तत्र वर्ज्य न्दिनत्रयम् ।
इति ज्योतिर्विदः प्राहुः प्रमादाच्चे त्क्षतारसा ॥ १० ॥
वपनञ्च कृतं वास्याद्गाव स्तत्र प्रचारयेत् ।
तत्क्षण न्तिलरत्नादि दद्यात् कृच्छ्रं समाचरेत् ॥ ११॥
कृते विदारणे बीजवापे च कर्तु र्दोषावाप्तिः सस्य मफल मित्यनुवदन्नाह। सस्येति ॥ ९ ॥ अम्बुवाचि दिन मभिलक्षयति। तदिति। तत्र प्रमादतः खननं कृतं यदि तदानन्तरं किंकुर्या दित्यत्राह। प्रमादात् चेत् यदि क्षता विदारिता रसा पृथ्वी ॥ १०॥ तस्य प्रायश्चित्त माह । गाव इत्यादि ।तथाच ।
“यदाऽऽर्द्रर्क्षं समादाय भानोर्मन्मथगामिता।
पुनस्तत्स्थिति मादाय यजनं त्रिदिनं त्यजेत्॥
काम्यनैमित्तिकञ्चैव यात्रां मन्त्रक्रियान्तथा।
ऋतुमत्यां न कुर्वीत पूर्वसङ्कल्पितादृते॥
न कुर्यात् खननं भूमेः सूच्यग्रेणापि शङ्करि।
बीजानां वपनञ्चैव चतुर्विंशतियामकम्॥
प्रमादाद्वपनं कृत्वा गावस्तत्र प्रचारयेत्।
कृच्छ्रं कुर्यात् तत्क्षणाच्च खननात्तिलकाञ्चनम्”॥ इति मत्स्यसूक्ते महातन्त्रे । किञ्च ।
स भवति निर्गुणकालो द्वितीयपादाश्रयाद्रौद्रे”॥
“न स्वाध्यायं वषट्कारं न देवपितृतर्पणम्।
हलानां वाहनञ्चैव बीजानां वपनं तथा”॥
इति राजमार्तण्डात् ॥ तत्र पाक निषेधोऽपि । यथा
“यतिनो व्रतिनश्चैव विधवा च द्विजस्तथा।
अम्बुवाचिदिने चैव पाकं कृत्वा न भक्षयेत्॥
स्वपाकं परपाकं वा अम्बुवाचिदिने तथा।
भक्षणं नैव कर्तव्यं चाण्डालान्नसमं स्मृतम्”॥
इति संवत्सरप्रदीपे विष्णुरहस्यात् ॥ एतेनाऽऽषाढी पर्युषितान्नदुर्गापूजा ध्वनिता याञ्च भाषाविदोलौकिकाः ।
” वास्योरा मात्र्युत्सवः ” इति वदन्ति । कृच्छ्रं समाचरेत् कृच्छ्रव्रतञ्च कुर्यात् त्र्यहं प्रातस्तथा सायमयाचितं पराक इति कृच्छ्रः” इति वशिष्ठस्मृतेः तद्विधिरपि तत्रैव दृष्टव्या ॥ ९ ॥ १० ॥ ११ ॥
यदि जोतकर बीज वोया जावे तौ प्रथम तो उत्पन्नही न हो और हो तो भी मारी जावे अथवा बीज ही बिगड जावे और कर्षा को दोष भी बडा होवे । जिस दिन जिस समय सूर्य मिथुन के होवें ॥ ९ ॥ वह अम्बुवाची दिन होता है उस समय ३ तीन दिन जोतने वोने आदि में निषिद्ध हैं ऐसा ज्योतिःशास्त्रवेत्ता कहते हैं कि राजमार्तण्ड आदि ग्रन्थों में लिखा है उक्त तीनों दिनों में अपनें या अन्यके गृह में पके हुए अन्नादिका बड़ा दोष शास्त्रों में लिखा है । अतएव हिन्दुस्थान में कुछ काल से उक्त समय को भूल कर आषाढ़पूर्णिमा तक इस आषाढी माता के वास्योरा नामक उत्सवको मनाते हैं और वासा अन्न खाते हैं । वास्तविक प्राचीन वह भूमिकी पूजा है । यदि कोई प्रमादसे जोते ॥१०॥या बीज वोये और शाख उत्पन्न हो भी जावै तौ गौऔंको चरा देवै और जिस समय यह वृत्तान्त मालूम पड़े उसी समय सुवर्ण ,तिल ,रत्न आदिका दान ब्राह्मणको देकर और एक कृच्छ्रव्रत करै व्रतकी विधि मनुस्मृति आदि में देखिये ॥ ११ ॥
रजोवतीभूलक्षणं तत्खनननिषेधः :-
तथा चैत्रेऽसिते पक्षे पञ्चम्यां क्ष्मारजोवती ।
तत्राऽपि खननं वर्ज्य मिति पूर्व विदोविदुः॥ १२ ॥
तथा तेनैव प्रकारेण असिते कृष्ण पक्षे ॥ १२ ॥
एवं चैत्र कृष्णपक्ष पञ्चमीको भूमि रजस्वला हो जाती है तब भी तीन दिन जोतना खोदना आदि निषिद्ध है ऐसा पहिले के आचार्य कहते हैं ॥ १२ ॥
भूमिपूजा ( वास्योरा )कथनम् ।
पूजा तस्याः प्रकर्तव्या सर्वपापविनाशिनी ।
शुभे हलप्रवहणे बीजवापदिने च तु ॥ १३ ॥
पाषाणै र्मृत्तिकाभिश्च कृत्वा शैल स्वरूपिणीम् ।
सुन्दरां स्त्रीस्वरूपां क्ष्मां सुस्नाताश्चारुभूषणाः ॥ १४ ॥
सौभाग्यवत्यः सुन्दर्यः पूजयेयुर्गृहे गृहे ।
अभ्यङ्गवस्त्रै र्नैवेद्यैः पुष्पालङ्कार धूपकैः ॥ १५ ॥
अगोरसोपहारै श्च पश्चादष्टमिका तिथौ ।
जीवपत्यः प्रहृष्टास्ता यजेयुः स्नापयेयकुः ॥१६॥
ततः सर्वौषधियुतैर्जलैः क्षेत्रे गृहेथवा ।
द्विजैः सकर्षकैश्चैव स्नाप्या पूज्या विधानतः ॥१७ ॥
ब्रह्माविष्णुमहेशादि सूर्यादिग्रहमण्डलैः ।
सहिता रत्नगर्भासा यथेष्ट फलदामता ॥ १८॥
अधुनाषड्भिः पद्यै पूजा प्रकारस्तस्याः कथ्यते । पूजेति। स्पष्टतरार्थका एते श्लोकाः । तथाच कृत्यरत्नाकरे । चैत्रे च कृष्णपञ्चम्यां: काश्मीरा च रजस्वला । काश्मीरा भूमिः। नित्यं भवति तस्मात्तां कृत्वा शैलमयीं स्त्रियम्॥
अभ्यङ्गवस्त्रनैवेद्यैः पूजयेच्च दिनत्रयम्।
पुष्पालङ्कारधूपैश्च गोरसं वर्जयन्ति च॥
अष्टभ्याञ्च ततः स्नाप्य ताभिरेव गृहे गृहे।
सुस्नाताभिः प्रहृष्टाभिर्जीवपत्नीभिरेव च।
अनन्तरं द्विजैः स्नाप्या सर्वौषधियुतैर्जलैः ।
गन्धैर्बीजैस्तथा रत्नैः फलैः सिद्धार्थकैस्तथा॥
स्नापयित्वा च तां देवीं गन्धैर्माल्यैश्च पूजयेत्।
तन्निवेदितशिष्टञ्च प्राशितव्यं गृहे गृहे॥
अतः परमृतुस्नाता गर्भं गृह्णाति मेदिनी॥
ब्रह्मा विष्णुश्च रुद्रश्च काश्यपः सुरभी तथा।
इन्द्रः प्रचेताः पर्जन्यः शेषश्चन्द्रार्क्क्यवह्नयः॥
बलदेवो हलं भूमिर्वृषभो रामलक्ष्मणौ।
रक्षोघ्नौ जानकी सीता युगं गगनमेव च॥
सीता लाङ्गलपद्धतिः। युगं युगकाष्ठम्।
“एते द्वाविंशतिः प्रोक्ताः प्रजानां पतयः शुमाः।
गोमङ्गले तु संपूज्याः कृष्यारम्भे महोत्सवे॥
अर्घैः पुष्पैश्च धूपैश्च माल्यै रत्नैः पृथक् पृथक्।
हलेन वाहयेद्भूमिं स्वयं स्नातः स्वलन्कृतः ॥” इत्यादि ।
अथ पूजाप्रयोगः ॥
पौर्णमास्यन्त चैत्रीयकृष्ण पञ्चम्यां पृथ्वी रजस्वला भवति तेषु तान्दिनत्रय एकस्मिन् पर्वताकार उच्चप्रदेशे सधवाः स्त्रियः पूजयेयु रष्टम्यान्तां स्नापयित्वेति । तथा शुभे दिने बीजवपनदिने वा सर्वौषधि, गन्ध, बीज, रत्न, फल, श्वेतसर्षपैः पृथ्वीं स्नापयित्वा गन्धादिभिः पूजयेत् नैवेद्यशेषंञ्च पश्चाद्भोक्तव्यम् ॥ तथाच ॥ हलप्रवाहदिने बीजवपनदिने च कृतस्नानादिराचान्तः शुद्धवस्त्राणि वसानः स्वस्ति प्रतिज्ञा पूर्वकं गर्तं क्षेत्रे कृत्वा जलेनाऽपूर्य तत्र प्रजापतिं सूर्यादि नवग्रहान् भूमिंच पूजयेत् । अर्घ्य पाद्यादि षोडशोपचारैः । हिरण्य गर्भे वसुधे शेषस्योपरिशायिनी। वसाम्यहं तव पृष्ठे गृहाणार्घ्यं धरित्रि मे ॥ इति मन्त्रेण क्षीरेणार्घ्यं दद्यात् । शेषाणि तु वैदिक पौराणिक तान्त्रिक मन्त्राणि तत्तत्पद्धतिभ्योऽपि बोद्धव्यानि । ऐशान्यां पुष्प नैवेद्यैः प्रणामादि नमोन्तैस्तत्तन्नाम मन्त्रैर्वा तत्तद्वैदिकादि मन्त्रै र्वक्ष्यमाणदेवपूजां कुर्यात् । ॐ ब्रह्मणे । विष्णवे ।नमस्ते वहुरूपाय विष्णवे परमात्मने स्वाहा ” इति विशेषः ।इत्यनेन त्रिः पूजयेत् । रुद्राय ।कश्यपाय ।सुरभ्यै ।इन्द्राय ।तदर्घ्य मन्त्रस्तु यथा “शक्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः। शतयज्ञाधिपो देव तुभ्यमिन्द्राय वै नमः॥” इति प्रचेतसे। पर्जन्याय। शेषाय। चन्द्राय ।अर्काय। वह्रये। बलदेवाय। हलाय। भूमये। वृषभाय ।रामाय। लक्ष्मणाय। जानक्यै। सीतायै। युगाय। गगनाय। ततः क्षेत्रपाल मग्निं द्विजञ्च पूजयेत्। हुताग्निं प्रदक्षिणीकृत्य आचार्याय दक्षिणां दद्यात्। आम्रपल्लवौदनदधीनि गर्ते निःक्षिप्य मृत्तिकाभिः पूरयेत्। कृष्णौ वृषौ नवनीतैर्घृतेन वा मुखपार्श्वयोर्विलिंपेत् । हलप्रवाहकान् गन्धादिना भूषयित्वा हलं माल्यादिभिः पूजयित्वा दधिघृतमधुभिः फालाग्रं प्रलिप्य हेम्ना फालाग्रं घर्षयित्वा कर्षयेत्। वस्विन्द्रपृथुरामेन्दुपराशरबलभद्रान् स्मरेत्। एका तिस्रः पञ्च वा रेखा हलेन कार्याः। भग्नशृङ्गखुरलाङ्गूलाः कपिलाश्च वृषा न योक्तव्याः। हलप्रवाहकाश्च समर्थाः कर्तव्याः। हलानि नवानि दृढानि कर्तव्यानि। वृषभयुद्धादिकं न शुभदं। वृषभाणां नर्द्दनेन चतुर्गुणं शस्यं मूत्रपुरीषोत्सर्गेऽपि तथा॥ बीजवपने त्विदमधिकम्। सुवर्णजलसंयुक्तं बीजमुष्टित्रयं इन्द्रं ध्यायन् स्वयं प्राजापत्येन तीर्थेन वपेत्। उभयत्रैव प्राङ्ममुखः जलपूर्णं कलसं गृहीत्वा।
“त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे।
नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु॥
रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु।
कर्षकास्तु भवन्त्यग्र्या धान्येन
च धनेन च स्वाहेति प्रार्थयेदिति॥” एतेन चैत्री मातृपूजा ध्वनिता याञ्च ” मातृ वास्योरा ”
इति वदन्ति ॥ १३ ॥१४ ॥१५ ॥१६ ॥१७ ॥१८ ॥
किन्तु सर्व पाप नाशार्थ शुभदिन चैत्र में पंचमीसे ५ मीसे ८ मी अष्टमीतक उस रजोवती भूमिकी पूजा करै , और हल चलाने और बीज वोनेके दिन विशेषतया पूजा करै ॥१३ ॥ मृत्तिका और पाषाणों से पर्वताकार ऊंचाटीला बनाकर उसपर नारीरूप पाषाणमयी मूर्ति स्थापनकर सौभाग्यवतीं स्त्रीं शुद्ध हो ,नवीन वस्त्र आभूषण धारण कर निज २ गृहों में अभ्यङ्ग ,वस्त्र ,नैवेद्य ,पुष्प ,धूप ,दीप, आभूषणों से पूजा करैं परन्तु केवल पक्वान्नों के साथ दूध, दही आदि न चढावें ,और न घृतका पक्वान्न बनावें । पश्चात् अष्टमी को उक्त मूर्तिका सर्वौषधि युक्त जल से क्षेत्र अथवा निजगृह में अभिषेक करैं । तदनन्तर ब्राह्मणों को साथ ले गृहपति कर्षक जन विधिपूर्व षोडशोपचार पूजन स्नान करावैं और सूर्यादि ग्रह मण्डल पूजा पूर्वक ब्रह्मा विष्णु महेश आदिका पूजन करैं इस प्रकार पूजी हुई रत्नगर्भा यथेष्ट फल देने वाली होती है यह भूमिकी पूजा सर्वत्र देशों में ,विशेष कर हिन्दुस्थान में होती है जिसको हिन्दुस्थानी नर- नारी ” चैती माता का वास्योरा ” त्योहार कहते हैं। ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८॥
टिप्पणी –
॥ कनिष्ठा देषिन्यन्गुष्ठ मूला न्यग्रं करस्य च । प्रजापति पितृ ब्रह्म देवतीर्था न्यनुक्रमात् ॥ इति याज्ञवल्क्यः कायमङ्गुलिमूले इति मनुः । अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
कायं अङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः । । २.५९ । ।
स्तोतव्या विष्णुसंप्रोक्त स्तोत्रेण परमेश्वरी ॥
पुराणे ब्रह्मवैवर्ते लिखितेनच भूसुराः ॥१९ ॥
पूजान्ते विष्णुप्रोक्त भूस्तोत्रेण स्तुतिः कर्तव्या । हे भूसुराः ब्राह्मणाः एतत्स्तोत्रं यथा ।
श्रीविष्णुरुवाच।ॐ ह्रीं श्रीं वां वसुधायै स्वाहा ।।
जये जये जयाकारे जयशीले जयप्रदे!
यज्ञसूकरजाये च जयं देहि जयावहे ॥ १ ॥
मङ्गले मङ्गलाधारे मङ्गल्ये मङ्गलप्रिये।
मङ्गलाढ्ये मङ्गलेशे मङ्गलं देहि मे भवे ॥ २ ॥
सर्वाधारे सर्वबीजे सर्वशक्तिसमन्विते।
सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे ॥ ३ ॥
पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि
पुण्याश्रये पुण्यवतामालये पुण्यदे भवे ॥४ ॥
रत्नाधारे रत्नगर्भे रत्नाकरसमन्विते।
स्त्रीरत्नरूपे रत्नाढ्ये रत्नसारप्रदे भवे ॥५ ॥
सर्वसस्यालये सर्वसस्याढ्ये सर्वसस्यदे
सर्वसस्यहरे काले सर्वसस्याधिके भवे ॥ ६ ॥
भूमे भूमिपसर्वस्वे भूमिपानां परायणे।
भूपाहङ्काररूपेण भूमिं देहि च भूमिपे ॥ ७ ॥
इदं पूण्यं महास्तोत्रं तां संपूज्य च यः पठेत्।
कोटि कोटि जन्म जन्म स भवेद्भूमिपेश्वरः ॥ ८ ॥
भूमिदानकृतं पुण्यं लभते पठनाज्जनः ।
भूमिदानहरात् पापान्मुच्यते नात्र संशयः ॥ ९ ॥
अम्बुवाचीभूखनने पापात् स मुच्यते ध्रुवम्।
अन्यकूपे कूपदजात् पापात् स मुच्यते ध्रुवम् ॥१०॥
परभूश्राद्धजात् पापान्मुच्यते नात्र संशयः॥
भूमौ वीर्यपरित्यागात् भूमौ दीपादिस्थापनात् ॥ ११ ॥
पापेन मुच्यते प्राज्ञः स्तोत्रस्य पठनान्मुने!।
अश्वमेधशतं पुण्यं लभते नात्र संशयः ॥ १२ ॥ इति ब्रह्मवैवर्ते द्वितीये प्रकृतिखण्डे पृथिव्युपाख्याने पृथिवीस्तोत्रं नामाष्टमोऽध्यायः।।८।।
भूस्तोत्रं समाप्तम् ॥१९ ॥
पूजाके वाद हे ब्राह्मणों ! ब्रह्मवैवर्त पुराण में लिखे हुवे विष्णु कृत भूमि स्तोत्र से पृथ्वीकी स्तुति करै ॥ वह स्तोत्र और पूजाकी पद्धति नारायण भाष्य में लिखी है ॥ १९ ॥
पूजितायां स्तुतायाञ्च देयं संजीर्ण कच्चरम् ॥
पुष्टस्तस्यप्रदायेन रामा क्षीरादिनी यथा ॥२० ॥
अवटेऽनुदिनं स्थाप्यं गोष्ठजातं प्रकच्चरम् ॥
वहि र्गामा त्तथा रक्ष्यं यदसौ न विनिर्गमेत् ॥२१ ॥
जीर्णं सुरक्षितं तद्धि परमौषध माहितम् ॥
वसुधा वन्ध्यता व्याधि विनाशकरणे क्षमम् ॥२२॥
एवं पूजितायां भूम्यां कच्चरन्दद्यादित्युपपादयित्वा कच्चर जीर्नकरणादि प्रकार मुपदिशति । पूजिताया मित्यादि विशेषकेण । यदुत्तमम्। जीर्णकच्चरं पुराण कच्चरम् । गोमयकूटं सारं ” खात ” इति प्रसिद्धम् ।
येन दानेन । रामा स्त्री । उत्तमसन्तानप्रदा यथा। अवटे गर्ते । गोष्ठजातं गोशाला समुद्भूतम् गोमयादिकम् ।
प्रकच्चर मुत्तमसारम् तथा रक्ष्यं स्थापनीयं तद्भवति यथाजलं वहिर्न विनिर्गमेत् निःसरेत् । क्विवन्तो नामधातु प्रयोगः। किञ्च मानुष्याऽऽद्यारोग्य सिद्ध्या एतादृशे स्थाने ग्रामतो वहि स्तद्गर्तनिर्मितिः कर्तव्या तद्गालनजनित पूतिवायुस्पर्शो न भवेत् । परन्तु सदा ग्रामतः पूर्वपश्चिमदिश्योः क्रमाद्वर्षाशरदादिषु तत्स्थापनस्थानविधि रिति भावः । आहितं क्षेत्रे निक्षिप्तम् । तन्निक्षेपण प्रकारस्तु विशेषतः कृषिपद्धतौ पराशरेण यथा ,
माघे गोमयकूटं तु सम्पूज्य श्रद्धयान्वितः ।
शोभने दिवसे ऋक्षे कुद्दालैस्तोलयेत्ततः ॥
रौद्रे संशोष्य तत् सर्वं कृत्वा गुलुक रूपिणम्। । रौद्रे तीव्रघर्मे ।
फाल्गुने प्रतिकेदारं गर्तं कृत्वा निधापयेत् ॥
ततो वपनकाले तु कुर्यात् सारविमोचनम् ।
विना सारेण यद्धान्यं वर्धते न फ़लत्यऽपि , ॥ इति ॥२०॥२१॥ २२॥
पूजा स्तुति के बाद खेत में खात देना योग्य है जिससे शाख अच्छी पैदा होवै जैसे दूध आदिक पुष्ट पदार्थ खानेवाली स्त्री उत्तम पुष्ट पुत्र को देती है ॥२०॥ खात स्थापन करने की विधि । एक गड्ढेमें प्रतिदिन का गोशालामेंसे गोवर तृण आदिको निकाल २ कर जमा करै । परन्तु ग्रामसे बाहिर ऐसे स्थान पर वह जमा किया जाय कि जिससे उसका रस वाहर न निकल जावे . द्वितीय उसके गलन जन्य दुर्गन्ध युक्त पवन ग्रामवासी मनुष्य पशु पक्षी आदिका रोगादि जनक न होवे । अतः सिद्ध हुवा कि वर्षामें ग्रामसे पश्चिमी भागमें और वसन्तादिसमयमें पूर्वभागमें खातका स्थान नियत करै । किन्तु पराशरमुनि लिखित कृषि पद्धति में लिखा है कि माघ मासमें गोमय (गोवर) की राशिका श्रद्धासे पूजन कर और सडा हुवा जान ,शुभदिन फावलोंसे तोड २ तीव्र घाममें छोटी २ ढेरीं कर सुखावै । और फाल्गुनमें खेतमें गड्ढ़े जगह २ खोदकर उनमें उन ढेरियोंको डालकर दवा देवै ॥ २१ ॥ जीर्ण (पुराना) सडा हुवा उत्तम रीतिसे रक्खा हुवा परम औषधि रूप डालनेसे हो जाता है । और भूमिकी वन्ध्यात्व आदि अनेक व्याधियोंके नाश करनें में समर्थ होता है ॥ २२॥
ऊषर भू चिकित्सा कथनम् ।
ऊषरा दहति प्रायो बीजं क्षारजवन्हिना ।
प्रसवत्यन्कुरं नैव यथा वन्ध्या बलाऽबला ॥२३ ॥
तद्दोषशमनं कार्यं खननैश्च पुनः पुनः ।
मृत्स्नाविनिमयै र्नीरै र्वहुकच्चर पातनैः ॥२४ ॥
ऊषरभूमि चिकित्सा मुपदिषति । ऊषरेति युग्मेन । बला बलिष्ठा अपि अबला स्त्री वन्ध्या सती पुत्रं न ददाति ।पुनः पुनरित्यनेकवारम् । खननै र्विदारणादिभिः । मृत्स्नाविनिमयै श्च वहुवारं मृत्तिकापरिवर्तनै रित्यर्थः ।अर्थात् अन्यस्थानस्थ मृत्स्नोषराया मूषरजमृत्तिका ततोऽप्यऽन्यत्रैव स्थापितव्येति विधिरिति भावः। अथवा नीरैर्जलै । वहुकच्चरस्य क्षेपणैः पातनैः ॥२३ ॥२४ ॥
ऊषरभूमि निज खारज अग्निवेगसे बीजको दग्ध कर देती है अतः शाखा नहीं उत्पन्न होती है । जैसे वन्ध्या स्त्री बलिष्ठ भी निज रोगज अग्नि से वीर्य को दग्ध करदेती है अर्थात् वीर्य को ग्रहण ही नहीं करती है ॥२३ ॥
उसके दोष शान्त्यर्थ उपाय अवश्य कर्तव्य है । वार वार खोदकर खेतकी मृत्तिका अन्यस्थानमें स्थापन करै । और उत्तम उपजाऊ जमीन की मृत्तिका खेतमें स्थापन करै । अथवा बहुतसा खात देवै और जल देवै और ऐसी शाख वोवै जो ऊषर की इच्छा करती हों । जैसे तमाखू आदि ॥२४ ॥
अनूपादि भू चिकित्सा कथनम् ।
अनूपा प्यननूपा स्याज्जल मार्गविधानतः ॥
विपाषाणा अपाषाणा तेषा मुद्धरणा द्भवेत् ॥२५॥
यद्वा कच्चरमृत्स्नातिपातना च्छस्यदोत्तमा ॥
तृणजालादिना व्याप्ता क्रियासातत्यमानतः ॥२६ ॥
साऽपि शीघ्रं वापयोग्या यथेष्ट फ़लदा भवेत् ॥
भूमेः परममाहात्म्यं विजानद्भि र्निरूपितम् ॥ २७ ॥
अनूपादि भूमे श्चिकित्सा मुपदिशति ।
अनूपेति विषयकेण । तेषां पाषाणानाम् । विपाषाणा विशिष्टप्रसाराऽपि या तु तृणजालादिना व्याप्ता चिकित्सा च क्रियासातत्यमानतः । द्रागेव खननादिविधिकरणात् तदपि वहुवारमेवेत्यर्थः ,इति तु भूमेः परममहिमविज्ञैः कर्षककर्मपण्डितै रित्यर्थः ॥ २५ ॥ २६ ॥ २७ ॥
तरायी यदि दूर करनी हो तौ जलके मार्ग साफ़ बना देवै जिससे कि जल न स्थित रहै । और विपाषाण (अति पथरीली ) भूमि के पत्थर जो बडे बडे हों निकाल देवै तौ पाषाण रहित हुवी शाख अच्छी पैदा कर सकती है ॥२५॥अथवा खात और शुद्ध मृत्तिका देनेसे उत्तम शस्य देनेवाली होती है । और जो भूमि तृणों (घास आदि ) की जडोंके जाल आदिसे भरी हो उसमें वार २ शीघ्र २ खोद और जोतनेसे शीघ्रही बोने योग्य और यथेष्ट फल देनेवाली होती है ॥२६ ॥ भूमि के परम माहात्म्य के जाननेवाले कर्षा जनों ने कहा है ॥ २७ ॥
भूमहिमा
एवञ्चा राधिता देवी पवमानाधिदेवता ॥
नित्यं शक्तिमती साक्षा न्मातेव परिरक्षति ॥२८ ॥
स्वन्नं वस्त्रं महर्घ्यञ्च रसान् विविधवाहनान् ॥
भूषणानि महत्वञ्च रत्नानि विविधानि च ॥२९ ॥
सेवकेभ्यः स्वभक्तेभ्यः प्रददाति दिवानिशम् ॥
देवेप्सितं पदं नाके भुक्तिं मुक्तिं वसुन्धरा ॥३० ॥
एवं सेविता सती भूदेवी मातेव जननीव रक्षतीति वक्तुमेव मित्यादि त्रिश्लोक माचष्टे ॥२८ ॥
कै स्तत्राऽऽह । स्वन्न मित्यादि नाके स्वर्गे ॥२९ ॥३० ॥
पूर्वोक्त विधि से सेवन की हुवी पवमान अधिदेव वाली भूमि शक्तिवाली नित्यही साक्षात् माताके तुल्य रक्षा करती है ॥२८ ॥ और सुन्दर अन्न ,बढिया २ वस्त्र, अनेक घृत आदि रस ,अनेक सवारी ,आभूषण ,महत्व ,अनेकविधरत्न ,उत्तम यश ,॥२९ ॥ निज भक्त सेवक कर्षक मनुष्यों के लिये रात्रिदिन देती है और देवगण समीहित स्वर्गीय वास ,भोग ,मोक्षको देती है ॥३० ॥
वसुन्धरा रत्नगर्भा बीजप्रसुरहं स्मृता ॥
ददामि सकलान् भोगान् न स्तेयं करवाणि च ॥३१ ॥
इति मद्वचनं स्मृत्वा कर्तव्यः सर्वथोद्यमः ॥
औदासीन्यं न सङ्ग्राह्यं कर्तव्यं परिचारणम् ॥३२ ॥
समीषु र्मां समिच्छन्ति वाञ्छिष्यन्त्यग्रतो जनाः ॥
परं परममर्मज्ञो मम भूतो न विद्यते ॥३३ ॥
वेणुपुत्रमृते येन सुदुग्धा धर्ममूर्तिना ॥
वेत्ति मन्महिमानं य ईशद् भूमान् स भूपतिः ॥३४ ॥
इति दाशरथी कृतिषु कृषिशासने कृषि प्रथमपाद कथनं नाम द्वितीयोऽध्यायः ॥२ ॥
तत्र प्रमाण भूतं वसुन्धरा वाक्य मुपन्यसति । वसुन्धरेति श्लोकचतुष्टयेन । नस्तेयञ्चौर्यं ॥३१ ॥
परिचारणं सेवनम् ॥३२ ॥ जना मनुष्याः अग्र इतोऽग्रे । सार्व विभक्तिक पररूप समीषु रिच्छाञ्चक्रुरिच्छितवन्तः । न च भूतोऽभून्नविद्यते अस्तीति ॥३३ ॥ ऋते विना । मन्महिमानं मम माहात्म्यं वेत्ति स ईषद् भूमान् किञ्चिद् भूमिवान् अपि भवन् भूपतिः भूपसमो भवतीतिभावः ॥३४ ॥ इति नारायणभाष्यसहिते कृषिशासने तत्प्रथमपाद कथनं नाम द्वितीयोऽध्यायः ॥२ ॥
पृथ्वी कहती है कि मैं वसु (रत्नादि ) न्धरा ( धारण करनें वाली ) हूं अतः मुझे रत्नगर्भा कहते हैं और बीज सम्पादन करनेवाली कही जाती हूं । समस्त भोग मैं देती हूं चुराती नहीं हूं ॥३१ ॥ ऐसा यह मेरावाक्य यादकर सर्वथा उपाय कर्तव्य है ।उदासीन होना अच्छा नहीं ,किन्तु सेवा करने योग्य है ॥३२॥ कितने लोग मेरी इच्छा नहीं करते ? अर्थात् सभी करते ही हैं और आगे भी करैंगे , अवश्य ही करैंगे । परन्तु मेरे मर्मोंके जाननेवाला अद्यावधि न हुवा न है ॥३३ ॥ केवल महाराज पृथु के अतिरिक्त , जिस धर्ममूर्तिनें मुझसे अनेक धान्यादि रत्न दुहे अर्थात् प्राप्त किये ,जो मेरे माहात्म्यको जानता है वह किञ्चित् भूमिवाला भी राजा समान होता है ॥३४ ॥
इति राघवभाष्य सहिते कृषिशासने कृषिप्रथम भूपादकथनं नाम द्वितीयोऽध्यायः ॥२ ॥
टीकाद्वयोपेतम्
|| कृषि शासनम् ||
|| तृतीयोध्यायः || [ 3 ]
अथ कृषेः द्वितीय { गौ }पाद कथनम् ||
खननकरणरूपं लाङ्गलं गौर्हयारिः –
सकलकृषिकधीरै र्वान्च्छित न्तत्र मुख्यम् ॥
तदिह चरणभूतं साङ्गवेदागमज्ञैः –
प्रथममभिमतं सद्धेन्व पत्यं प्रवक्ष्ये ॥ १ ॥
अधुना कृषे द्वितीयपादकथनायोपोद्घातयति । खननेत्यादि । खनने भूविदारणे कारणरूपं लाङ्गलं हलं गौर्वृषो हयारिर्महिषश्चेति । तत्र मुख्यंगौ रिति । तदेवेह चरणभूतं कृषिद्वितीयपादरूपं प्रथम मित्यन्वयः । सदुत्तमम् । धेनोरपत्यं पुत्रं गा मित्यर्थः ॥ १ ॥
पृथ्वी के जोतने कर्म में करण रूप हल और बैल ,महिष हैं । यह समस्त कृषि कर्म ज्ञाता जनों को अभीष्ट है । उनमें मुख्य जो यहां चरणभूत अर्थात् दूसरा खेती का गोपुत्र वृषभ जो वेदादि सांग शास्त्रोंके जानने वाले जनोंने उत्तम माना है उसी को प्रथम मैं कहूंगा ॥ १ ॥
गोरक्षा कथनम् ।
विना मातरं पुत्ररत्नं कथं स्या –
त्तथा गामृते वत्सवत्स्यादयश्च ॥
अतो मङ्गला मूलभूताः सुगावः –
सदा रक्षणीये ति वेदोदितंहि ॥ २ ॥
तत्र तावत् तस्या गो र्माहात्म्य मनुवदति । विनेति विशेषकेण । अतोऽस्माध्हेतोः । मङ्गला मङ्गलरूपा ,मङ्गल करणे समर्था इत्याशयः ।अतएव मूलभूताः कृष्यादे र्जगतो जीवनस्य च कारण भूताः । शोभना गावो धेनवः। तत्पालने प्रमाणं निरूपयन् वदति ।हीति। यतः वेदेनोदितं कथितम् ,अर्थात् तत्पालनं वेदो वदतीत्याशयः ॥ २ ॥
माताके विना पुत्र रत्न कैसे हो सकै हैं एवं गौके विना वत्स ,वत्सी ,बैल आदि नहीं होसकै। अतः मङ्गल करण समर्थ समस्त संसार और कृषि आदि की जीवनरूप उत्तम गौ सदैव रक्षणीय हैं ऐसा वेद कहता है ॥ २ ॥
गोमाहात्म्यम् ।
गोष्ठे रमं वत्सयुतं विरूपं –
भूयिष्ठदुग्धं प्रविवोधयुक्तम् ॥
सन्मङ्गलं भद्रगिर न्तृणादं –
सुगोधनं पूर्वतमैः सुरक्षितम् ॥ ३॥
गोष्ठेरमं गोशालानिवासिनम् । विरूपं विविधवर्णात्मकम् । भूयिष्ठदुग्धं वहुक्षीरयुक्तं ।
तथाहि श्रुतिः ” आगावो आगम न्नुतभद्र मक्रन्…आ गावो अग्मन्नुत भद्रमक्रन्सीदन्तु गोष्ठे रणयन्त्वस्मे ।
प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥…” इति ऋग्वेदे मण्डल ६ सूक्त २८
गावोऽस्मद् गृह मागच्छन्तु भद्रं शुभं च कुर्वन्तु । गोशालायां सीदन्तु अस्मासु रणयन्तु रमन्ताम् । पुरुरूपा नानावर्णाः। प्रजावतीः संतानयुताः । इन्द्रार्थं वह्वी र्दिवसान् दुहानः क्षीरं ददत्यो भवेयु रिति तदाशयश्च । किञ्च । प्रकृष्टश्च विशिष्टश्च बोधस्तेन युक्तम् ,तथाच श्रुतिः । अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता । सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥२९॥ ऋग्वेदः सूक्तं १.१६४ ” सोऽयं वत्सः शिङ्केऽव्यक्तशव्दं कुरुते । येन वत्सेन गौर्माता अभीवृताऽऽगत्य वेष्टिता मायुं शव्दं निर्मिमाति । ध्व्सना वधिश्रिता गोशाला माश्रिता । चित्तिभिर्ज्ञानैस्तत्पूर्वकैः कर्मभिर्वामर्त्यं मनुष्यं निहिचकाराऽधःकरोति। विद्युद्भन्ती वहुक्षीरतया विद्योतमाना वंव्रिंस्वरूप मौहत प्रकाशयति । अर्थात् यथाज्ञानविशिष्टा मनुष्या बालस्याऽदन स्तनपानादिदिदाने स्निह्यन्ति ततोऽप्यधिक मिति तदाशयः | संमन्गल मुत्तमं मङ्गलकरणक्षमतया मङ्गलरूप मित्यर्थः । भद्रागिरः वाचोयस्येतितत् ।तथाहि श्रुतिः यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।
भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥ इति ऋग्वेदः सूक्तं ६.२८ हे गावः । यूयं मे दयथा दयध्वे आप्यायनं कुरुथ । तथा कृशञ्चित् क्षीणमपि अश्रिरंचित् अमङ्गलमपि सुप्रतीकं सुन्दराङ्ग कृणुथ । हे भद्रवाचः कल्याण वचनयुक्ता गावो !अस्मद् गृहं भद्रं कृणुथ गोयुक्तं कुरुथ। सभासु यागपरिषत्सु हे गावो युष्माकं बृहत् महत् वयोन्नं उच्यते समवेतं क्रियते सर्वैर्दीर्यत इत्यर्थः। तथा अत्र अत्रिरप्याह । यस्यैकापि गृहे नास्ति धेनुर्वत्सानुचारिणी |मंगलानि कुतस्तस्य कुतस्तस्य तमः क्षयः | अन्यत्रापि तथा गावश्च मातृ वात्सल्यं ब्राह्मणो धान्य संचयः | एतौ यत्र न हीयेते समृद्धे स्तत्र न क्षयः इति तृणं घासं जलंचाऽत्तीति तृणादम् | तथा श्रुतिः प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।इति । हे गावः यूयं प्रजावतीः प्रजावत्यो भवत । सुयवसं शोभनं तृणं रिशन्ती र्भक्षयन्त्यो भवत । सुप्रपाणे सुखेन पातुं योग्य तटाकादौ शुद्धा निर्मलाअपः उदकानि पिवन्तीः पिवन्त्यश्च भवत इति तदर्थः। पूर्वतमैः गौः तत्वज्ञैः मुनिभिरित्यर्थः ।सुरक्षितं नित्यनैमित्तिककर्मतया शोभनप्रकारेण पालित मित्याशयः ॥ ३॥
गोशाला में क्रीडा करने वाले वत्स वत्सी सहित अनेक रूप वर्णों वाला ,अति दुग्धदाता ,मनुष्यों से भी अधिक ज्ञानशील ,उत्तम मङ्गल कारक ,सुन्दर कल्याणकारिणी वाणीवाला ,और तृण जल से निजका निर्वाह करनेवाला उत्तम गोरूप धन प्राचीन गोमाङ्गल्य जाननेवाले महर्षियों ने नित्य नैमित्तिक कर्मानुष्ठान संपादनार्थ भली भांति पाला इस अर्थ में ऋग्वेद के मन्त्र कितनेही प्रमाण रूप सायणभाष्य में से पढ लीजिये ॥ ३॥
समस्त तीर्थामररूपिणी गौः –
सदा पवित्रो भय लोकसाधिनी ॥
विचार्य चेत्थं विवुधै र्गृहीता –
धेनुः पुरा सर्वमनोरथाप्त्यै ॥४॥
समस्ता स्तीर्थानि चाऽमरा देवगणाश्च तद्रूपिणी तद्रूपवती । तथाच।
यस्याः शिरसि ब्रह्मास्ते स्कन्धदेशे शिवः स्मृतः ।
पृष्ठे विष्णुस्तथा तस्थौ श्रुतयश्चरणेषु तु ।
या अन्या देवताः काश्चित्तस्या लोमसु ताः स्थिताः ।
सर्वदेवमयी गौस्तु तुष्येत्तद्भक्तितो हरिः । इति । किञ्च ।
शृङ्गमूले स्थितो ब्रह्मा शृङ्गमध्ये तु केशवः ।
शृङ्गाग्रे शङ्करं विद्यात्त्रयोदेवाः प्रतिष्ठिताः ।
शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।
सर्वे देवाः स्थिता देहे सर्बदेवमयी हि गौः ।
ललाटाग्रे स्थिता देवी नासामध्ये तु षण्मुखः ।
कम्बलाश्वतरौ नागौ तत्कर्णे यौ व्यवस्थितौ ।
स्थितौ तस्याश्च सौरभ्याश्चक्षुषोः शशिभास्करौ ।
दन्तेषु वसवश्चाष्टौ जिह्वायां वरुणः स्थितः ।
सरस्वती च हुङ्कारे यमयक्षौ च गण्डयोः ।
ऋषयो रोमकूपेषु प्रस्रावे जाह्नवीजलम् ।
कालिन्दी गोमये तस्या अपरा देवता स्तथा ।
अष्टविंशतिदेवानां कोटयो लोमसु ताः स्थिताः ।
उदरे गार्हपत्योऽग्निर्हृद्देशे दक्षिणस्तथा ।
मुखे चाहवनीयस्तु चावसाथ्यस्तु कुक्षिषु ।
एवं यो वर्त्तते गोषु ताडने क्रोधवर्जितः ।
महतीं श्रियमाप्नोति स्वर्गलोके महीयते । इति वृद्धपराशरः । इत्थं गोमाहात्म्यं विचार्य विवुधै र्देवै र्विद्वद्वृन्दैश्चेत्युभयत्र वैधानिकैः प्रतिपादितत्वात् । पुरा पूर्वकाले क्षीरोदधिमन्थनसमये । ॥४॥
स्थावर पुष्कर आदि तीर्थ और गंगा आदि नदी एवं चर ब्राह्मण तीर्थ तथा सर्व देवगण रूपिणी . सदा तीनों लोकों में सर्वथा रक्षा करनें वालीं अति पवित्र गौ हैं .ऐसा विचार करही देवगणों ने सर्व मनोरथ पूरणार्थ प्रथम क्षीरसागर से निकलतेही सुरभि को गृहण किया ॥४॥
वृष माहात्म्य कथनम् ।
पश्चाद् द्विजाङ्गीकृत तत्सुतादेः –
शेषं हि पुंवाचक मुत्तमं गवाम् ।
यत्तत्सुसंपादित शस्यतोवै –
विधार्यतेऽदः सकलं चराचरम् ॥५॥
इत्यादि माहात्म्य विचारयत्सु –
देवर्षिवर्येषु पुरा द्रुतं शिवः ।
पूर्णो निरीहोऽपि ललौ बुधेशः –
समस्तलोकैकपतिः शिवापतिः ॥६॥
गोमाहात्म्यातिशयमनूद्येदानीं वृषस्य रक्षण मावश्यक मिति वक्तुन्तावदुपोद्घातयति । पश्चादिति युग्मेन। द्विजै र्ब्राह्मणैरङ्गीकृतश्च तस्या गोः सुतश्चादिःसुता च तस्मात् । गवान्धेनूना मुत्तमं श्रेष्ठम् । श्रेष्ठत्वे हेतुमाह।यत्तदित्यादि । शस्यतः अन्नादिना । विधार्यते पाल्यते। तथा च वृहत्पराशरः
उक्षाणो वेधसा सृष्टा सस्यस्योत्पादनायच च ।
तैरुत्पादितशस्यैश्च सर्वमेतद्विधार्यते ।
यश्चैतान् पालयेत् यत्नाद्वर्द्धयेच्चैव यत्नतः ।
जगन्ति तेन सर्वाणि साक्षात् स्युः पालितानि च ।
यावद्गोपालने पुण्यं प्रोक्तं पूर्वै र्महषिभिः।
उक्ष्णां च पालने पुंसां फलं दशगुणं भवेत् ।
जगदेतद्धृतं सर्वमनडुद्भिः सचराचरम् ।
वृष एव ततोरक्ष्याः पालनीया प्रयत्नतः ।
धर्मोऽयं भूतले साक्षाद्ब्रह्मणा ह्यवतारितः ।
त्रैलोक्यं धारणायालमन्नानाञ्च प्रसूयते । इत्युक्तं माहात्म्यं विचारयन्तीति तेषु । वृषभं ललौ गृहीतवान् ।
॥५॥६॥
पश्चात् उसके वत्सी वत्स जब ब्राह्मणादि प्रजानें गृहण किये तौ शेष वृषभ को देख और उसके कि , जिसके उत्पन्न किये अन्न तृण आदि से संपूर्ण यह संसार पालित किया जाता है इत्यादि ,माहात्म्य को विचारते हुवे
देवता, ऋषि ,दैत्य ,गंधर्वपतियों में से शीघ्र ही उठ कर पूर्ण और इच्छा रहित देवेश्वर चराचर जगत्पति पार्वतीश्वर प्रथम ही ग्रहण करलेते हुवे ॥५॥६॥
इत्येत मत माज्ञाय पूर्वे ब्रह्मर्षयस्सदा ॥
जगृहुः पालयामासुर्गा वत्सान् वृषभाननु ॥७॥
अतएवमहाप्राज्ञः परमर्षिः पराशरः ॥
धर्म्यकृषिक्रियाविद्भ्यो वृषसंरक्षण ञ्जगौ ॥८॥
उक्ताख्यायिकया यत्सिद्धन्तदुच्यते । इत्येतमिति । पूर्वे ब्रह्मर्षयो वशिष्ठादयः ।गा धेनूः । वृषभान् बलीवर्दान् । अनु पश्चात् । वत्सपालनपश्चात्तमेवैधमानं बलीवर्दरूपेणेति भावः ॥७॥ अतएवास्माद्धेतोरेव। वृषसंरक्षणं बलीवर्दपालनम्।जगौ कथितवान्॥८॥
इसी मत को जान वशिष्ठादि ब्रह्मर्षि सदा गौऔंका संग्रह पालन करते हुवे पश्चात् उनके बढ़ते हुवे वत्सों का बलीवर्द रूपमें पालन करते हुवे ॥७॥ इसी कारण से अति पण्डित परमर्षि श्री पराशर जी ने धार्मिक कृषिकर्मज्ञों के लियें वृष पालन का उपदेश किया ॥८॥
किञ्चित्तदेव चोद् धृत्य लिख्यतेऽत्र निशामय ॥
अनायत्तानि घासानि भक्षयन्ति स्वकामतः ॥९॥
भ्रमित्वा भूतलं दूर मुक्षाणः कै र्न पूजिताः॥
उत्पादयन्ति सस्यानि मर्दयन्ति वहन्ति च ॥१०॥
आनयन्ति दवीयस्त दक्षतः कोऽधिको भुवि ॥
अतएव पुरा विप्रैः पूजिता वर्धिताः सदा ॥११॥
किञ्चित्तदेव तद्ग्रन्थत एव किमप्युधृत्याऽत्र लिख्यते तदिति निशामय जानीहि। अनायत्तानि सर्वैर्निष्प्रयोजनतया त्यक्तानि । स्वकामतः स्वेच्छया ॥९॥ ॥१०॥दवीयो दूरम् । तत्तस्मात् । उक्षतो वृषात् ॥११॥
अतः किञ्चित् उनहीं के ग्रन्थ से उद्धार कर यहां लिखा जाता है ऐसा जानिये । दूर २ जंगल में जाकर ,निष्प्रयोजन जान जिसको सर्व प्रजा त्याग देवै ऐसे घास को निजइच्छासे खाते हैं ॥९॥ ऐसे वृषभों का कौन सत्कार नहीं कर सकता है जो खेती को जोतकर ,वो कर ,उत्पन्न करैं और पुनः खलान में मर्दन
(उसके ऊपर चलने से ) करैं पुनः उठाके ले चलें ॥१०॥ और दूर स्वामीके गृहको अन्न ले आवें पुनः ऐसे बैलोंसे भूमिपर कौन अधिक है । इसीसे पूर्व विप्रोंनें पूजित किये और अन्नादिसे सदा पुष्टि पूर्वक बढाये ॥११॥
स्कन्धेन पृष्ठेन वहन्ति भारं
नोक्षन्ति किञ्चिद्धनिकस्य दुःखम् ॥
स्वीयेन देहेन परस्य जीवान्
पुष्यन्ति रक्षन्ति च वर्धयन्ति ॥१२॥
नोक्षन्ति न ददति । जीवान्प्राणान् प्राणिनो वा ॥१२॥
और स्वामी को किञ्चित् भी दुःख नहीं देते हुए निज देह से अन्य जीवोंके प्राण संरक्षण करते हैं और पुष्ट करते बढाते हैं ॥१२॥
धन्यास्तु गावो वसुधातलेऽस्मिन् –
विभ्रत्यमुं गोवृषगर्भभारम् ॥
भारः पृथिव्या दश ताडिताया –
एकस्य चोक्ष्णो ह्यपि साधुवाच ॥१३॥
एकेन दत्तेन वृषेण येन-
भवन्ति दत्ताः शतसौरभेय्यः ॥
माहेय्यपीयं धरणी समाना –
तस्मा द्वृषा त्पूज्यतमोऽस्ति नान्यः ॥१४॥
उत्पाद्य शस्यानि तृणान्यदन्ति –
तान्येव भूयः सततं वहन्ति ॥
न भारखिन्नाः प्रवदन्ति किञ्चि –
दहो वृषै र्जीवति जीवलोकः ॥१५॥
ता इति शेषः। गौश्च वृषभश्च तयो समेत्य भारम् । एकस्यो क्ष्णो वृषस्य च दश ताडिता स्युः पृथ्व्याः समो भारो भवतीति साधुवाचो भवतीत्यर्थः । पृथिव्या वृषस्यच पूर्णोपमात्वम् । तत्राऽपि गोर्महिम्नश्चाधिक्यमाह । दशवारं धरणिजकृत्स्नजीवान् ताडये देकवारञ्च वृषं तत्फलं सम मिति भावः । ॥१३॥ तद्दानेऽधिक महिमान माह। एकेनेति । शतसौरभेय्यः शतं गावः ॥१४॥ भूयो वहुवारम् । अहो आश्चर्ये ॥१५॥
भूमिपर गौ धन्य है जो इस वृषभ के गर्भभार को धारण करती है । कारण भूमिवासी जीव मात्रोंके दश वार मारने से जितना भार ( पाप ) हो उतना ही एक वृष के मारनें का भार होता है ऐसा साधुवक्ता मुनि कहते हैं ॥१३॥ जिस एक वृष के देने से सौ गोदान का फ़ल होता है माहेयी ( मृण्मय मूर्तिबाला ( मिट्टी की आकृति बाला ) भी यह भूमि सम होता है तिससे वृष से अधिक पूजनीय अन्य नहीं है ॥१४॥ जो कि खेती पैदा कर तृण खाते और उन्ही अन्न तृणोंको वार २ निरन्तर स्कन्ध और पींठपर लेकेचलते हैं भारजनित श्रमसे खिन्नहुवेभी कुछ नहीं कहते हैं अत्याश्चर्य यह है कि बैलोंसे ही जीवलोक जीवन धारण करता है ॥१५॥
नासाभेदन कथनम् ।
चतुर्थेव्दे तृतीयेव्दे यदा वत्सोदृढो भवेत् ॥
तदा नासाऽस्य भेत्तव्या नैव प्राग् दुर्बलस्य च ॥१६॥
नासाभेदक कील मान कथनम् ॥
नासाभेदन कीलस्तु खादिरो वाथ शैम्शपः ॥
द्वादशाङ्गुलकः कार्य स्तज्ज्ञै स्तैर्नस एव सः ॥१७॥
अथ नासाभेदनप्रकार माह । चतुर्थे व्दे इति युग्मेन। अव्दे वर्षे। चतुर्थ तृतीय वर्ष सः न तस्याऽपि दुर्बलस्य । नच नियतकालात्प्राक् पूर्वम् ॥१६॥
तज्ज्ञैर्नासाभेदन प्रकारविज्ञैः ॥१७॥
चौथे या तीसरे वर्ष में जब वत्स (बछरा ) दृढ ( हृष्ट पुष्ट निरोग ) होवै तब नासिका भेदन करने योग्य है और तीन वर्ष की अवस्था से पूर्व भी नहीं और दुर्बल रोगी की भी नहीं ॥१६॥ नासिका भेदन करने का कील या तो खैर के काष्ठ का हो या शींशोंके काष्ठ का बारह अंगुल का सचिक्कण तीक्ष्ण अग्रभाग बाला होवै। और जो नासिका भेदन करना जानता हो वही उसकी नासिका भेदन करै ॥१७॥
शाला लक्षण कथनम् ।
शालां द्विजेन्द्रा वृष गो हयाना
न्तां याम्यदिग्द्वारवतीं विदध्यात्
सौम्याककुब् द्वारवतीं सुशोभा
न्तेषां शमिच्छन्ध्रुव मात्मनश्च ॥१८॥
अथ गोशाला निर्म्माणप्रकार माह । साला मिति विशेषकेण । वृष गो हयानां बलीवर्द धेनु घोटकानां। याम्यादिशि दक्षिणदिशि द्वारोऽस्या विद्यत इति तादृशीं । वा सौम्याककुब्द्वारवतीम् उत्तरदिग्द्वाराम्। तेषां पशूनाम्। शं सुखम् अर्थात् पशुसुखदात्री मात्मकल्याण कारिणीं चैतादृशीं शालां कुर्यात् । तद्यथा
गोशाला सुदृढा यस्य शुचिर्गोमयवर्जिता ।
तस्य वाहा विवर्धन्ते पोषणैरपि वर्जिताः ॥ (८७)
शकृन्मूत्रविलिप्ताङ्गा वाहा यत्र दिने दिने ।
निःसरन्ति गवां स्थानात् तत्र किं पोषणादिभिः ॥ ८८
पञ्चपञ्चायता शाला गवां वृद्धिकरी स्मृता ।
सिंहस्थाने कृता सैव गोनाशं कुरुते ध्रुवम् ॥ ८९
सिंह गेहर्पतौ चैव गोशालां कुरुते यदि ।
प्रमादान्मन्द बुद्धित्वाद् गवां नाशो भवेत्तदा ॥ ९०
तण्डुलानां जलं चैव तप्त मण्डं झषोदकम् ।
कार्पासास्थितुसंचैव गोस्थाने गोविनाशकृत् ॥ ९१
कांस्यं कांस्योदकं चैव तप्तमण्डं झषोदकम् ।
कार्पासशोधनं चैव गोस्थाने गोविनाशकृत् ॥ ९२
संमार्जनीं च मुसलमुच्छिष्टं गोनिकेतने ।
कृत्वा गोनाशमाप्नोति तत्राजबन्धनाद् ध्रुवम् ॥ ९३
गोमूत्रजालकेनैव यत्रावस्करमोचनम् ।
कुर्वन्ति गृहमेधिन्यस्तत्र का वाहवासना ॥ ९४
विलब्धिं गोमयस्यापि रविभौमशनेर्दिने ।
न कारयेद् भ्रमेणापि गोवृद्धिं यदि वाञ्छति ॥ ९५
वारत्रयं परित्यज्य दद्यादन्येषु गोमयम् ।
शनिभौमार्कवारेषु गवां हानिकरः स्मृतः ॥ ९६
श्लेष्म मूत्र पुरीषाणि पङ्कानिच रजांसिच ।
न पतन्ति गवां यत्र तत्र लक्ष्मी स्थिरा भवेत् ॥ ९७
सन्ध्यायां तु गवां स्थाने दीपो यत्र न दीयते ।
स्थानं तत्कमलाहीनं वीक्ष्य क्रन्दन्ति गोगणाः ॥ ९८
इति पराशर पद्धतौ ॥१८॥
हे विप्रों ! वृषभ ,गौ और घोड़े आदि पशुऔंकी शाला बनाने योग्य है ;
परन्तु दक्षिण दिशामें द्वारवाली अथवा उत्तर दिशामें द्वारवाली सुशोभित बनावै अर्थात् पवनके निकलने और आनेके स्थान झरोखे आदि होवैं और सदा तृण गोमय आदि मलीन वस्तु कि , जिससे पशुऔंको हानि पहुंचे ,जैसे माँड़ हड्डी आदिसे रहित और प्रकाश वाला हो और रात्रि में दीप आदि से सुप्रकाशित हो और एक पशुके वास्ते पांच हाथ से चौरस से कम नहीं होवै किन्तु अधिक हो , शाला सम भूमिवाली हो सदा खुस्की सहित हो और सुन्दर शुद्ध खानेके पात्र अथवा स्थान वाली हो ऐसी शाला बनावै जो कि , पशुऔंको और अपने लिये भी सुख देने वाली हो ॥१८॥
तत्र बन्धन नियम माह ।
गावो वृषा वा गज बाजिनो वा –
परेऽपि सर्वे पशवो द्विजेन्द्राः ॥
याम्यामुखा उत्तरदिङ् मुखा वा –
नान्याशका स्ते खलु बन्धनीया ॥१९॥
तत्र बन्धन नियम माह । गाव इति। परेऽन्ये महिषाजादयः । नान्याशका अन्यदिङ् मुखा नेत्यर्थः॥१९॥
हे विप्रों ! उस शालामें गौ ,वृषभ ,हस्ती ,घोड़ा ,महिष महिषी ,बकरी ,भेड ,छेरी ,आदि पशु जातीय जीव समस्तही दक्षिण दिशाको अथवा उत्तर दिशाको मुख कर बांधने योग्य हैं अन्य दिशा पूर्व-पश्चिमाभिमुख कभी भी नहीं बांधने योग्य होते हैं ॥१९॥
शालाप्रवेश कथनम् ।
शालाप्रवेशे वृषागो पशूनां –
राजाऽपि यत्नाद्गज बाजिनां च ।
होमञ्च सप्तार्चिषि शास्त्रयुक्त्या –
कुर्या द्विधिज्ञो द्विज पूजनञ्च ॥२०॥
अधुना शाला प्रवेश काले शान्तिः कर्तव्या इत्याह शालेति।सप्तार्चिषि वन्हौ। प्रवेश मुहूर्तं यथा ।
पूर्वात्रयं धनिष्ठा च इन्द्राग्निसौम्यवारुणाः ।
एते शुभप्रदा नित्यं गवां यात्राप्रवेशयोः ॥
उत्तरात्रय रोहिण्यां सिनीवाली चतुर्दशी ।
पुष्यश्रवणहस्तेषु चित्रायामष्टमीषु च ॥
गवां यात्रां न कुर्वीत प्रस्थानं वा प्रवेशनम् ।
पशवस्तस्य नश्यन्ति ये चान्ये तृणचारिणः ॥
अर्कार्किकुजवारेषु गवां यात्राप्रवेशयोः ।
गमने गोविनाशः स्यात् प्रवेशे गृहिणो वधः ॥
इति पराशर पद्धतौ ॥२०॥
शुभ मोहूर्त में वृषभ ,गौ , पशु ,गज ,घोड़ाऔंको शालामें प्रवेश करनेसे पूर्व राजा भी अग्निमें हवन शास्त्रयुक्तिसे करै और विधिज्ञाता जन ब्राह्मणका पूजन करै ॥२०॥
गो प्रस्थानयात्रा प्रवेश मुहूर्तं चक्रम् ।
पूर्वा फ़ा . पूर्वाषा .पूर्वा भा .ध .श .वि .मृ . | यात्रा प्रवेशे शुभ नक्षत्र |
उत्तरा फ़ा .उत्तरा षा .उत्तरा भा .रो .ह. चि .श्र .रे . | प्रस्थान यात्रा प्रवेशे वर्ज्य |
तिथि ८,१४ ,१५ , वार शनि .रवि .मंगल | वर्ज्य वार तिथयः |
गो वृषाणां शुभाशुभ लक्षण कथनम् ।
पराशरो महाप्राज्ञो बृहद्रथाय प्रोक्तवान् ।
गोलक्षण न्तदेवाऽत्र समासेन निवोधत ॥२१॥
अधुना गोवृषाणां शुभाशुभ लक्षणानि निरूपयन्प्रमाणयति । पराशर इति।
” प्रोक्तवांश्च बृहद्रथे ” इत्यपि पाठः । तच्च बृहत्पाराशर संहितायां एकषष्ठितमेऽध्याये विलोकनीयम् । समासेन संक्षेपेण ॥२१॥
अति बुद्धिमान् पराशर मुनिने राजा बृहद्रथके लेये जो गो और वृषभों के शुभ अशुभ लक्षण कहे हैं वे ही यहां संक्षेप से सुनिये ॥२१॥
सास्राविल रूक्षाक्ष्यो –
मूषकनयनाश्च नशुभ प्रदा गावः ।
प्रचलच्चिपिट विषाणा –
करटा: खरसदृश वर्णाश्च ॥२२॥
दश सप्त चतुर्दन्त्यः –
प्रलंवमुण्डानना विनतपृष्ठा श्च ।
ह्रस्वस्थूल ग्रीवा –
यवमध्या दारितखुराश्च ॥२३॥
शयावाऽतिदीर्घ जिह्वा –
गुल्फ़ै रति तनुभि रति वृहतिर्वा ।
अतिककुदाः कृशदेहा –
नेष्टा हीनाधिकाङ्ग्य श्च ॥२४॥
अशुभ लक्षणं वदति । सास्रेति विशेषकेण । स्पष्टम् ।
॥२२॥ ॥२३॥ ॥२४॥
अश्रुऔंसे मलीन और रूक्ष नेत्रों वाली ,तथा मूषक नेत्र सम नेत्रों वालीं और हिलते तथा चिपटे श्रृंगोवाली एवं निन्द्य वस्तु खानेवाली या शिर से बोलनेवालीं गदहेके समान वर्णवालीं गौ शुभदाता नहीं होती है ॥२२॥ १०,७ ,४ दांतोवालीं अति लम्बे मुण्ड और मुखवालीं उन्नत पृष्ठवालीं ,छोटी या स्थूल ग्रीवा अथवा जवके ( जौ के ) समान मध्य भाग वालीं , फटे खुरों वालीं भी शुभ फ़लदाता नहीं होती है ॥२३॥ श्यामश्वेत रंगवालीं अति लम्बी जिह्वा वालीं अति बडी या अति छोटी चरण ग्रन्थियोंवालीं और ठाठि और कृश शरीरवालीं तथा अधिकाङ्गी एवं हीनाङ्गी भी गौ अच्छी नहीं होती है ॥२४॥
अशुभ वृष कथनम्।
वृषभोप्येवं स्थूलातिलंववृषणः शिराततःक्रोडः ।
स्थूलशिराचितगण्ड स्त्रिस्थानं मेहते यश्च ॥२५॥
मार्जाराक्षः कपिलः करटो वा नशुभदो द्विजस्येष्टः ।
कृष्णोष्ठ तालु जिह्वः श्वसनो यूथस्य घातकरः ॥२६॥
गवा मशुभ लक्षण मुक्त्वाऽधुना वृषस्याऽप्यशुभ लक्षणं वक्ति ।
वृषभ इत्यादि। पञ्चभिः श्लोकैः । त्रिस्थानं त्रिवारंधाराम् । शिरातत क्रोडो नाडिका लिप्तोदरः । स्थूल शिराचित गण्डः पृथुल नाडिका नद्ध कपोलभागः॥२५॥
श्वसनोऽतिश्वासादान त्यागतत्परः ॥२६॥
ऐसे ही वृषभ के भी अशुभ लक्षण हैं वे लिखे जाते हैं । स्थूल और अति लम्बे लम्बे पोतों वाला नसों से लिपटे हुए शरीर वाला ,और मोटी मोटी नाडियों से भरे हुए गालों वाला तथा तीन तीन स्थान पर मूत्र त्यागने वाला ॥२५॥ और मार्जार नयन, कपिलवर्ण, वा काक सम वर्णवाला भी ब्राह्मणों को सुभदाता नहीं होता है । और जिसके काले ओष्ठ, तालु , जिह्वा होवैं और वार २ श्वास त्यागनें वाला या श्वसन नामा वृष समुदाय का नाश करता है ॥२६॥
स्थूल शकृन्मणि श्रृंङ्गः सितोदरः कृष्णसारवर्णश्च ।
गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥२७॥
स्थूल शकृन्मणि श्रृंङ्गो वृहद् गुदा विषाणः ॥२७॥
स्थूल गुदा और शृङ्गोंवाला श्वेत उदर और विचित्र वर्ण वाला ,यदि निजगृह में भी जन्मा होवै तौ भी त्याज्य है कारण वह वृष समुदाय नाशक होता है ॥२७॥
श्यामाक पुष्प चिताङ्गो भस्मारुणसन्निभो विडालाक्षः ।
विप्राणा मपि न शुभं करोति वृषभः परिगृहीतः ॥२८॥
ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः ।
कातर नयना हीनाः पृष्ठतश्च ते न भारसहाः ॥२९॥
समा अन्नके बालि के सम चिते हुए अङ्गों वाला ,और भस्मके सम अरुण ,
विडाल नयन लिया हुवा ब्राह्मणोंको भी शुभ नहीं करता है ॥२८॥ और जो वृष कीचडमें मग्न चरणोंके उद्धारने के तुरन्त वाद चलने के समय खुरों को उठा उठा कर चलैं तथा कृश ग्रीवा वाले ,कायर नेत्रों वाले ,पींठसे हीन होवैं वे भार सहनशील नहीं होते हैं ॥२९॥
शुभ वृष कथनम् ।
मृदु संहत ताम्रोष्ठा स्तनुस्फिज स्ताम्र तालु जिह्वाश्च ।
तनु हृस्वो च्च श्रवणाः सुकुक्षयः स्पष्ट जन्घाश्च ॥३०॥
आताम्र संहत खुरा व्यूढोरस्को वृहत्ककुद्युक्ताः ।
स्निग्ध श्लक्ष्ण तनुत्वग्रोमाण स्ताम्र तनुशृङ्गाः ॥३१॥
तनुभूस्पृग्वालधयो रक्तान्तविलोचना महोच्छ्वासाः ।
सिंहस्कन्धा स्त्वन्वल्प कंवलाः पूजिताः सुगताः ॥३२॥
अधुना वृषभ शुभ लक्षणान्याह। मृद्विति दिग्भिः पद्यैः॥३०॥३१॥३२॥
कोमल मिले हुये लाल वर्णवाले ओष्ठ और छोटे छोटे चूतड ,लाल तालु – जिह्वा पतले छोटे २ ऊंचे कान , सुन्दर कुक्षि , खुली जङ्घा ॥३०॥ कुछ लाली लिये हुये खुर , मांससे भरी हुवी छाती ,बड़ी ठाठी ,चिकने चमकदार छोटे २ पतले २ त्वचा – रोम ,तथा ताम्र वर्ण के और पतले छोटे शींग ॥३१॥ पतली भूमि स्पर्श करनेवाली पुच्छ , किञ्चित् रक्त कोयोंदार नयन ,अति श्वास (दम) अर्थात् दमकश ,सिंह जैसे कन्धे , पतले और कम रोमोंवाले सुन्दर गमन शील इन उक्त लक्षणोंवाले वृषभ उत्तम होते हैं ॥३२॥
वामा वर्तै र्वामे दक्षिणपार्श्वे च दक्षिणावर्तैः ।
शुभदा भवन्त्यऽनुडुहो जन्घाभि श्चैणकानिभाभिः॥३३॥
वैडूर्य मल्लिकाबुद्वुदेक्षणाः स्थूल नेत्र चर्माणः।
पार्ष्णिभि रस्फ़ुटिताभिः शस्ताः सर्वेऽपि भारवहाः ॥३४॥
घ्राणोद्देशे सवलि र्मार्जारमुखः सितश्च दक्षिणतः ।
कमलोत्पलकाभाक्षः सुवालधि र्वाजितुल्यजवः ॥३५॥
लम्वै र्वृषणै र्मेषोदरश्च सङ्क्षिप्त वङ्क्षणक्रोडः ।
ज्ञेयो भाराध्वसहो जवे श्वतुल्य श्च शस्तफलः ॥३६॥
अनुडुहो वृषभाः। ऐणकानिभाभि र्मृगजङ्घा सदृशाभिः॥३३॥३४॥
कमलोत्पलकाभाक्षः कमलनयनः । सुवालधि स्सुपुच्छः ॥३५॥
शस्तफलः श्रेष्ठफलदः ॥३६॥
वामाङ्गमें वाम बाजूको घूमते हुए ,दक्षिणाङ्गमें दक्षिण बाजू घूमते हुए भोरें होवैं और मृगकी जंघा सी जंघाऔंवाले बलीवर्द ( बैल ) उत्तम फल दाता होते हैं॥३३॥
वैडूर्य और चमेली की कली ,जलके बबूलेके भांति नयन और स्थूल नेत्रों और चाम वाले तथा मांससे दवी हुई पिणुरी ( पाद पश्चाद्भाग ) वाले संपूर्ण वृष बोझा ले चलने में समर्थ होते हैं ॥३४॥ जिसके नासिका स्थानपर बली पड़ती हों ,मार्जार मुखाकार मुख और दाहिना भाग श्वेत तथा कमल दलसम नयन ,सुन्दर पुच्छ हों वह वृष चलनेमें घोड़ेके सम
वेग वाला होता है ॥३५॥ जिसके लम्बे पोते ,मेढ़ा जैसा उदर ,खिचे हुए वङ्क्षण( ऊरु सन्धि ) और भुजान्तर हों वह भी वृष बोझा और मार्ग ,और चलनेमें घोड़ेके सम पराक्रमी शुभ फलदाता होता है ॥३६॥
सितवर्णः पिङ्गाक्ष स्ताम्रविषाणेक्षणो महावक्त्रः।
हंसो नाम शुभ फलो यूथस्य विवर्धनः प्रोक्तः ॥३७॥
भूस्पृग्बालधि राताम्रवङ्क्ष्णो रक्तदृक् ककुदी च ।
कल्माषश्च स्वामिन मचिरात्कुरुते पतिं लक्ष्म्याः ॥३८॥
योवा सितैकचरणः यथेष्टवर्णश्च सोऽपि शस्तफलः।
मिश्रफलोऽपि ग्राह्यो यदि नैकान्त प्रशस्तोऽस्ति ॥३९॥
तस्य हंस इति नाम ॥३७॥ भूस्पृग्बालधि र्भूमि पर्यन्तावलम्बि पुच्छवान् । सकल्माष नामा चित्रवर्णो वा ॥३८॥
श्वेत वर्ण ,पिंगनेत्र ,अथवा लाल ताम्रसे शींग और नयन ,महामुख ,वाला वृष हंस नामा शुभ फ़ल दाता निज वृष वर्ग के बढानेवाला होता है ॥३७॥ भूमितक लटकती हुई पुच्छ ,किंचित् लाल ऊरूसन्धि ,लाल नयन , बड़ी ठाठी , वाला चित्रवर्णका कल्माष नामा वलद शीघ्रही निज स्वामीको लक्ष्मी पति बनाता है ॥३८॥ और जिसका एक चरण श्वेत हो और यथेष्टवर्णवाला हो वह भी उत्तम फल दाता होता है । यदि शुभ लक्षण युक्त न मिलै तो मिश्र लक्षणों वाला भी लेलेना योग्य कहा है ॥३९॥
गवां शुभाशुभ लक्षण कथनम् ।
अथ धेनो रिङ्गितैश्च प्रोच्यते यच्छुभाशुभम् ।
तदेव वृषभाणाञ्च दिष्टं गोशास्त्रचिन्तकैः॥४०॥
गावो दीनाः पार्थिवस्याऽशिवाय –
पादैर्भूमिं कुट्टयन्त्य श्च रोगान् ।।
मृत्युं कुर्वन्त्यश्रु पूर्णायताक्ष्यः –
पत्युर्भीता स्तस्करानाह्वयन्त्यः॥४१॥
अथेङ्गितैः शुभाशुभ फलकान्वृषानाह । अथेति चतुर्भिः पद्यैः। इङ्गितै श्चेष्टाभिः
॥४०॥ अशिवाय दुःखाय ॥४१॥
चेष्टाऔंसे जो गौऔंका शुभाशुभ फ़ल कहा जाता है वही बैलोंका गोलक्षणज्ञों ने कहा है ॥४०॥ भूप दुःखार्थ गौ दीन होतीं हैं । खुरों से भूमि को कूटती हुवी लोगों को सूचित करतीं हैं । रोतीं हुवीं मृत्यु करतीं हैं । भयभीत हुवीं पतिके गृहमें चौरोंको बुलातीं हैं ॥४१॥
अकारणे क्रोशति चेदनर्थो –
भयाय रात्रौ वृषभः शिवाय ॥
भृशं निरुद्धा यदि मक्षिकाभि –
स्तदाऽऽशुवृष्टिं सरसाऽऽत्मजैर्वा ॥४२॥
आगच्छन्त्यो वेश्म वम्भा रवेण –
संसेवन्त्यो गोष्ठवृद्ध्यै गवांगाः॥
आर्द्राङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टा –
धन्यागावः स्यु र्महिष्योऽपि चैवम् ॥४३॥
अकारणे प्रयोजन मन्तरा । क्रोशति रवं करोति ॥४२॥ लेहानादिना गाः संसेवन्त्यः इत्यन्वयः॥४३॥
विना प्रयोजन यदि पुकार करै तौ अनर्थ जानना भयार्थ, और यदि वृषभ पुकारै तौ कल्याण जानना यदि मक्षिकाऔंसे अत्यन्त दुःखित हों तौ और निज संतान से प्रेमवती हों तौ भी शीघ्रही वर्षाकी सूचना करै ॥४२॥ गृह ( गोशाला ) में आने के समय वम्भा करतीं हुवीं आवें और गो मध्य गौऔंकी सेवा अर्थात् निजसे अन्यके अन्गों को स्पर्श या चाटना आदि करैं तौ गौशालाकी वृद्धि होवै और भीगेसे अङ्गोंवाली प्रसन्न रोमोंवाली ,प्रसन्न मूर्तियोंवाली गौ और महिषी ( भैंस ) भी ऐसीही हौवैं तो धन्य ( श्रेष्ठ ) होतीं हैं ॥४३॥
वृषाणां ब्राह्मणादि जाति कथनम् ।
योऽप्यस्त्यत्र विशेषश्च श्रेयसे नः स कथ्यते ॥
गावः कृतयुगे सृष्टाः स्वयमेव स्वयम्भुवा ॥ ४४॥
ब्रह्म क्षत्रिय विट् शूद्रा जाति भेदै श्चतुर्विधाः॥
ब्राह्मण वृष कथनम् ।
शुक्लाङ्गा श्शुचयोऽक्रुद्धा मृदवः शुद्धचेतसः॥४५॥
अल्पाशिनो वहुबला वृषभा ब्रह्मजातयः॥
क्षत्रिय वृष कथनम् ।
रक्ताङ्गाः क्रोधना स्तीक्ष्णा श्चञ्चला वहुभोजनाः॥४६॥
सुखिनः क्षत्रिया ज्ञेया वृषभा बलवत्तराः ॥
वैश्य वृष कथनम् ।
पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिनः ॥४७॥
यदृच्छा भोजिनः क्षीणा वृषभा वैश्यजातयः
शूद्र वृष कथनम् ।
कृष्णाङ्गा क्रूरहृदया अपवित्राः सदाशिनः ॥४८॥
मनुष्यों के सुखार्थ जो कुछ विशेषता है वहभी कही जाती है ।सत्ययुगमें ब्रह्माजीने आप ही गौ ( बैल ) की सृष्टि की ॥ ४४॥ ब्राह्मण – क्षत्रिय -वैश्य – शूद्र जातिभेदसे ( बैल )चार प्रकार के रचे । उनके लक्षण कहते हैं । जो शुक्लाङ्ग ,पवित्र ,क्रोधहीन ,कोमल ,शुद्धचित्त ॥४५॥ अल्पभोजन ,वहुबलवाले हौं वे ब्राह्मण जातीय बैल जानने और लालअङ्ग,क्रोध ,तीक्ष्ण स्वभाव ,चंचल ,बहुत भोजन , ॥४६॥ सुखी ,अधिक बल वाले होवैं वे क्षत्रिय जातीय वृष जानने । पीतअङ्ग ,कोमल ,और शुद्ध- क्रोधहीन स्वभाव ,भार उठानेवाले ॥४७॥ इच्छापूर्वक भोजन करनेवाले और कृश शरीरवाले वृषभ वैश्य जातीय जानने । और कृष्णवर्ण , क्रूरचित्त ,अपवित्र,सदा भोजन करनेवाले ॥४८॥
वृहद् वृषण रोषाश्च वृषभाः शूद्र जातयः ।
द्विजाति वृष कथनम् ।
द्वयो र्लक्षण संयोगा द्द्विजाति र्वृषभो भवेत् ॥४९॥
बड़े पोते और क्रोधवाले वृषभ शूद्र जातीय जानने और दो प्रकारके लक्षणों के संयोगसे दो जाति का वृष होता है ॥४९॥
वात्स्यस्तु त्रिविधान्प्राह तदप्यत्रैव गद्यते ।
पृथ्वीतले समुत्पन्ना गजाश्वा ये चतुष्पदा ॥५०
गुणत्रय विभेदेन तेषां भेदत्रयं भवेत् ।
एतन्मतानुसारेण भोजः प्राह महीपतिः ॥५१ ॥
सात्विक वृष कथनम् ।
ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि ।
वह्वाशिन स्स्वल्परोषा स्ते वृषाः सात्विकाः स्मृताः॥५२॥
राजस वृष कथनम् ।
व्यक्ताव्यक्तरुषः शुद्धा दृढा भारवहाः शुभाः ।
वह्वाशिनो वहुबलास्ते वृषा राजसाः स्मृताः ॥५३॥
तामस वृष कथनम् ।
विवर्णा विकृताङ्गाश्च निर्बलाः स्वल्पभोजिनः।
अपवित्रा बृहद्रोषा स्ते वृषा स्तामसा मताः ॥५४॥
द्विगुण वृष कथनम् ।
लक्षणद्वय संवन्धा द्द्विगुणो वृषभो भवेत् ।
त्रिगुण वृष कथनम् ।
त्रिलक्षण समावेशात् त्रिगुणः स वृषाधमः ॥५५॥
वात्स्यऋषि तीन प्रकार के कहते हैं वह भी मत भी यहां लिखा जाता है। भूमिपर जो गज अश्व आदि उत्पन्न हुए हैं वे त्रिगुणात्मक जगत होनेसे तीन प्रकारके हैं । इसी मतके अनुसार भोजराजाने निज कल्पतरु ग्रंथ में लिखा है ॥ ५०॥ ५१॥ जो श्वेत ,पवित्र ,शुद्ध ,अति भार ले चलैं ,बहुत भोजन ,थोडे रोष वाले सात्विक वृष ॥ ५२॥ कभी प्रकट कभी अप्रकट रोष और शुद्ध चित्त ,दृढ देह ,बोझा उठानेवाले, उत्तमाङ्ग ,बहुत भोजन ,बहुत बल वाले वृष राजस कहे हैं ॥५३॥ विचित्र वर्ण ,विकृत शरीरावयव ,निर्बल ,स्वल्पभोजन ,अपवित्र ,अतिरोष वाले वृषभ तामस प्रकृति के होते हैं ॥५४॥ और दो प्रकारके लक्षणोंके संबन्धसे दो गुणवाला वृष होता है और तीन प्रकारके लक्षणोंके संबन्धसे तीन गुणवाला वृषभ खोटा होता है॥५५॥
गुणा स्तेषां प्रवक्ष्यामि शुभाशुभ प्रबोधतः ।
नीलः शुभो ध्वजो वाम क्षेमो भद्रः शिवः स्थिरः ॥५६॥
भोजदेवेन लिखिता इत्यष्टौ वृषभे गुणाः ।
लक्षणानि तथा तेषां वच्मि लोकहिताय च ॥५७॥
नील वृष लक्षणम् ।
श्वेतादन्यतरोवर्णः श्वेतः खुर विषाणयोः ।
ललाट पुच्छयोः श्वेतः स नीलः शुभ मावहेत् ॥५८॥
शुभ वृष लक्षणम् ।
यो हृष्टपुष्टो रम्यात्मा सुविभक्ततनुः शुभः ।
कुरुते धनवृद्धिंस दोषै र्मुक्तो यदा त्वयम्॥५९ ॥
ध्वज वृष लक्षणम् ।
वृषस्तु सहजः पुच्छो रम्यश्च ध्वज उच्यते ।
भर्तुः कुलं धनं धान्यं विवर्धयति निश्चयम्॥६०॥
वाम वृष लक्षणम् ।
पूर्वार्धे चोन्नतो यस्तु परार्धे चैव नीचकः ।
निर्दोषो वाम इत्येष कुरुते रिपुसंक्षयम्॥६१॥
क्षेम वृष लक्षणम्।
चन्द्रकं दृश्यते यस्य ललाटे देवनिर्मितम् ।
क्षेम नामा वृषः कुर्या द्धनधान्य विवर्धनम् ॥६२॥
भद्र वृष लक्षणम् ।
आवर्ता श्चशुभा यस्य शुक्तय श्चापि वा शुभाः।
भद्रनामा वृषः कुर्या द्भर्तुः सर्वार्थ साधनम् ॥६३॥
शिव वृष लक्षणम् ।
पादाः सर्वेऽसिता यस्य पुच्छभालौ सितौ तथा ।
महोक्षा चायते नेत्रे कर्णौ चाति लघू स्थिरौ ॥६४॥
मुष्कयोः कृष्णता चैव शृङ्गे चाति शुभे दृढे ।
तनुरोमा महावेगः स्निग्ध गम्भीर निःस्वनः ॥६५॥
उनके गुण शुभ अशुभ ज्ञानार्थ कहेंगे १ नील २ शुभ ३ ध्वज ४ वाम ५ क्षेम ६ भद्र ७ शिव ८ स्थिर ये ८ भोज ने वृष और उनके गुण लिखे हैं लोक सुखार्थ उनके लक्षण कहते हैं ॥५६॥५७॥ श्वेत के विना अन्य वर्ण हो और खुर ,शींग श्वेत हों ललाट ,पुच्छ श्वेत हों वहशुभ को लानेवाला नील वृष होता है ॥५८॥ जो हृष्ट पुष्ट सुन्दर देह विभक्त अङ्ग शुभबृष यदि निर्दोष हो तौ धनवृद्धि करता है ॥५९॥स्वाभाविक वर्ण रमणीय पुच्छवाला ध्वजवृष पतिके कुल ,धन और अन्नकी वृद्धि करता है ॥६०॥ जिसका पूर्वार्ध ऊंचा और पिछला भाग नीचा हो यदि दोष निर्मुक्त हो तौ वाम वृष शत्रु नाश करता है ॥६१॥ जिसके ललाट पर देव निर्मित चन्द्रक हो वह क्षेम नामा वृष धन अन्न की वृद्धि करता है ॥६२॥ जिसके भ्रमर और भ्रमरी दोंनों हों वह भद्र नामा वृष स्वामीके सर्वार्थ साधन सिद्ध करता है ॥६३ ॥ जिसके चारों चरण कृष्ण हों और मस्तक पुच्छ श्वेत होवै नेत्र बडे २ और कर्ण अति लघू और स्थिर॥६४॥ अण्डकोश कृष्णवर्ण और शींग अति पुख्ते ( मजबूत ) सुन्दर होवैं सूक्ष्म रोम ,अतिवेग ,मधुर गम्भीर स्वरवाला ॥६५॥
शिव इत्येष कथितः शिवं प्रकुरुते ध्रुवम्।
स्थिर वृष लक्षणम् ।
चरणाः पञ्जराः स्थूलाः शिरः शुभ्रं भवत्तनुः ॥६६॥
आपुच्छा दायता शुभ्रा रेखा मस्तकगामिनी ।
रक्तताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्यकरः श्रिया ॥६७॥
नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः।
गर्गाचार्योऽन्यथैवाह गुणागुणान् हिताय च ॥६८॥
वृष गुण कथनम् ।
महत्व न्तनुलोमत्वं पुष्टता भारवाहिता।
कुमारकत्व मित्येते वृषभाणां गुणा मताः ॥६९॥
वृष दोष कथनम् ।
व्यङ्गा विवर्णो विषमः श्वित्री धूम्र श्चलः खरः।
एते सप्त महादोषा वृषभाणा मुदीरिताः ॥७०॥
व्यङ्ग लक्षणम् ।
विशाणौ विषमौ यस्य खुराश्च विषमा स्तथा ।
नेत्रकान्तेऽथवा गात्रे पञ्जरे वैकृतं भवेत् ॥७१॥
व्यङ्ग इत्येष कथितो धनधान्य विनाशनः।
विवर्ण लक्षणम् ।
पूर्वार्ध मन्यवर्णस्तु परार्धञ्चा न्यवर्नकम् ॥७२॥
पृष्ठं क्रोडो विवर्णो वा विवर्णः कुलनाशनः ।
विषम लक्षणम् ।
परार्ध मुन्नतं यस्य पूर्वार्धं चातिनीचकम्॥७३॥
गच्छत श्चरणौ लग्नौ शव्दायेते खरस्वरः ।
विषमो नाम वृषभः सम्पत्ति क्षयकारकः ॥७४॥
श्वित्री लक्षणम् ।
हिम कुन्देन्दु सङ्काशा गात्रेषु लोमविन्दवः ।
श्वित्री नाम महादोषो दूरत स्तं परित्यजेत् ॥७५॥
धूम्र लक्षणम् ।
शृङ्गाग्रे दीपिकाकारं ज्वलते केकरे दृशौ ।
कापिलः पुच्छभागश्चेत्सधूम्रो मृत्यु मावहेत्॥७६॥
शिव नामा वृष अवश्य कल्याण करता है और जिसके चरण पीत स्थूल और शिर किञ्चित् श्वेत होवै ॥६६॥ और पुच्छ से मस्तक तक सीधी लम्बी रेखा और लाल तालु- ओष्ठ- जिह्वा हो वह स्थिर नामा वृष लक्ष्मी से स्थिर करता है ॥६७॥ वह बहुतपुण्यसे मिलताहै परन्तु गर्गाचार्य अन्यथा ही गुणअगुण कहते हैं॥६८॥ महत्व ,तनुलोमत्व ,पुष्टता ,भारवाहिता ,कुमारकत्व ये वृषों के गुण हैं || ६९ || और
व्यङ्ग,विवर्ण,विषम,श्वित्री,धूम्र ,चल ,खर ये सात वृषोंमें महादोष होते हैं ॥७०॥ जिसके शींग विषम और खुर विषम और नेत्रान्त ,गात्र पञ्जर विगडे हों ॥७१॥ वह व्यङ्ग दोष धन धान्य नाशक होताहै । और पूर्वार्ध का वर्ण और ,परार्ध का वर्ण और, हो तथा पींठ और भुजान्तर विचित्र वर्णवाला हो वह विवर्ण दोष कुलनाशक है । और जिसका परार्ध ऊंचा और पूर्वार्ध नीचा॥७२॥७३ ॥ चलते समय चरण लगे शव्द होवै और खर २ स्वर ( शव्दवाला ) वह विषम दोष युक्त वृष सम्पत्ति नाशक है ॥७४॥ तुषार ,कुन्दपुष्प ,चन्द्र वत् गात्र वाला लोमोंमें बिन्दु ,वह श्वित्री महादोष दूरहीसे त्याज्य है ॥७५॥ शींगोंके अग्रभाग दीपिका ( दीवटि ) के सम और नेत्र प्रज्वलितसे व कनीनिका हीन हो और पुच्छ भाग पिङ्ग वर्णका हो वह धूम्र नामा दोष मृत्यु करता है ॥७६॥
चल लक्षणम् ।
दन्त शृङ्ग खुरादीनां यद्येकोऽपि चलेत्स्वयम् ।
मुष्कोवा चलते यस्य स चलः कुलनाशनः ॥७७॥
खर लक्षणम्।
आवर्ताः शुक्तयोरेखा विषमाश्च विसंस्थिताः ।
न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा ॥७८॥
गुदान्मेढ्रान्तरे यावद्रेखा व्यक्तेव दृश्यते ।
विस्तृते विषमे घोणे जिह्वा चैव सिता भवेत् ॥७९॥
स खरो दूरतस्त्याज्यो भर्तुः सर्वार्थनाशनः ।
स्वल्पता दीर्घरोमत्वं क्षीणताऽभारवाहिता ॥८०॥
व्यङ्गत्वं मारकत्वञ्च वृषे दोषा उदाहृताः ।
एते चान्यत्र कथिता वृष लक्षण कोविदैः ॥८१॥
द्विजाति जातिभेदेन चत्वारो ये वृषा मताः।
चतुर्विधानां लोकानान्त एव स्युः शुभावहाः॥८२॥
यो मोहादन्यजातीयं कुरुते वृषभं नरः ।
तस्य नश्यन्ति शस्यानि धनमायुः कुलं बलम् ॥८३॥
इत्थमालोच्य गोपाल द्विजोगा वृषभानिति ।
शालायां पालयेन्नित्यं वत्सांश्च महिषान् क्षणे ॥८४॥
मुष्को वृषणः ॥७७॥७८॥ घोणे नासारन्ध्रे ॥७९॥ अथान्यदीय मत माचष्टे । स्वल्पतेति सार्धेन पद्येन । अभारवाहि इति पदच्छेदः ॥८०॥८१॥ प्रकरणमुपसंहरन्नात्म मतं प्रतिजानीते। द्विजादीति युग्मेन। चतुर्विधानां ब्राह्मणादि वर्णानां क्रमादिति शेषः ॥८२॥ ब्राह्मणादि वर्णानामन्यजातीय वृषपालनादौ दोष माह । य इति । तद् व्यवस्था चेत्थम् । ब्राह्मणः क्षत्रिय वृषभ मित्यादि प्रकारेण ॥८३॥ आलोच्य विचार्य । क्षणे शुभमुहूर्ते ॥८४॥
यदि जिसका एक दांत ,या शींग या खुरादि या पोता स्वयं चले वह चल नामा वृष ,कुल नाशक होता है ॥७७॥ भ्रमर और शीप ,रेखा विषम कहीं २ हो या कम अधिक और खुर पंजर से विषम हों और गुदासे पोतोंके मध्यमें रेखा व्यक्त सी हो ॥७८॥ नासिकाके छेद विस्तृत और विषम ,जिह्वा श्वेत ,वह || ७९ || खर पति के सर्वार्थका नाशक दूर ही से त्याज्य है किसीके मतमें स्वल्पता , दीर्घरोमता , क्षीणता ,अभारवाहिता ॥८०॥ व्यंगता ,मारकता ,वृषमें दोष कहे हैं यह अन्यत्र वृष लक्षणज्ञों ने कहे हैं ॥८१॥ ब्राह्मणादि जाति भेदसे ४ वृष कहे हैं वे चारों वर्णोंको निज २ वर्णके उत्तम हैं ॥८२॥जो अज्ञानसे अन्य जातीय वृषको पालता है उसके धन ,आयु ,कुल ,बल ,खेतीका नाश होता है ॥८३॥ इस प्रकारसे विचार कर गो पालने वाले ब्राह्मण क्षत्रियादि निज शाला में नित्यही शुभ मुहूर्त में गौ ,वृष ,वत्स, वत्सी ,महिष ,महिषियों का संरक्षण {पालन} करै ॥८४॥
बन्धनं पालनं रक्षां द्विजः कुर्याद्गवां गृही ।
वत्साश्च यत्नतो रक्ष्या वर्धनीया यथाक्रमम् ॥८५॥
न दूरे तास्तु नेतव्याश्चारणाय कदाचन ।
गावो दूरेण चरन्त्यो न भवन्ति शुभायतः॥८६॥
स्थिराङ्गानीरुजस्तृप्ताः साण्डाः षण्डविवर्जिताः ।
शान्तास्तत्र बला वाह्या वृषभाः कर्षकैः सदा ॥८७॥
शोधनैर्मार्जनैर्ग्रासैरङ्गानां च विघर्षणैः।
सत्पुष्टान्नतृणाद्यैश्च लालनीयाहि श्रेयसे॥८८॥
वृषभान्धर्मरूपान् हि चतुष्पादान्सनातनान् ।
तत्पालनं स्वधर्मं च जानन् संपालयेन्नरः ॥८९॥
इति दाशरथीकृतिषु कृषिशासने वृषाख्य कृषिद्वितीयपाद वर्णनं नाम
तृतीयोऽध्यायः ॥३॥
पालनं तृणजलादिना तर्पणं , रक्षां दंशादेः रक्षणम् ॥८५॥
गावो धेनवो वत्सा वृषाश्चेत्युपलक्षणात् ॥८६॥ तृप्ताः सायंप्रातश्चारणात् ।तदुक्तं कृषि पद्धतौ । गुडकैर्यवसैर्धूमैस्तथान्यैरपि पोषणैः । वाहाः क्वचिन्न सीदन्ति सायं प्रातश्च चारणात् ॥ इति। वाह्या योज्याः ॥८७॥ श्रेयसे स्वस्य वृषादेश्च कल्याणाय ॥८८॥ अव्यक्तरूपधर्मस्य तु समयबलात्पादशो ह्रासोऽपि भवति पुनर्व्यक्तरूपधर्मस्य तु तथा नेतिसनातनान् ॥८९॥
इति नारायणभाष्यसहिते कृषिशासने द्वितीयपादे वृषभलक्षण कथनं नाम
तृतीयोऽध्यायः ॥३॥
द्विजाति गृहस्थी गौआदि का यत्नसे बान्धना ,पालना ,रक्षा करैं वत्सों को रक्खैं क्रमसे बढ़ावैं ॥८५॥ कभी भी दूर चरानेको न ले जावैं कारण दूर चरती हुई गोजाति कल्याण दाता नहीं होती है ॥८६॥ कर्षकों को योग्य है कि सदा स्थिर देह ,निरोग ,तृप्त ,पोतेसहित ,शान्त ,बली वृषभोंको जुआमें जोडें और वधिया न करावैं और न वधिया वृष को जोतैं ॥८७॥ निज और वृष आदि पशु सुखार्थ वृषादियों को धूलि आदि का शोधन ,अंगोंका मार्जन ,ग्रास देनें अंगों के खुजाने उत्तम पुष्ट अन्न तृण आदि से लाड़ लड़ाना दाताको योग्य है ॥८८॥सनातन चतुष्पाद धर्मरूप ,वृषों को जानता हुआ तथा उनका पालन ,निज धर्म जानकर करैं ॥८९॥
इति राघव भाष्य सहिते कृषिशासने द्वितीयपादे वृषभलक्षण कथनं नाम
तृतीयोऽध्यायः ॥३॥
टीकाद्वयोपेतम्
|| कृषि शासनम् ||
|| अथचतुर्थोध्यायः || [ 4 ]
निर्बल वृष योजन निषेध कथनम् |
प्रक्षीण कायं गदपीडितं च _
प्राण प्रहीणं बलतो विहीनम् ||
श्रान्तं क्षुधार्तं तृषितं वृषाख्यं _
नो योजयेच्चेत्स्वशुभं समीहेत् || १ ||
निर्बल रक्षा कथनम् |
तेषान्तु रक्षा कृषकै रवश्यं _
गोरक्षण ज्ञानवतां वरिष्ठैः||
प्रयत्नतोऽम्भस्तृणकान्नदानैः _
सदा विधेया दययेष्टवच्च || २ ||
नीरुजो वृषभा वाह्या इत्युक्तत्वादधुना नीरुक्करणक्षमायुर्वेद मतेन तच्चिकित्सा मनुवदन्नुपढौकते |
प्रक्षीण कायमिति युग्मेन | स्पष्टम् || १|| २||
यदि अपना कल्याण चाहैं तो अतिक्षीणदेह ,रोगपीडित ,श्वासहीन ,बलहीन ,थका ,क्षुदित ,तृषापीडित ,वृषको कभी न चलावै || १ || गोरक्षाज्ञानशील कर्षकों को अतिक्षीण देहादि वाले वृषों की रक्षा अवश्य प्रयत्न से जल ,तृण ,अन्न ,औषधि आदि से सर्वथा दया पूर्वक निज इष्ट मित्र पुत्र आदि की भांति कर्तव्य है || २ ||
वृष चिकित्सा |
व्याधिता औषधैरक्ष्या यत्नेन पशुपालकैः ||
संक्षेपात्तदहं वच्मि ज्ञेय मन्यत्र विस्तरात् || ३ ||
वातपित्तकफोत्था ये रोगाः सन्ति वृषे नृवत् ||
तान् यथास्वं विजानीयात्प्रतीकारं विचारयेत् || ४ ||
शैथिल्यं श्लेष्मणः पित्ताद्व्याकुलत्वं गवादिषु ||
स्कन्ध पीडा निवारण कथनम् |
स्कन्धरोगविनाशाय मर्दनं सततं चरेत् || ५ ||
शाकम्भरी कुक्कुटाण्डैः पिष्टे संमर्दयेत्तथा ||
स्कन्ध शोथ चिकित्सा |
माहिषं गोमयं पक्वमौष्ट्रीविष्टौषरम्पचुः || ६ ||
स्कन्धशोथहरौ लेपौ शुष्क निण्मर्दनात्तथा ||
किरिगोधावसालेपो स्कन्धश्वयथु नाशकौ || ७ ||
अन्यत्र पशु चिकित्साप्रवन्धेषु || ३ || नृवत् यथा मनुष्यशरीरे तथा वृष शरीरेऽपि विचार्याः |
प्रतीकारन्तदुपायं || ४ || वातव्याधेर्निवृत्युपाय माह | स्कन्धेति | स्कन्धरोगस्य स्कन्धपीडायाः || ५ ||माहिषमित्यर्धेन लेपद्वय माह || ६ || शुष्क निण्मर्दनाच्छुष्क हरिद्रामर्दनतः | किरिगोधावसालेपो वराहगोधा वसालेपौ || ७ ||
व्याधि पीडित वृष औषधियों से पशुपालों के द्वारा यत्नसे रक्ष्य हैं अतः संक्षेप से चिकित्सा कहता हूं
और विशेष चिकित्सा अन्य पशुचिकित्साग्रन्थों में विस्तार से जानना || ३ || जैसे मनुष्य के शरीर में वात ,पित्त ,कफ जन्य रोग होते हैं वैसे ही यथा लक्षण वृषादि पशुऔं में जान औषधि देवै || ४ || कफसे देहमें शिथिलता, पित्तसे गौ आदि पशु देह में व्याकुलता होवै है | स्कन्धके दर्द नाशार्थ निरन्तर मालिश करै || ५ || अथवा सांभरि लवण मुर्गी के अण्डों के रस में पीसकर कंधे को मलै अथवा भैंसे के गोवर या ऊंट की लेंडियों को खारी लवण के साथ पकाके लेप करनेसे कन्धेकी सूजन दूर होवै एवं खुश्क हल्दीके मर्दनसे और शुअर या जंगली गोहकी वसाके { चर्वीके } लेप करनेसे भी कन्धेकी सूजन नष्ट होती है ||६ ||७ ||
पिटिका शोथ चिकित्सा |
शिग्रु कुद्दालयोस्त्वक् च पिष्टा पक्वा च वन्धिता |
जम्बूनिम्बत्वचं गैरं काकमाचीच्छदं तथा ||८ ||
कवोष्णलेपतः सद्यः पिटिका शोथ नाशकृत् |
पिटिका श्राव कथनम् |
यष्टी निर्गुण्डिका पत्रं मर्दनं कोष्णलेपतः || ९ ||
गुग्गुलु मधुनोर्दीप्य गुडयोः पिटिकाश्रवः
राजिका कुक्कुटाण्डानि कापोतीविट् प्रलेपतः || १० ||
आरण्यभसितं शुक्तिचूर्णं चैव पलम्पलम्
पलविंशातसीतैलं पक्वं लेपाच्च पूरणम् || ११ ||
घेघ निदानम् |
नदीतीरमृदाशस्यभक्षणात्कण्ठलम्बितम् |
विरेचनं कृशत्वं च घेघरोगं विनिर्दिशेत् || १२ ||
घेघ चिकित्सा |
कृष्णस्वर्णच्छदं काकमाचीपञ्चाङ्ग जीरकम् |
गोधूम काष्ठचूर्णं च समं लेपश्च घेघहा || १३ ||
पिटिकाशोथ चिकित्सामाह | शिग्रु कुद्दालेति सार्धपद्येन || ८ || पिटिका स्रावोपाय माह |
यष्टीति | यष्टी मधुयष्टी || ९ || १० || पिटिका पूरणोपाय माचष्टे | आरण्येति || ११ || घेघरोगस्य निदानमाचष्टे |
नदीति || १२ ||तच्चिकित्सामाह | कृष्णेति | कृष्णस्वर्णच्छदं कृष्णधत्तूरदलम् | जीरकं कृष्णजीरम् || १३ ||
सहजना और कचनार की छाल को पीस पकाकर बांधे तथा जामुन नीमकी छाल ,गेरू ,मकोय के पत्तों ||८ ||
का किञ्चित् उष्ण २ { गरम गरम } लेप करनेसे शीघ्रही फ़ुन्सियों की सूजन दूर होती है | और मुलहठी मेमडी के पत्ते ,मैनफल के किञ्चित् उष्ण लेप से || ९ || गुग्गुलु और शहद के तथा अजवांयन ,गुड के लेपसे फ़ुन्सियों में से मल निकल जाता है | राई मुर्गी के अण्डे कबूतर की वटि के लेप करने से || १० || और अर्ने उपले की राख ,शीप का चूना ,एक २ पल २० पल अलसी तैल , पकाके लेप करनें से फ़ुन्सियां भरजाती हैं और लगाते २ त्वचा साफ़ हो जाती है || ११ || नदी के तीर की मृत्तिका युक्त घास के खाने से कण्ठ लटक आता है और रेचन होता है ,शरीर कृश होता है उसको घेघ रोग कहते हैं || १२ || काले धतूरे के पत्ते मकोय का पञ्चाङ्ग ,जीरा ,गेहूं और लकडी का चूर्ण ( वुरादा ) बराबर ले लेप करने से घेघ रोग नाशक है || १३ ||
टिप्पणी
3 मुठी= 1 पल, 2 पल=1 प्रसृत, 2 प्रसृते = 1 कुडव, 4 कुडव= 1 प्रस्थ, 4 प्रस्थ = 1 आढक, 4 आढक =1 द्रोण, 16 द्रोण= 1 खारी. ५ गुंजा = १ मासा १६ मासे = १ तोळा (कर्ष) ४ कर्ष = १ पल तथा ८ गुंजा= १ मासा
१२ मासे = १ तोळा ८० तोळे= १ पक्का शेर { लगभग १ किलोग्राम }
सौवर्चलं कालजीरः कटुकी च पलं समम् ||
अष्टाह भक्षणान्मृत्युमोचकं घेघनाशकम् || १४ ||
सोरकं मूलिकाबीजं कोष्णो लेपोहि घेघहा ||
कण्डू चिकित्सा ,
शाकम्भरी च सावूनं पञ्चदिक् पलसंम्मितम् || १५ ||
पाथसा लेपतः कण्डूनाशको भवति क्षणात् ||
आटोप चिकित्सा ,
नसा सार्षप पानेन शीघ्रमाटोप नाशनम् || १६ ||
मन्दाग्नि चिकित्सा ,
इन्द्रवारुणिका दीप्या मूल पालाष बीजकम् ||
विडङ्गं कण्टकारी च सैन्धवञ्च पलम्पलः || १७ ||
द्वीषुपलं गुडं जीर्णं निर्गुण्डी द्विपलं निशा ||
पञ्च पञ्च पलं पथ्या यवानी रामठं पलम् || १८ ||
गुटीचूर्णे द्विवेलं च मन्दाग्निहरणे क्षणात् ||
हन्नवात निदानम् |
घूर्णनं पतनं कम्पः पतनं पात्प्रसारणम् || १९ ||
हन्नवातः प्राणहन्ता असाध्यः कथितो बुधैः ||
हन्नवात चिकित्सा
विशालाद्विफलं पिष्ट्वा मुखे दद्याच्च तत्क्षणम् || २० ||
व्याघ्रमांसादनं मार्गशृङ्गपानमजाशकृत ||
उष्ट्रास्थीषुपलं चूर्णं भक्षितं हन्नवातहृत् || २१ ||
तुरुष्का द्विपलं चैव रुरुशृङ्गरजः पलम् ||
मृगविष्टा पलं पञ्च पिष्ट्वा चूर्णं तु कारयेत् || २२ ||
अर्धप्रस्थमजादुग्धं पाकोऽयं हन्नवातहा ||
स्पष्टम् ||१४|| कण्डूपायमाह | शाकम्भरीति || १५ || पाथसा अम्भसा | आटोप चिकित्सामाह |
नसेत्यर्धेन || १६ || मन्दाग्निप्रतीकारमाह | इन्द्रवारुणिकेति सार्धयुग्मेन ||१७ || द्वीषुपलं दिक्पलम् ||१८||
मन्दाग्निहरे मन्दाग्निनाशके | हन्नवात निदानमाह | पात्प्रसारणं पादानां प्रसारणम् || १९ || तत्प्रतीकारमाचष्टे | विशालेति | विशालेन्द्रवारुणी || २० || व्याघ्रमांसादनं मार्गशृङ्गपानमिति योगद्वयम् || इषुपलं पञ्चपलम् || एतच्चूर्णमित्ययं प्रयोगः || २१ || तुरुष्का खुरासान समुद्भवा अजमोदा || २२ ||
काला लवण , काली जीरी , कुटकी एक २ पल लेकर चूर्ण कर ८ दिन खवाने से मृत्यु मोचक और घेघरोग नाशक है || १४ || कलमी सोरा ,मूलीके बीजोंका किञ्चित् उष्ण लेप घेघ हरता है | और ५ पल सांभरि १० पल सावुन || १५ || जल में मिलाय ,लेप करने से शीघ्र कण्डू नाशक है | नासिका द्वारा सरसों का तैल पिलानेसे आटोप ( अफ़रा ) दूर होता है ||१६|| इन्द्रायन ,अजवांयन की जड , ढाक के बीज ,विडङ्ग ,कटेरी ,सेंधा लवण एक २ पल || १७ || १० पल पुराना गुड , २ पल मेंमडी ५ पल हल्दी ५ पल हर्ड की वकुली ,अजवांयन ,१ पल हींग || १८ || इनको पीस चूर्ण या गोली बना दो वार देने से मन्दाग्नि नाशक है | घूमनी ,गिरना ,कम्पन , गिरकर पादों का फैला देना || १९ || उसको हन्न वात कहते हैं वह शीघ्र ही प्राण नाशक पशुरोग वेत्ताओं ने अशाध्य कहा है | जिस समय हन्न वात दबावे उसी समय इन्द्रायन के २ फल पीस कर उसके मुख में दे देवै ||२०|| सिंह या वघेरे के मांस को खवावै अथवा हिरण के शींग को काट कर पीस कर पिला देवै | अथवा बकरी की मेंगनी ( वीट ) ऊंट की हड्डी ५ पल लेकर चूर्ण कर खवावै तौ हन्न वात दूर होवै || २१ || खुरासानी अजवांयन २ पल ,बारह शिंगा के शींग का चूर्ण १ पल , हिरण की वीट १ पल , पीस कर चूर्ण करै || २२ || और आध सेर बकरी के दूध में पकाकर देवै हन्न वात नाश होवै ||
खञ्ज निदानम् |
खञ्ज वातेन संक्लिष्टो गच्छन्नेकं पदं घृषेत् || २३ ||
पङ्गुं निदानम् |
यदि द्वौ प्रघृषेत्पादौ तदा पङ्गुं वृषं वदेत् ||
तच्चिकित्सा |
षण्मासकं पारदञ्च रसोनं पलवेदकम् || २४ ||
चणाचूर्णसमं चैकबिंशाहा पङ्गु वातहा ||
वृंहण विधिकथनम् |
सिंहीपञ्चाङ्ग निट तुल्यं पादप्रस्थञ्च शाम्भरी || २५ ||
सपादप्रस्थकं पञ्च प्रस्थं गुडञ्च गुग्गुलम् ||
अर्धपादं पाद कृष्णजीरकं गोलकी कृतम् || २६ ||
प्रत्यहं सेवितं शीघ्रं वृंहणं श्रम नाशकम् ||
अग्नि संधुक्षकं मानादत्याहार प्रपाचकम् || २७ ||
गोवृषाणां सदापथ्यं चेत्सभङ्गी कृते भवेत् ||
प्राचीनानां मतं किञ्चित्प्रोच्यते गोसुखायच || २८
खञ्जवात निदानमाचष्टे | खञ्जेति || २३ || पङ्गुवात निदानमाह | यदिति |
तत्प्रतीकारं व्रवीति | षडिति || २४ || सिंहीत्यतो विशेषकेण वृंहणमाचष्टे | सिंही पञ्चाङ्गम् कण्टकारी पञ्चाङ्गम् | निट हरिद्रा || २५ || २६ || २७ || सभङ्गीकृतं भङ्गासहितम् | नव्यमतमनूद्याधुना प्राचीनमतमुपदिशति || २८ ||
जौ पशु एक पाद को घसीट कर चलै तौ खञ्ज वात जानना || २३ ||
जौ दोनौं पाद घसीट कर चलै तौ पङ्गु वात कहना | ६ मासे पारा ४ पल लहसुन || २४ ||
सबके सम चने का चूर्ण के गोले बना २१ दिन खवाने से खञ्ज और पङ्गु वात जाते हैं | कटेरी का पञ्चाङ्ग हलदी के सम ,और पावभर शाम्भर ||२५ || सवासेर गुड , पांच सेर गूगल , आधपाव काली जीरी के गोले बना || २६ ||
प्रति दिन सेवन से शीघ्र पुष्ट और श्रम दूर , अग्निवृद्धि , अधिक भोजन पाचन होता है || २७ || गौ और बलीवर्द आदि पशुओं को सदा यह पथ्य है यदि भांग और मिलायी जाय | गो सुखार्थ अब किञ्चित् प्राचीन मत कहते हैं || २८ ||
शृङ्ग रोग चिकित्सा |
शृङ्गामयेषु धेनूनां तैलन्दद्यात्ससैन्धवम् ||
शृङ्गवेरबलामांसी कल्कसिद्धं समाक्षिकम् || २९ ||
कर्णशूलेषु सर्वेषु मञ्जिष्ठा हिङ्गु सैन्धवैः ||
सिद्धं तैलं प्रदातव्यं रसोनेनाऽथवा पुनः || ३० ||
बिल्वमूलमपामार्गं धातकी च सपाटला ||
दन्त मूल शूल चिकित्सा |
कुटजं दन्तमूलेषु लेपात्तच्छूलनाशकम् || ३१ ||
दन्तशूलहरैर्द्रव्यैघृतं राम विपाचितम् ||
मुखजिह्वारोगप्रतीकार कथनम् |
मुखरोगहरं ह्येतत् जिह्वारोगेषु सैन्धवम् || ३२ ||
गलग्रह – हृच्छूल – वस्तिशूल – वात – क्षय रोग चिकित्सा |
शृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे ||
हृच्छूले वस्तिशूले च वातरोगे क्षये तथा || ३३ ||
त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते ||
अतीसार चिकित्सा |
अतीसारे हरिद्रे द्वे पाठाञ्चैव प्रदापयेत् || ३४ ||
भग्न सन्धान विधिः |
दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता ||
वात पित्त प्रतीकारः |
तैलं वातहरं पित्ते मधुयष्टी विपाचितम् || ३५ ||
कफ रक्त प्रतीकारः |
कफे व्योषं च समधु सपुष्टिकरजोऽस्रजे ||
तैलाज्यं हरितालञ्च भग्नक्षतिशृतं ददेत् || ३६ ||
कोष्ठशाखारोग प्रतीकारः
सर्वेषु कोष्ठ रोगेषु तथा शाखा गदेषु च ||
कासश्वास प्रतीकारः |
शृङ्गवेरं च भार्ङ्गी च कासे श्वासे प्रदापयेत् || ३७ ||
पौष्टिक विधिः |
माषास्तिलास्सगोधूमाः पशुक्षीरं घृतं तथा ||
एषां पिण्डी सलवणा वत्सानां पुष्टिदा त्वियम् || ३८ ||
स्पष्टम् || २९ || रसोनेन लसुनेन || ३० || तच्छूलनाशकं दन्तमूल शूल नाशकरम् || ३१ ||
रामविपाचितं त्रिवार पाचितम् || ३२|| शृङ्गवेरं आर्द्रकम् || ३३ || ३४ || प्रियङ्गुः कङ्गुः || ३५ || व्योषं त्रिकटु सपुष्टिकरजोऽश्वगन्धा चूर्णम् || ३६ || ३७ || ३८ ||
गौओं के शींगों के रोगों में सेन्धा लवण और अदरख , खिरेटी , जटामांसी , कल्क का बनाया तैल शहद के साथ देवै || २९ || कर्ण शूल पर मजीठ ,हिंग ,सेंधालवण ,का पकाया या लशुन का पकाया हुआ तैल देवैं || ३० ||
बेल की जड ,अजाझारा ,धाय ,पाडर के फूल ( पाड़र या पाडर का पेड़ जिसके पत्ते बेल के समान होते हैं । )
कुडे की छाल के लेप से दांतों के मूल का शूल जाता है || ३१ || ( विशेष—लाल और सफेद फूलों के भेद से यह दो प्रकार का होता है । वैद्यक में इसे उष्ण, कषाय, स्वादिष्ट तथा अरुचि, सूजन, रुधिरविकार , श्वास और तृष्णा आदिको दूर करनेवाला माना है । पर्याय —पाटला । कर्बुरा । अमोघा । फलेरुहा । अंथुवासिनी । कृष्णावृंता । कालवृंता । कुंभी । ताम्रपुष्पी । कुवेरक्षी । तोयपुष्पी । वसंतदूती । स्थाली । स्थिरगंधा । अबुवासी । कोकिला ।)
रंग : कुड़े की छाल का रंग लाल और भूरा होता है |
स्वाद : इसकी छाल का स्वाद कडुवा होता है |
स्वरूप : कुड़े के पेड़ बहुत बड़े – बड़े होते हैं और इसके बीजों को इन्द्रजौ कहते हैं |
प्रकृति : इसकी छाल गर्म होती है |
हानिकारक : कुड़ा की छाल का अधिक उपयोग करने से कब्ज पैदा हो सकती है |
गुण : इसकी छाल प्लीहा रोग , कफ विकार एवं दस्त रोग को ठीक करती है | यह बवासीर को दूर करती है , पेट के कीड़े को नष्ट करती है और जलन को शांत करती है | अथवा दन्तशूल नाशक द्रव्यों से ३ वार पकाया हुआ घृत मुखरोग नाशक है | और जिह्वारोग में सेंधालवण || ३२ || गलग्रह में अदरख , दोनों हल्दी, ( काली हल्दी, पीली हल्दी ) , त्रिफला देवैं | हृदयशूल , वस्तिशूल , वातरोग , क्षयरोग , पर त्रिफला घृत के साथ पीने के लिये देवैं | अतीसार पर दोंनों हल्दी ,पाठा , देवैं || ३३ || ३४ || भग्नसन्धान पर लवण के साथ कङ्गुनी और वातनाशक तैल एवं पित्त पर मुलहटी पकाकर देवैं || ३५ || कफरोग पर त्रिकुटा शहद और रक्तज रोग पर समभाग असगन्ध का चूर्ण शहद के साथ और भग्नक्षति पर तैल, घृत में हरताल पका कर देवैं || ३६ ||
संपूर्ण कोष्ठ रोगों पर ,और शाखा रोगों पर तथा कास श्वास पर क्रम से अदरख और भारंगी देवैं || ३७ ||
उर्द ,तिल ,गेंहू ,उसी पशु का दुग्ध ,घृत लवण के साथ पिण्डी बनाकर देने से गो वत्सों को पुष्टिदाता है || ३८ ||
बलप्रदा वृषाणां स्याद्ग्रहनाशाय धूपकः ||
ग्रहनाशक धूपः |
देवदारुर्वचामांसी गुग्गुलु र्हिङ्गु सर्पिषा || ३९ ||
ग्रहादि गदनाशाय एष धूपो गवां हितः ||
घण्टा चैव गवां कार्या धूपेनानेन धूपिता || ४० ||
शुष्क दुग्ध रोग निदानम् |
या गृष्टिः प्रचुरं दुग्धं पूर्वन्दद्याच्च शुष्यति ||
तं हि शुष्क पयोव्याधिं पशुपाल विदोविदुः || ४१ ||
तच्चिकित्सा |
क्षुद्राम्लशाकपत् कारवेल्लीपर्णकयोर्द्वयोः ||
पञ्चाम्र दिक्पलं शुष्कपयोनाशाय पाययेत् || ४२ ||
दुग्ध वृद्धि विधिकथनम् |
प्रातः सायं तु सप्ताहं पलविंशगुडौषधम् ||
यवचूर्णैः पाययेच्च पयोवृद्ध्यै गवादिकम् || ४३ ||
शताङ्घ्रिर्दिक्पलः पिष्टो मासं पीतः पयः करः ||
अश्वगन्धा तिलै शुक्लैस्तेन गौः क्षीरिणी भवेत् || ४४ ||
स्पष्टम् || ३९ || ४० || गृष्टिः सकृत् प्रसूता गौः || ४१ || क्षुद्राम्लशाकपत् क्षुद्र पथरचटामूलञ्च कारवेल्लीपर्णकं कारवेल्लपत्रञ्च तयोः | क्रमात् प्रमाणमुच्यते | पन्चाम्र दिक् पलमिति || ४२ ||प्रातः सायन्तु सप्ताहं पाययेदितिपूर्वत्र एवं परत्राऽपि संवध्यते | उभयान्वयित्वात् || ४३ || शताङ्घ्रिः शतावरी || ४४ ||
पूर्वोक्त गोले वृषों को भी पुष्ट करते हैं | अवग्रह रोग नाशार्थ धूप कहते हैं देवदारु ,बच ,जटामांसी ,गूगल ,
हींग , घृत || ३९ || का धूप गौओं को हितकारक है | इस धूप से गौओं के घण्टाओंको धूपित कर बान्ध देवै || ४०||
जो गौ हाल की व्याही हुई हो और पूर्व में अति दुग्ध देती हो वाद में कम देने लगे उसको पशु पालनज्ञ जन शुष्कपय रोग कहते हैं || ४१ || छोटा तिपतिया चूका ( पथर चटा ) की जड , ५ पल करेले के पत्ते १० पल लेके प्रातः काल सायं काल सात दिन शुष्कपय रोग नाशार्थ घोंट कर पान करावै || ४२ || और प्रातः काल सायं काल सात दिन ही २० गुड , शोंठि, यव के चूर्ण के साथ गौ आदि को दुग्ध वृद्धि के लिये देवैं || ४३ || १० पल शतावरी पीस कर १ मास तक पान कराने से दूध को बढाता है और सफ़ेद तिल, असगन्ध के सेवन कराने से दूधवाली गौ होती है || ४४ ||
रसायनञ्च पिण्याकं मर्त्यो यो धार्यते गृहे ||
” ओंकराली पुरुषं मुखं मुखहं श्रीं ठःठः ” ||
एतन्मन्त्रेण नलदैः स्तनानष्टोत्तरं शतम् || ४५
मार्जयेत्सन्ध्ययोः सप्तदिनं दुग्धप्रवृद्धये ||
सर्व रोग प्रतीकारः |
उष्ट्रास्थिसहिता शाला पलाण्डुःधूपितातथा || ४६ ||
नद्ध पलाण्डु द्वाः शीर्षा सर्व रोग हरी परा ||
” अर्जुनः फाल्गुनोजिष्णुः किरीटी श्वेतवाहनः || ४७
वीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ” ||
ॐक्लींश्रींक्रुं कार्तवीर्यार्जुनाय च नमः परम् || ४८ ||
ॐ गोरक्ष त्रिवारं च लिखित्वेमौ सुखर्परे ||
दाडिमी लेखनी शस्ता मस्यसूर्यदिने शुभे ||४९ ||
प्रधूप्यान्नं प्रताप्याऽथ शालाद्वारोपरि न्यसेत् ||
समस्तव्याधिशमनौ मन्त्रौ प्रोक्तौ पुरातनैः || ५० ||
गोपुरीषे लक्ष्मीपूजा |
गवां पुरीषे पञ्चम्यां नित्यं शान्त्यै श्रियं यजेत् ||
वासुदेवञ्च गन्धाद्यैरपरा शान्तिरुच्यते || ५१ ||
पोलोत्सव कथनम् |
अश्वयुक् शुक्लपक्षस्य पञ्चदश्यां यजेद्धरिम् ||
हरिं रुद्रमजं सूर्यं श्रियमग्निं घृतेन च || ५२ ||
नलदैरुशीरैः || ४५ || ४६ || अर्जुन इति सप्रणवोलेख्यः || ४७ || ॐक्लींश्रींक्रुं कार्तवीर्यार्जुनाय नमः
ॐ गोरक्ष ३ इति मन्त्रश्च || ४८ || सुखर्परे नूतनमृण्मयपात्रे वा नवीनखर्परे | शुभे रविवारादन्यस्मिन्नपि शुभे बुधादिदिने || ४९ || ५० || विघ्नशान्तिमाचष्टे | गवामित्यष्टभिः श्लोकैः | अपरा अन्या || ५१ ||
अश्वयुक् शुक्लपक्षस्याऽऽश्विने मासि सिते पक्षे | दशम्यांपौर्णिमायाम् | केचन भाद्रकृष्णामावास्यायां श्रावणेऽमायाञ्चामुं पूजां कुर्वन्ति | तच्च भविष्यपुराणोक्तं व्रतराज निवन्धे पिठौरीव्रतं तत्कथादिकं दृष्टव्यं | मध्यदेशे (महाराष्ट्रप्रदेशे ) तत् पोलाख्य इति वदन्ति || ५२ ||
जो मनुष्य खल गृह में रक्खें तौ वह पशुओं को रसायन ( पुष्टकर ) है | मूल में लिखित मन्त्र से पढ़कर खस से या गांडर १०८ वार स्तनों पर पशुके स्तन दुग्ध वृद्ध्यर्थ झारा देवैं ” समय सायंकाल ७ दिन ” मन्त्र ” ओंकराली पुरुषं मुखं मुखहं श्रीं ठःठः ” और ऊंट की हड्डी गोशाला में रक्खें या प्याज के गठ्ठे की धूप गोशालामें देवैं
|| ४५ || ४६ || या प्याज के गठ्ठे को १ रस्सी में बांध गोशालाके दरवाजे पर बांध देवैं तौ सर्व रोग नाश होता है अथवा सर्व रोग नाशार्थ मूल में लिखे हुए दोंनों मन्त्रों में से किसी एक मन्त्र को नवीन खीपड़े पर या नवीन मृत्तिका के पात्र पर अनार की लकड़ी की कलम स्याही से लिख चन्द्र ,बुध ,गुरु ,भृगु के दिन गोशालाके द्वार के मस्तकपर धूप दे अन्नदान कर रस्सी में बांध लटका देवैं || ४७ || ४८ || ४९ || ५० ||
प्रथम मन्त्र
{ॐक्लींश्रींक्रुं कार्तवीर्यार्जुनाय नमः} द्वितीय मन्त्र { ॐ गोरक्ष ३ वार } शान्ति के लिये गौओंके गोवर पर पञ्चमी को श्रीदेवी का पूजन करैं | और वासुदेव का पूजन गन्धादि से करैं |
अब द्वितीय शान्ति लिखते हैं || ५१ ||
आश्विन शुक्लपक्ष पूर्णिमा को ” परन्तु कोई २ श्रावण कृष्णा हरियाली अमावास्या को और कोई भाद्रपद कृष्णा अमावास्या को ” विष्णु ,रुद्र ,ब्रह्मा ,सूर्य ,लक्ष्मी का पूजन और घृत से अग्नि में हवन करते हैं उसको महाराष्ट्र देश में पिठौरी ( पोला ) कहते हैं | इसकी कथादि भविष्य पुराणोक्त व्रतराज में देखिये || ५२ ||
दधि संप्राश्य गाः पूज्य कार्यं वन्हिप्रदक्षिणम् ||
वृषाणां योजयेद्युद्धं गीतैर्वाद्यैर्रवैर्वहिः || ५३ ||
गवान्तु लवणं देयं ब्राह्मणानां च दक्षिणाम् ||
नैमित्तिके माकरादौ यजेद्विष्णुं सह श्रिया || ५४ ||
स्थण्डिलेब्जे मध्यगतं दिक्षु केसरगान् सुरान् ||
सुभद्राऽजो रविः पूज्यो वहुरूपो वलिर्वहिः || ५५ ||
खं विश्वरूपा सिद्धिश्च ऋद्धिः शान्तिश्च रोहिणी ||
दिग्धेनवो हि पूर्वाद्याः कृशरैश्चन्द्र ईश्वरः || ५६ ||
दिक्पालाः पद्मपत्रेषु कुम्भेष्वग्नौ च होमयेत् ||
क्षीरवृक्षस्य समिधः सर्षपाक्षततण्डुलान् || ५७ ||
शतं शतं सुवर्णस्य कांस्यस्य च द्विजे ददेत् ||
इतुक्तमग्निना स्वेन मृग्यमग्निपुराणके || ५८ ||
इति दाशरथीकृतिषु कृषिशासने वृषादिरोगाणां ||
चिकित्सा कथनं नाम चतुर्थोऽध्यायः || ४ ||
वहिर्ग्रामात् || ५३ || ५४ || ५५ || ५६ || ५७ || अध्यायोपसंहारं चिकीर्षुः प्रमाणयति | शतमित्यादि | अग्निना देवेन | तत्तु अग्निपुराणे मृग्यमन्वालोचनीयम् || ५८ || इति नारायण भाष्य सहिते कृषिशासने वृषादिपशुरोग चिकित्साकथनं नाम चतुर्थोऽध्यायः || ४ ||
दधि भोजन कर गो पूजा कर अग्नि की परिक्रमा करैं पुनः ग्राम से बाहर गीत वाद्य शव्द पूर्वक वृषों का युद्ध करावैं || ५३ || गौओं को लवण और ब्राह्मणों को दक्षिणा देवैं नैमित्तिक माकरादि शान्ति में लक्ष्मी नारायण का पूजन भूमि पर कमल मध्य में और केसराओं में संकर्षणदेव , सुभद्रा , अज , ( ब्रह्मा ) सूर्य का पूजन करैं और कमल के वाह्य अनेक प्रकार का वलि देवैं | आकाश ,विश्वरूपा ,सिद्धि ,ऋद्धि ,शान्ति ,रोहिणी ,चन्द्र ,ईश्वर का और पूर्वादि दिशाओं में दश धेनुओं का कमल के पत्रों में दिक्पालों का पूजन घटस्थापन करके करैं | और अग्नि में दुग्ध वाले वृक्षों की समिध ,सरसों ,अक्षत ( यव , चावल ) की सौ २ आहुती देवैं यह अग्नि ने कहा है | अग्निपुराण में लिखा है || ५४ ||५५ ||५६ ||५७ ||५८ ||
इति राघवभाष्य सहिते कृषिशासने
वृषादिपशुरोगप्रतीकारकथनं नाम चतुर्थोऽध्यायः || ४ ||
टीकाद्वयोपेतम्
|| कृषि शासनम् ||
|| अथ पञ्चमोध्यायः || [ 5 ]
|| अथ तृतीयं बीज पाद कथनम् ||
तृतीयं बीजनामानं पादं वच्मि कृषेरथ ||
बीज व्युत्पत्तिः |
विशिष्ट शस्यरूपेण जायते वर्धते सदा || १ ||
ततो बीजमितिख्यातं लोके च सचराचरे ||
पुष्ट बीज माहात्म्यम् |
विशिष्टशस्यसम्पत्यै बुधैस्तत्पुष्टमीडितम् || २ ||
अपुष्ट बीज पोष कथनम् |
यथा रुग्णस्य मर्यादारहितस्य कृशस्य च ||
अपक्ववयसः पुंसः क्षीण क्षीण प्रजाजनिः || ३ ||
तथापुष्टस्य निःसत्वस्य घुणाम्भः समीरतः ||
अपक्वस्य कृशं चाल्पं शस्य बीजस्य जायते || ४ ||
अपिकिञ्चिदयोग्यं हि बीजं सर्वं विकारयेत् ||
दुग्धं काञ्जीव तस्मात्तत्समपक्वं सुसञ्चयेत् || ५ ||
सद्बीज लाभोपाय कथनम् |
सद्बीजावाप्तये प्रोक्तारुपायाः शास्त्रकोविदैः ||
श्रेष्ठबीजोत्पादनं हि यत्नतस्तस्य रक्षणम् || ६ ||
वपनं परिवर्त्येति रक्षणं घुण शैत्यतः ||
भस्मसंस्कारसंयुक्तं बुसे तत्स्थापनं चरेत् || ७ ||
कृषेर्वृषाख्यं द्वितीयपादमुक्त्वाऽधुना तृतीयं बीजाख्यं पादं व्याचिख्यासुराह | तृतीयमिति |
अथ द्वितीय पाद कथानानान्तरम् | तत्र बीजस्य निरुक्तिमाह | विशिष्टेति || १ || तदाधिक शस्यसंपत्यर्थन्तत्पुष्टं ब्राह्ममित्याह | विशिष्तेति ||२ || ३ || तथाऽपुष्टस्य पुष्टत्वहीनस्य | घुणाम्भःसमीरतो घुण जलसेक वायुवेगैः | निःसत्वस्येत्यन्वयः || ४ || किञ्च बीजराशौ किञ्चिदपि अयोग्यशरीरोत्पादनाक्षमत्वयुक्तं सत् सर्वं बीजं बीजराशिम् || ५ || उत्तमबीजलाभाय त्रयः उपायाः प्रदर्शिता इति वदति | सदिति युग्मेन | सद्बीजावाप्तये श्रेष्ठबीजलाभाय | ते यथा | श्रेष्ठबीजोत्पादनं पुनर्यत्नतः क्रिययाऽयुक्त्या वा तस्यैव रक्षणम् || ६ || पुनश्च रक्षितस्यैव तस्यैव परिवर्त्य वपनम् | अर्थात् यस्मिन्क्षेत्रे अधोगामिमूलबीजोप्तिः कृताभवेत् तत्रैव तस्यैव वपनं पुनरयुक्तं किन्त्तूपर्येव प्रसारिमूल बीजवापः श्रेष्ठः एवं यत्र क्षेत्रे उपरि प्रसारिमूलबीजवापः कृतोभवेत्तत्रैव पुनः उपरिप्रसारिमूल बीजोप्तिरयुक्ता किन्तु तत्राऽधोगामिमूल बीजोप्तिरुत्तमेति | एतेन भूशक्ति रक्षणमपि गदितम् | इति त्रयोप्युपायारागदितास्तत्र रक्षणप्रकारमाह | रक्षणमिति || ७ ||
अब तीसरा खेतीका बीजनामा पाद कहा जाता है | एक बीज ( दाना ) अनेक होकर सदा वढता है अतः || १ ||
उसको चराचर जगत में बीज कहते हैं | वह अधिक खेती वढनेके और अधिक अन्नादि प्राप्त्यर्थ बीज महिमज्ञों ने पुष्ट अच्छा कहा है || २ || जैसे रोगी और मर्यादा रहित भोगासक्त ,कृशाङ्ग, कच्ची अवस्था वाले मनुष्य की सन्तान प्रतिदिन क्षीण से भी क्षीण होती चली जाती है || ३ || एवं अपुष्ट और घुण , जलविन्दुओं से भीगने और वायु के निकल जाने से निःसत्व और कच्चे बीज की भी थोड़ी और विरली खेती अति कमजोर होती है || ४ ||
अतः बीज में किंचित् भी अयोग्य बीज नहीं मिलना चाहिये , कारण वह एक भी अयोग्य बीज संपूर्ण उत्तम बीजको विगाड़ देता है , जैसे किंचित् काँजी मनों दूध को विगाड़ देती है। तिससे सम ( वरावर ) पके हुए बीजका संग्रह करै || ५ || और बीज माहात्म्यज्ञ जनोंने उत्तम बीज लाभार्थ तीन उपाय कहे हैं। १ उत्तमोत्तम बीजका उत्पादन ( बीन कर इकठ्ठा करना ) २ और उसीका पुनः यत्नसे घुण और तरी से रक्षा करना , ३ लौट २ कर बीज वोना अर्थात् जिस खेत में नीचेको अत्यन्त फैलने वाली जडोंवाले बीज ज्वार मका ईख आदि बोये जाँय उस खेत में पुनः उक्त बीज ही नहीं वोए किन्तु जौ , गेहूं आदि ऊपर ही फैलनेवाली जडोंवाले वोए जिससे जमीन में शक्ति बनी रहै || ६ || और बीजको भस्म ( राख ) में या भुस में सदा स्थापन करै। जिससे घुण और शरदी नहीं सतावै || ७ ||
॥ बीज संग्रह काल कथनम् ॥
माघ फाल्गुन वैशाख ज्येष्ठे बीजानि संग्रहेत् ॥
बीजस्थापन विधिः |
तापयेदातपे तीव्रे रात्रौ वाऽऽच्छादयेत्कृतिः ॥ ८ ॥
मणिका मध्यगं रुध्वा शोषयेच्च पुनः पुनः ॥
बीजे न मेलयेद्धान्यं शुद्धस्थाने च स्थापयेत् ॥ ९ ॥
पृथक् विमिश्रितं बीजम्फलनाशकरं धृतम् ॥
एकरूपन्तु यद्बीजं फल भवति निर्भरम् ॥ १०॥
बीज संग्रह कालमाह । माघेति । संग्रहेत् संग्रहं कुर्यात् । नाम धातु प्रयोगोऽयम् । आच्छादयेद्वस्त्रादिना ॥८ ॥ बीजे धान्यमेलनं न कुर्यादित्याह । मणिकेति । किन्तु शुद्धस्थाने स्थापयेत् रक्षयेत् ॥ ९ ॥ पृथक् धान्याच्छोधितम् । पुनः स्थापनकाले केनाऽपि कारणवशेन तस्मिन्नेव विमिश्रितम्। अथवा धृतं चिरकालात् स्थापितम् ॥ १०॥
माघ ,फाल्गुन ,वैशाख ,ज्येष्ठ में बीजों का संग्रह करै और तीव्र घाम में सुखावै रात्रिमें वस्त्रादि से ढक देवै ॥ ८॥
मटिका में स्थापन कर और मृत्तिका से मुख बन्द कर पुनः पुनः सुखावै तथा बीज में साधारण अन्न का बीज न मिलावै और शुद्धस्थान जहां तरी आदि का भय नहीं हो तहां स्थापन करै ॥ ९ ॥ एक २ कर वीना हुआ पुनः किसी कारण वश स्थापन समय मिलाया हुआ अन्न में और अति प्राचीन बीज फ़ल नाश करता है । अतः एक रूप जो बीज होता है वह अच्छी भांति फल देता है ॥ १०॥
एक रूपं प्रयत्नेन तस्माद्बीजं समाहरेत् ॥
सतृणं यावनालादि निस्त्रिणं च यवादिकम् ॥ ११ ॥
धृतं सद्वापकाले च निस्त्रिणन्तु समाचरेत् ॥
अच्छिन्न तृणके ह्यस्मिन्कृषिः स्यात् तृणपूरिता ॥ १२ ॥
स्थापयेच्च प्रयत्नेन यथा भूमिं च न स्पृशत् ॥
न वल्मीके न गोष्ठे च न प्रसूतागृहे तथा ॥ १३ ॥
न वन्ध्या युवती गेहे बीजस्थापनमाचरेत् ॥
बीजस्थापन मुहूर्तम् ।
हस्तचित्रादिति स्वाति रेवती श्रवण द्वये ॥ १४ ॥
स्थिरे लग्ने गुरौ शुक्रे बीजं धार्यं ज्ञ वासरे ॥
नोच्छिष्टः संस्पृशेद्बीजं नच नारी रजस्वला ॥ १५ ॥
न वन्ध्या गर्भिणी चैव न च सद्यः प्रसूतिका ॥
घृतं तैलं च तक्रं च प्रदीपं लवणं तथा ॥ १६ ॥
बीजोपरि भ्रमेणाऽपि कर्षको नैव कारयेत् ॥
दीपस्पृष्टदुष्ट बीजत्याग कथनम् ।
दीपाग्निना च संस्पृष्टं वृष्ट्या चोपहतं च यत् ॥ १७ ॥
एक रूप बीजस्य फलावाप्तिरधिका भवतीत्युक्तमित्यत आह । एकेति । तत्र यावनालादि जूर्णादि ॥ ११ ॥ धृतस्य सतृणस्य यावनालादेर्बीजस्य निस्तृणीकरणमाह । धृतमिति । यतः अच्छिन्नतृणकेऽस्मिन्बीजे ॥ १२ ॥ यावनालादि बीजस्थापन क्रियामाह । स्थापयेदिति । प्रयत्नेन तद् गुणादि बन्धनेन । स्थापन योग्य स्थानमाह । न वल्मीक इति ॥ १३ ॥ बीजस्थापन मुहूर्तमाह । हस्तेति । अदितिः पुनर्वसुः । श्रवणद्वये श्रवण धनिष्ठाख्ये । स्थिरे वृष सिंह वृश्चिक कुम्भाख्यान्यतमे । ज्ञ वासरे बुध दिने । अपूतोबीजं न स्पृशेदित्याह । नोच्छिष्ट इति ॥ १४ ॥ १५ ॥घृतादिना वर्जयेदित्याह । घृतमिति ॥ १६ ॥ दीपाग्निनादित्यस्य त्यागमाह । दीपेत्यादि ॥ १७ ॥
तिससे एक रूप बीज यत्न से गृहण करै । ज्वार आदिका बीज तृण सहित ( भुण्टा वाल रूप ) और यवादि तृण हीन करै ॥११ ॥ किन्तु बोने के समय तृण सहित को निस्तृण कर लेवै | कारण तृण युक्त बीज के बोने से तृण पूर्ण ही खेती होती है ॥ १२ ॥ किन्तु सतृण बीजको ऐसे स्थापन करै जैसे भूमि का स्पर्श न
होवै और बांबी ,गोशाला , प्रसूतिगृह , वन्ध्या स्त्री के गृह में बीज नहीं स्थापन करै और हस्त , चित्रा , पुनर्वसु ,स्वाति, रेवती , श्रवण , धनिष्टा नक्षत्र ॥ वृष, सिंह, वृश्चिक, कुम्भ लग्न गुरु , शुक्र , बुधवार को बीज स्थापन करै | परन्तु उस बीज को उच्छिष्ट मुख से पुरुष और रजोवती स्त्री , वन्ध्या ,गर्भिणी , शीघ्र की प्रसूता स्त्री नहीं स्पर्श करै | बीज के ऊपर घृत , तैल , तक्र ( छाछ ) दीपक , लवण ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ भ्रम से भी कर्षा नहीं करै न करावै कारण दीपके अग्निसे स्पर्श किया और वर्षा के जलसे बिगड़ जाता है ॥ १७ ॥
|| बीज संग्रह स्थापन मुहूर्त चक्रम् ||
माघ ,फ़ाल्गुन , वैशाख , ज्येष्ठ , | संग्रह कालः |
हस्त चित्रा स्वाति पुनर्वसु श्रवण धनिष्ठा रेवती | नक्षत्र स्थापने शुभम् |
वृषभ , सिंह , वृश्चिक , कुम्भ , लग्नानि | शुभानि |
२ , ३ , ५ , ७ , ८ , १० , १२ , १३ ,तिथि, बु ,गु , भृगु | वार शुभाः |
वर्जनीयन्तथा बीजं यद्गर्ते विनिधापितं ||
सर्वे ते वन्ध्यतां यान्ति बीजे वन्ध्यत्व मागते ||१८ ||
कृषाण सार केदार वृष लाङ्गल खादयः ॥
तिल धान्य यवादीनां विधिरेषः प्रकीर्तितः ॥ १९ ॥
बीजे यत्नमतः कुर्याद्बीजमूलाः फलादयः ॥
बीज संख्या कथनम् ।
पूर्वं सप्तैव जातानि ग्राम्य बीजानि भूतले ॥ २० ॥
तथा वन्यानि कालेन पुनर्भूतान्यनेकशः ॥
बीज वन्ध्यतया कृषाणाद्यां अपि वन्ध्या इत्याह । सर्वेते इत्यादि ॥ १८ ॥ १९ ॥ अतो बीजे यत्नः कार्य इत्याह । बीजे यत्नमिति । ग्राम्य बीजानि वन्यानिच सप्तैव पूर्वं जातानि तानि प्रथमाध्याये विष्णुपुराण वाक्यतः स्पष्टीकृतान्येव टीकायाम् ॥ २० ॥
तथा गढ्ढे में रक्खाहुआ बीज बीजमहिमज्ञों ने वर्ज्य कहा है । क्योंकि एक बीजके विगड़ने से समस्त ॥१८ ॥कृषाण ,सार (खात ) क्षेत्र ,वृष ,हल ,मुहूर्त ,निस्तृणीकरण (नराई – नदानी ) वर्षा ,रक्षा आदि वन्ध्या
( निष्फल ) हो जाते हैं यह तिल -धान्य- यव -ज्वार आदि बीजों का विधि कहा है ॥१९॥ अतः बीज के संग्रह और रक्षा आदि में भली भांति यत्न करै कारण -बीज के अधीन ही फल आदि हैं । संसार की आदि में ग्राम्य जो ग्राम के पास की भूमि में ग्राम वासियों के बोने योग्य सात ही बीज उत्पन्न हुए और ॥२०॥ सात ही बीज वन्य जो वनों ( जंगल ) में आप ही उत्पन्न होने वाले भूमि पर प्रजा की न्यूनता वश ईश्वर की कृपा से स्वयं उत्पन्न हुए । पुनः ज्यों २ प्रजा की अधिकता होती गई तैसे २ ही काल वश अनेकशः ग्राम्य बीज और वन्य बीजों की अधिकता हुई यह बात प्रथमाध्याय के टीका ग्रन्थ में विष्णुपुराण वाक्य से कह चुके हैं ॥
षड्विध बीजं ।
पर्वाग्र मूलसम्मूर्छ कन्द बीजक भेदतः ॥२१॥
तान्यपि षड्विधान्येव मतानि मुनिपुङ्गवैः॥
द्विविध बीजम् |
उप्यानुप्य प्रभेदेन द्विधान्येव च तानि वै ॥२२॥
तानि सङ्क्षेपतो वच्मि कृषकाणां हिताय च ॥
गृह्योपवन्य स्नेहानां जनानां रञ्जनाय च ॥२३॥
पुनश्च कालान्तरे तान्येवाऽनेकशःसञ्जातानीत्याह || कालेनेति | पर्वाग्रादि भेदात् || २१ || तान्यपि अनेकशोजातान्यपि षड्विधान्येव | तथाच हेमचन्द्रः | कुरन्टाद्या अग्रबीजा मूलजास्तूपलादयः ||पर्व्वयोनय इक्ष्वाद्याः स्कन्दजाः शल्लकीमुखाः ॥ शाल्यादयो वीजरुहा सम्मूर्छाजास्तृणादयः । स्युर्व्वनस्पतिका यस्य षडेते मूलजातयः ॥इति॥ अग्रं काण्डाग्रमेव बीजं येषान्ते | पर्वग्रन्थिरेव योनिर्येषान्ते तथोक्ताः | सम्मूर्छायाः संव्याप्तेर्जायत इति तदर्थः || तानि षड्विधानि ||२२|| तानि विधानि । गृहेभवा गृह्याः उपवनेभवा उपवन्याः । तेच ते तयोः स्नेहः प्रेम येषान्तेषाम् ॥२३ ॥
पूर्वोक्त ग्राम्य और वन्य चतुर्दश जो काल से अनेक हुई तिन्हों के भेद जैसे १ पर्व अर्थात् जो ग्रन्थि से उत्पन्न होते हैं यथा ईख -गन्ने इत्यादि | २ अग्र जो शाखा काट कर जमीन में गाड़े वे हैं अथवा शाखापर शाखा काट कर जिनकी लगाई जाती है जैसे पियावास , गुलाव ,कलमीआम ,नारंगी आदि | ३ मूलजाति जो ( जड़ ) लगानेसे बढ़ते फल फूल देते हैं ,जैसे ,कमल आदि | ४ सम्मूर्छज जाति ,जो बिलकुल भूमि रूप हो कर उपजते हैं जैसे गिजाई ,खटमिल की भांति तृण ( घास ) आदि , जो निर्बीज हो | ५ कंदज जाति जिसका कंद ही लगाया हो ,जैसे सलई का वृक्ष , आलू , घुईआ आदि | ६ बीजजजाति जिसका बीज बोया जाय ,जैसे गेंहू ,जौ ,ज्वार, मका ,आदि छः प्रकार के ही मुनीश्वरों ने माने हैं | परन्तु छः भांति की भी वनस्पति उप्य ( जो लगाई बोई जाती है ) अनुप्य ( जो स्वयं उपजती है ) भेद से दो ही प्रकार की है ॥ २१ ॥२२ ॥ उन दोनों भांति की वनस्पतियों को संक्षेप से कहता हूं कृषाणों के हित और गृह्य ( जो गृह में गमलें आदि में लगाई जाती है ) उपवन्य ( जो बगीचों आदि में लगाई जाती है ) वनस्पतियों के प्रेमी जनों के विनोद के लिये ॥२३ ॥
गृह्योपवन्य बीजकथनम् |
चमेली मालती मल्ली मदयन्ती च मुद्गरः ||
नेपाली माधवी यूथीवासः श्चामूलजा सुमाः || २४ ||
तरुणीस्थल पद्मञ्च पर्वजाऽथ च बीजजा ||
झण्डुको बन्धुजीवश्च सिद्धेशो वर्हपुष्पिका || २५ ||
सिन्दूरपुष्पिका वृन्दा फणी दमनकादयः ||
अन्यदेश समानीता गृह शोभाभिलाषुकैः || २६ ||
उप्यन्ते च गृहारामे तस्माद्गृह्योपवन्यकाः ||
पर्वोघ्रिजा `जपा मूलजा चम्पा कुन्द केतकि || २७ ||
तत्र गृह्योपवन्या उच्यन्ते | चमेलीत्यादि सार्धश्लोकत्रयेण | मदयन्ती वार्षिकी | एतामूलजामूलजाताश्चताः सुमाः पुष्पजातयश्चतास्तथोक्ताः ||२४ || तरुणी सेवती ,स्थलपद्मं गुलाव इति प्रसिद्धञ्चेति द्वे पर्वजा पर्व समुद्भवा ग्रन्थि समुद्भवा इत्याशय इक्ष्वादिवदनुप्यत्वात् | अर्थादनयोः शाखैवोप्यते | झण्डुकः कलङ्गा | बन्धुजीवः पुत्रजीवः | सिद्धेशो गुलतुर्रेति प्रसिद्धः | वर्हपुष्पिकेति द्वितीयो परको गुलतुर्रा || २५ || वृन्दा तुलसी | फणी मारवकः | एता बीजभवाः पुष्पजातयः | किङ्चाऽन्यदेशाद्द्वीपान्तरादेः समानीता वैलायतिकैर्जनैरितिशेषः | ता अपि गृहारामे गृहे चारामे चोप्यन्ते तस्माद्गृह्योपवन्यकाः | तत्र गृहे कण्टकि पलाश करवीर दाडिमी मल्लिका कदली प्रभृतयोऽनुप्या दारिद्र्य जनकात्वात् | तथा च लैङ्गे अलक्ष्मीतिहासे अलक्ष्मीपतिं दुःसहशर्माणं प्रति मार्कण्डेयोक्तिः |
यत्र कण्टकिनो वृक्षा यत्र निष्पाववल्लरी । निष्पाववल्लरी पावटेति वल्ली विशेषः |
ब्रह्मवृक्षश्च यत्रास्ति सभार्यास्त्वं समाविश ॥ २,६.४६ ॥
अगस्त्यार्कादयो वापि बन्धुजीवो गृहेषु वै ।
करवीरो विशेषेण नन्द्यावर्तमथाऽपि वा ॥ २,६.४७ ॥ अर्कादयोदुग्धवृक्षविशेषाः | बन्धुजीवः पुत्रजीवः | नन्द्यावर्तस्तगरः |
मल्लिका वा गृहे येषां सभार्यास्त्वं समाविश ।
कन्या च यत्र वै वल्ली द्रोही वा च जटी गृहे ॥ २,६.४८ ॥ मल्ली वेलाविशेषो निवाली विशेषार्थे ज्ञेया | कन्या अपराजिता कोरफ़ोडा इति प्रसिद्ध वल्ली विशेषा | वल्ली अजमोदा | द्रोही निम्बः | जटी जटामांसी |
बहुला कदली यत्र सभार्यस्त्वं समाविश ।
तालं तमालं भल्लातं तिन्तिडी खण्डमेव च ॥ २,६.४९ ॥
कदंबः खादिरं वापि सभार्यस्त्वं समाविश ।
न्यग्रोधं वा गृहे येषामश्वत्थं चूतमेव वा ॥ २,६.५० ॥
उदुंबरश्च पनसः सभार्यास्त्वं समाविश । इति कुन्दकेतकीत्यत्र समाहार द्वन्द्व नपुंसकाद्ध्रस्वम् ॥२६॥२७॥
प्रथम जो गृह में और बगीचाऔं में लगाई जाती हैं वे कहते हैं । चमेली मालती ( पीली चमेली ) ,
मोतिया -घुघुरु मोतिया ,बेला , मोगरा ( हजारा बेला ) निवारी , माधवी , ( बसंती बेला ) जुही , बसंती मालती , ये मूल से उत्पन्न पुष्प जाती हैं ॥२४॥ सेवती गुलाव (गुलाव सर्व प्रकार के ) पर्वज ( अग्रज ) अर्थात् इनकी लकडी लगाई जाती है | अब बीज से उत्पन्न होने वाली पुष्प जाति कहते हैं | कलंगा , जीयापोता , गुलतुरा , गुल्परी
( द्वितीय भांति का गुलतुर्रा ) ॥ २५ ॥ सिन्दूरिया , तुलसी , मरुवा , दौना ,आदि अनेकविध और द्वितीय टापू , देश , पर्वतादियों से गृह ( बंगला ) आदि शोभित करने के लिये जो बिलायती जाती की लाईं और प्रसिद्ध की हुई बिलायती फ़ूल पत्ते आदि के वनस्पति पर्व , मूल , अग्र , काण्ड , सम्मूर्छज , कन्दज भेद के गृह और बगीचों में लगाये जाते हैं अतः वे भी गृह्य और उपवन्य कहाते हैं ॥ २६ ॥ परन्तु प्राचीन शास्त्र में उक्त वृक्ष और अग्रे कथनीय वृक्ष जातियों में बहुत से गृह में नहीं भी लगाने योग्य कहे हैं | जैसे काण्टे के वृक्ष वव्वूल , बेर , बेल , गुलाव , अनार आदि , ढाक , करनेर , केरा , बेला , निवाली ,आम , नींब , वट , पीपल , गूलर , पिलुखन , ताल , तमाल , भिलावा , जटामांसी , सफ़री , अजमोद , कदम्ब , खैर , कठेर , वढेर , आदि | कारण इनके लगाने से दरिद्रागमन आदि फल प्राप्ति लिखी है | तिसमें प्रमाण नारायण भाष्य में लिङ्गपुराण का वाक्य और अन्यत्र भी प्रमाण मिलते हैं | अब पर्वज और मूलज जपा ( गुडहर )चम्पा ,कुन्द ,केतकी , पुष्प जातियों में मूलज हैं ॥ २७ ॥
आरामवीथिकान्ताभूम्यारोप्या कथिता बुधैः॥
मूलजे पद्मकुमुदे स्थाप्येवापी सरस्सुच ॥२८॥
वकुलः शिवमल्ली च मुचुकुन्दकदम्बकौ ॥
तिलकः किंकिरातश्च पुन्नागः शोकनाशनः ॥२९॥
बुधैस्तदारोपण क्रिया कुशलैः ॥२८॥ शिवमल्ली बृहद्वकुलः ॥२९॥
गुडहर आदि पूर्वोक्त पुष्प जाति के वृक्ष बगीचों में बड़ी २ रोस पट्टियों के पास की भूमि ( बरहों ) में लगाए जाते हैं ऐसा वृक्षारोपण कर्मज्ञ जनों ने कहा है | और मूल ( जड़ ) जन्य जातियों में पुष्पजाति कमल , कमोदिनी , ( वगुली ) वावली ,तालावों में लगाए जाते हैं ॥२८॥ बोलसिरी , बड़ी बोलसर , मुचुकुन्द ,कदम्ब, तिलक , किंकिरात , पुन्नाग ( मुलतानी चम्पा ) अशोक ,॥२९॥
बीजजा अग्रबीजोत्थास्सैरेयक कुरण्टकौ ॥
नीलपुष्पी कुरुवकौ तदन्ते मध्यतोऽन्यतः ॥३०॥
अगस्त्यहारशृङ्गारौ बीजाग्रजौ च मध्यगे ॥
वाटिकावारभूपार्श्व अर्जकोबीजजस्तथा ॥३१॥
बीजपर्व समुद् भूति कर्णिकारामतोबुधैः ॥
बीजजः करमर्दश्च कोलः सम्मूर्छजस्तथा ॥३२॥
करञ्जोवाटिकाबन्धे वेणुस्थाप्यश्च बीजजः ॥
बीजाङ्घ्रिजा च कदली स्थाप्या कूपादिपार्श्वके॥३३॥
तदन्ते वकुलादीनां समीपे | अन्यतोऽन्येषामगस्त्यादीनां मध्यतोमध्ये ॥ ३०॥अर्जकः श्वेतार्जकः॥ ३१॥ ३२॥ ३३॥
बीजज जातियों में वकुल आदि गुडहर आदि के पास तखतों में लगाए जाते हैं और अग्र , बीजसे जन्य सैरेयक ( श्वेतपुष्प का पियावांस ) कुरण्टक ( पीतपुष्प का पियावांस ) नीलपुष्पी ( नीलपुष्प का पियावांस ) कुरुवक ( लालपुष्प का पियावांस ) वकुल ( वौलसिरी ) आदि के पास और अगस्त्य आदि के मध्य भूमि में लगाए जाते हैं ॥ ३०॥ अगस्त्य ,हारसिंगार , बीजज और अग्रज जाति मध्यमें अर्थात् गुडहर आदि के वरहों के पास और पियावासों के मध्य में लगाए जाते हैं | और बगीचों के बन्ध ( डोरे ) के पास की भूमि में बीजजाति अर्जक सफ़ेद फ़ूल और कृष्ण फ़ूल का ” जिसको ववईन वनतुलसी कहते हैं ” वोया जाता है ॥३१ ॥ बीज तथा लकडी से उत्पन्न पीतपुष्प ,श्वेतपुष्प ,कृष्णपुष्प ,रक्तपुष्प आदि जातीय करनेर और बीजज जाति करौंदा ,तथा सम्मूर्छज वेर ,॥३२॥ कञ्जा , एवं बीजज जातिके बांस बगीचे के बन्धों ( डोरों ) पर स्थापनीय होते हैं | और बीजज ,मूलज जाति केराके वृक्ष कूप आदि के पास लगाने योग्य हैं ॥ ३३॥
लवङ्गपूगकौ जातीफ़ल मुष्टिप्रमाणकौ ॥
बातादो दालचीनी च हरफ़ारेबडी तथा ॥३४॥
फलेष्वग्रभवाह्येते अनन्नासश्च आरुकः ॥
अक्षोटोदाडिमी पेरुः खर्जूरोनारिकेलकः॥३५॥
मुष्टि प्रमाणकः सेव इति प्रसिद्धः ॥३४॥ पेरुरमरूदः ॥३५॥
लौंग , सुपारी ,जायफ़ल ,सेव , बादाम , दालचीनी , हरफा रेवड़ी ,॥३४॥
ये फल जातियों में अग्रज जाति और अनन्नास ,आलूवुखारा ,अखरोट ,दाडिमी ,अमरूद , ( सफरी ) खजूरी , छुहारे ,नारियल ॥३५॥
आम्रातको बीजपूरस्तित्तिडी चाम्लवेतसः॥
पनसोलिकुचस्तिन्दुर्निम्बूर्जम्मीरिकाऽपिच॥३६॥
पर्वजोऽपि च नारङ्ग आम्रश्च पीलुकोमधूः॥
कपित्थः कर्मरंगोलवली सीताफलस्तथा ॥३७॥
प्राचीनामलकोराजादनश्चारालिका तथा ॥
विकङ्कतश्च लवनी निकोचोऽञ्जीर एवच ॥३८॥
परूषः पर्वजश्चाऽपि पारेवतश्च निर्मली ॥
श्लेष्मातकश्च धात्री च जम्बूश्चैवविभीतकः॥३९॥
काजूतकश्च बीजोत्था मध्यारोप्याः प्रकीर्तिताः॥
फलेषु मण्डपी रोप्या केदारीषु सदा बुधैः ॥४०॥
द्राक्षांगूरौ द्वाश्छदिषु रोप्यौ बीजाग्रजौ सदा॥
तूतोऽपि काष्ठवृक्षाश्च कथ्यन्ते च समासतः॥४१॥
वन्यौपवन्य बीजोक्तिः -—
वन्याश्चैवोपवन्याश्च शल्लकी कन्दजा मता ॥
तमालतूणी पालाश जिंगिणी भूर्जपत्रकाः ॥४२॥
धवः करीरशाकोटौ कटभी मुष्ककस्तथा ॥
हरिद्रुः साजडोमाण्टो रुद्राक्षः सप्तपर्णकः ॥४३॥
॥३६॥ मधूः मधूकः लवली हरफारेवडी | अग्रभवात्वाद्बीजसमुद्भवात्वाच्च नात्र पुनरुक्तिः ॥३७॥
लवनी रामफ़लम् | निकोचः पिस्तकम्॥३८॥३९॥मध्यारोप्या वाटिकासु मध्ये आरोप्याः| मण्डपी मूंगफ़लीति प्रसिद्धा ॥४०॥ द्वाश्छदिषु द्वारच्छदिषु ॥४१॥४२॥४३॥
अंवाड़ा ,बिजौरा , अमिली , अम्लवेत , कटहर , लिकुच ,( बड़हर ) तेंदू , निम्बू , जंभीरी ,॥३६॥ कलमी और बीजजन्य नारंगी , आम्र , पीलू , महुआ , कैथ , कमरख , हराफारेवडी , सीताफल ,॥३७॥ पानीआमला ,खिरनी , चिरोंजी , कण्टाई , रामफ़ल , पिस्ता , अंजीर ,॥३८॥ कलमी और बीजज फालसा , पारेवत , निर्मली , लिसोड़ा , आंवला , जामोन , बहेड़ा ,॥३९॥ काजूतक , अनन्नास , आदि बीजजाति बगीचों के मध्य भाग में लगाए जाते हैं | और फल जातियों में बीजज मूंगफली क्यारियों में लगाईं जाती हैं ॥४०॥ बीज और कलम जन्य दाख , अंगूर बगीचों के द्वारों की छत्तोंपर या टट्टियों पर फेलाए जाते हैं | तूत , भी बगीचों के मध्य भागमें लगाए जाते हैं | अब संक्षेप से काष्ठवृक्ष कहे जाते हैं ॥४१॥ जो वन में स्वयं हो जाते हैं और बगीचों में लगाए जाते हैं कन्दज जाति शल्लकी ( सलई ) तमाल ,तुन , ढाक , जिंगिणी , भोजपत्र , ॥४२॥ धौ , करीर , सिहोरा , करही , ( हरमल ) मोपा , ( फरवाह ) हलदू , कोह , माड , रुद्राक्ष , सतोना , ( सतवन ) ॥४३॥
तिनिशश्चित्रकः शाकोवरुणादिस्तथाद्रुमाः॥
सम्मूर्छजाः समाख्याता प्रायोवृक्षविचिन्तकैः॥४४॥
पिप्पलः पारिशोनन्दीवृक्षः प्लक्ष उदुम्बरः ॥
काष्ठोदुम्बरिकाऽरिष्टः शिरीषः शिंशिपाऽर्जुनः॥४५॥
असनः खादिरः पुत्रजीवो वव्वूल एव च ॥
इंगुदी जिङ्गिणी तूणी तमालोभूर्जपत्रकः॥४६॥
शमी शाल्मलिका शाकः शाकोटश्च करीरकः॥
धव इत्यादयो वृक्षाः सदा वन्यौपवन्यकाः ॥४७॥
बीजजा मूर्च्छजाः काचिदौषधीनथ वच्मि च ॥
औषध बीज कथनम् —
गुडूची पर्वजा निम्बे मूलजा नागवल्लकी ॥४८॥
आश्रयस्था उशीरश्च शोभाञ्जनोथ कन्दजाः॥
मुस्तौषधिरार्दकश्च कथ्यन्ते बीजजा अथ ॥४९॥
चन्दनन्देवदारुश्च गुग्गुलुःकुन्दरुस्तथा ॥
एला जातीफलोनागकेशरश्चैलवालुकः॥५०॥
कंकोला रेणुका ताली शामरीच विडङ्गकौ ॥
गुञ्जा पथ्याऽऽरग्वधश्च पिप्पली कुटजस्तथा ॥५१॥
भूनिम्बोलोध्रभल्लातौ विल्वशोभाञ्जनौ तथा ॥
महानिम्बश्च कैडर्यो निम्बश्च काञ्चनारकः ॥५२॥
तिरिच्छ ( तितसुना ) चित्रक, शांगोन , वरुण , इत्यादि तमाल आदि वृक्ष मूर्छज जातिके हैं ऐसा वृक्ष विज्ञ मनुष्यों ने कहा है ॥४४॥ पीपल , पार्श्वपीपल , नंदीवृक्ष , पिलखुन , गूलर , कठूमरि , रीठा , शिरस , सीसौ , अर्जुन , ( कौह ) ||४५ || विजयसार , खैर , जियापोता , ववूर , हिंगोट , ( गोदी ) जिंगिणी , तुन , श्यामतमाल , भोजपत्र , || ४६|| छोकर , शेमर , शांगोन , शिहोरा , करीर , धौ इत्यादि वृक्ष सदा बगीचों में लगाए जाते हैं और वन में तौ स्वयं पैदा होते हैं || ४७|| इनमें कितने ही बीजज और कितने ही मूर्च्छज जाति काष्ठ वृक्ष हैं | अब औषधियों को कहते हैं | पर्व जन्य जाति गिलोय नींवके वृक्षके ऊपर फैलायी हुई उत्तम होती है | मूलज जाति पान ( नागवेल ) ||४८|| टट्टियों के आश्रय से रहती है | उशीर ( गांडर ) सहंजनें , और कन्दज नागरमौथा , शुण्ठी , अदरख , अब बीजज जाति कहते हैं ||४९|| चन्दन , देवदारु , गूगुल , कुन्दुरु , इलायची , जायफ़ल , नागकेशर , एलुआ , ||५०|| कंकोल , रेणुका , तालीश , स्याहमिरच , वायविडङ्ग , चौटनी , हरड, अमलातास , पीपली , कोरैया ,||५१|| चिरायता , लोध , भिलावा , बेल , सहजने , वकायन , मीठानीम , नीम , कचनार ,||५२||
केचिद्वन्यौपवन्याश्चौपवन्यावन्यकास्तथा ||
केचिन्नदी नगोद्भूताः कथिता ये तु तत्र वै ||५३||
|| क्षेत्रज बीज कथनम् ||
केदारेषुच ये लभ्या वसन्ते कर्षकैर्जनैः ||
निगद्यन्तेऽधुना ते हि लोकानां च हिताय च ||५४||
यवोव्रीहिश्च गोधूमोमसूरश्चणकः कसः ||
आढकी मुण्डचणकोऽतसी सर्षपधूम्रकौ ||५५||
राजिका बीजजाः शस्यजातयः समुदाहृताः ||
मेथिका शतपुष्पा च यवानी शतपुष्पिका ||५६||
पीतकूष्माण्डकः क्लिन्दः कर्कटी च दशाङ्गुलः||
वृन्ताकोबीजभूः शाकेचानुप्यो वास्तुकस्तथा ||५७ ||
बीजकन्दोद्भवा मूलपलाण्डुलसुनस्तथा ||
आफूकश्चैव शारद्या लभ्या क्षेत्रेषु ये नरैः||५८||
|| शारद्य बीजोक्तिः||
प्रोच्यन्ते तेऽधुना शालिर्व्रीहिर्जुर्णा च बर्जरी ||
मुद्गोमकृष्टकोमापो राजमाषोहि चाढकी ||५९||
कुलित्थकङ्गुनीचीनास्तिलो मण्डूक कोद्रवौ ||
तिली वरकश्यामाकौ मकायः कटुकी तथा ||६०||
बीजजा लोणिका चुक्रस्तण्डुलीयश्च पोदिका ||
पालङ्क्योऽरण्यवास्तूको मूलजो पत्रवालकः ||६१||
पोदीनः पत्रशाकानि मतानि मुनिपुङ्गवैः ||
कूष्माण्डः पीतकूष्माण्डोऽलावूस्तुम्बी च कर्कटी ||६२||
||५३|| इदानीं केदारोप्य धान्यजातय उच्यन्ते | केदारेश्वित्यादि सप्तदश श्लोकैः || ५४|| ५५|| ५६|| ५७||
||५८|| ५९||६०|| ६१|| ६२||
उक्त औषधि वृक्षों में कितने ही वनजन्य और कितने ही बगीचों में लगाने योग्य हैं और कितने ही नदी और पर्वत पर ही रहने वाले हैं || ५३|| अब जो खेतों में वसन्त ( वैशाखी – उंदालू ) में कृषाणों को प्राप्य हैं वे लोक हितार्थ कहे जाते हैं ||५४|| जौ , जई, गेंहू , मसूर , चणा, कसो , अडहर, मटर , अलसी , सरसों , दुँआँ, ||५५||
राई ,ये बीजज शस्य जाती कहीं हैं | मेथी , सोया , अजवायन , सौंफ , ||५६|| पीरेकद्दू , तरबूज , ककडी , खरबूजा , बेंगन ,ये बीजज शाक और बीजजों में बिना वोया बथुआ शाक ||५७|| बीजज-कन्दज शाक मूली , प्याज , लसन , अफीम , अब शारद्य ( कार्तिकी-श्यालू ) फ़सली ||५८|| कहे जाते हैं जो अनेक जातीय धान , व्रीहि ,धानकी जाति अनेक भांति की होती है , ज्वार , बाजरा, मूंग , मोठ , उर्द , रमास , अडहर,||५९|| खुत्थी (कृष्ण धान्य ) कंगुनी , चेना , तिल ,मंडुआ , कोदों , सफेद तिल ,वरक , { चेना की जाति } शमा , मक्का , कटुकी , ( क्षुद्र अन्न ) ||६०|| ये बीजज और लोनिया , चूका , चौलाई , पोई , चन्दन , वथुआ , परन्तु पत्र शाकों में ( च ) से अनुक्त लेसुआ आदि भी का ग्रहण है और मूलज पत्र शाक आदि ||६१|| पोदीना ये मुनीश्वरों ने पत्र शाक माने हैं | अब फल शाक कहे जाते हैं | पेठा , पीरे कद्दू , लौका ( कदुइआ ) कडवी तोंबी , ककडी , ( अनेक जाति की होती है पर इसको अरई भी कहते हैं ) || ६२ ||
त्रपुसं सेंधफूटाख्ये कर्चरी द्वादशाङ्गुलम् ||
क्लिन्दः कोशातकी घोषश्चिचिण्डोटिण्डिशस्तथा||६३||
ककोडा च पटोली च कारवेल्ली च भिण्डिकः ||
वृन्ताकः फलशाकेषु बीजभूजातयः स्मृताः ||६४||
गोराणी शिम्बिका शिम्बिशाके प्रोक्तेच मूलिका||
शृङ्गाटोमूलजः प्रोक्तोबीजजोगर्जरोमतः ||६५ ||
शूरणश्चालुकोरक्तालुश्च शर्करकन्दिका ||
अग्रजा कोशकन्दश्च विदारी च कसेरुकः||६६||
कन्दजः शाकवर्गोऽयं कुसुम्भोनीलकस्तथा ||
बीजजावग्रजा रात्री रागशस्यगणः स्मृतः ||६७||
कार्पासी वातशत्रुश्च भङ्गागन्जाच चिल्हिका ||
बीजजा शस्यजातिश्च कथिता मुनिसत्तमैः ||६८||
एतत्संक्षेपतः प्रोक्तमनुप्यानैकजातयः ||
अगारण्यनदीतीर समुद्भूताः स्वयं यतः||६९||
यदीच्छेत्ताः समावप्तुं सफलाः सम्भवन्ति च ||
ज्ञात्वा यत्नविधानेन ततः कुर्याच्च संग्रहम् ||७०||
इति दाशरथी कृतिषु कृषिशासने कृषेस्तृतीय बीजनाम पाद कथनं नाम
पञ्चमोऽध्यायः || ५ ||
||६३||६४||६५||६६||६७||६८||६९||७०|| इति श्री नारायण भाष्य सहिते कृषिशासने बीजाख्य तृतीय पाद कथनं नाम पञ्चमोऽध्यायः
खीरा , सेन्धा , फ़ूट कचरिया , शरदा , कलीन्दो , नसीली तोरई , घिया तोरई , चचेंडा , ढेंढस , ||६३|| ककोडा , परवल , करेला , भिन्डी , बेंगन , फलशाकों में ये बीजज जाति हैं ||६४ || ग्वार , सेंमये , शिंवी ,( फली वाले ) शाक हैं और मूली, शिंगारे ,मूलज और बीजज गाजर ||६५|| जमीकन्द ,आलू , रतालू , शकरकन्दी , अंगीठी , अग्रज जाति के विदारीकन्द ,कसेरु , ये कन्दज शाकवर्ग कहा है | कसुम , नील , बीजज जाति और अग्रज हल्दी , यह रंगदार खेती गण कहा है ||६६|| ६७|| कपास , अण्ड , भांग , गांजा , चाय , यह बीजज शस्य जाति मुनीश्वरों ने कही है ||६८|| यह संक्षेप से कहा है परन्तु पर्वत , वन , नदीतीर , खोडरों में स्वयं समुत्पन्न अनेकशः अनुप्य ( नहीं वोईजाती है ) जाति शस्य है || ६९ || यदि इच्छा हो उनके भी वोने लगाने की , तौ वे भी समय विचार पूर्वक परिश्रम सह यत्न से सफ़ल हो सकती है किन्तु उनके संग्रह में अति यत्न करना पडता है अतः विचार कर संग्रह करैं || ७०||
इति राघव भाष्य सहित कृषिशासने बीजाख्य तृतीयपादकथनं नाम पञ्चमोऽध्यायः || ५ ||
|| विशेष टिप्पणी ||
सतुषे(धान)ख्याते ब्रीह्यादौ
“शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते” स्मृतिः। धान्यवर्गः सगुणोऽभिहितो भावप्र॰ यथा
“शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम्। शिम्बीधान्यं क्षुद्रधान्यमित्युक्तं धान्यपञ्चकम्। शा-लयो रक्तशाल्याद्या व्रीहयः षष्ठिकादयः। यवादिकंशूकधान्यं मुद्गाद्यं शिम्बिधान्यकम्। कङ्ग्वादिर्कक्षुद्रधान्यं तृणधान्यञ्च तत् स्मृतम्”। तत्र शालिधान्यस्य लक्षणं गुणाश्च “कण्डनेन विना शुक्लाहैमन्ताः “शालयः स्मृताः”। अथ शालीनां नामानि। रक्तशालिः सकलमः पाण्डुकः शकुनाहृतः। सुगन्धकःकर्द्दमको महाशालिश्च दूषकः। पुष्पाण्डकः पुण्डरी-कस्तथा महिषमस्तकः। दीर्घशूकः काञ्चनको हायनोलोघ्रपुष्पकः। इत्याद्याः शालयः सन्ति बहवो बहुदे-शजाः। ग्रन्थविस्तरभीतेस्ते समस्ता नात्र भाषिताः”। ( अथ तेषां गुणाः “शालयो मधुराः स्निग्धा बल्याबद्धाल्पबर्च्चसः। कषाया लघवो रुच्याः स्वर्य्या वृष्याश्चवृंहणाः। अल्पानिलकफाः शीताः पित्तघ्ना मूत्रला-स्तथा। शालयो दग्धमृज्जाताः कषाया लघुपाकिनः। सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षणाः। कैदारा वात-पित्तव्नाः गुरवः कफशुक्रलाः। कषाया अल्पवर्च्चस्कामेध्याश्चैते बलावहाः”। “स्थलजाः स्वादवः पित्तकफघ्ना वातपित्तदाः। किञ्चि-त्तिक्ताः कषायाश्च विपाके कटुका अपि। स्थलजाःअकृष्टभूमिजाताः स्वयंजाता। बापिता मघुरावृष्या बल्याः पित्तप्रणाशताः। श्लेष्मलाश्चाल्पवर्च्चस्काःकषाया गुरवो हिमाः”। “रोपितास्तुनवा वृष्याः पुराणा लघवः स्मृताः। तेभ्यस्तु रोपिताभूयः शीघ्रपाका गुणाधिकाः। छिन्नरूढाः हिमारूक्षा बल्याः पित्तकफापहाः। बद्धविष्ट्काः कषायाश्चलघवश्चाल्पतिक्तकाः”। ( अय रक्तशालेर्गुणाः “रक्तशालिर्वरस्तेषु बल्यो वर्ण्य-स्त्रिदोषजित्। चक्षुष्यो मूत्रलःस्वर्य्यः शुक्रलस्तृड्ज्व-रापहः। विषव्रणश्वासकासदाहनुद्वह्निपुष्टिदः। तस्मा-दल्पान्तरगुणाः शालयो महदादयः”। रक्तशालिः(दाउदखानी) इति लोके मगधदेशे प्रसिद्धः। ( अथ व्रीहिधान्यस्य लक्षणं गुणाश्च। “वार्षिकाःकण्डिताः शुक्ला व्रीहयश्चिरपाकिनः। कृष्णव्रीहिः पाट-लश्च कुक्कुटाण्डक इत्यपि। शालामुखो जतुसुख इ-त्याद्याः व्रीहयः स्मृताः। कृष्णव्रीहिः स विज्ञेयोयः कृष्णतुषतण्डुलः। पाटलः पाटलापुष्पवर्णको व्रीहि-रुच्यते। कुक्कुटाण्डाकृतिर्व्रीहिः कुक्वटाण्डकौच्यते। शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते। लाक्षा-वर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः। व्रीहयःकथिताः पाके मधुरा वीर्य्यतो हिताः। अल्पाभि-ष्यन्दिनो वद्धवर्च्चस्काः षष्टिकैः समाः। कृष्णब्रीहिर्वर-स्तेषां तस्मादल्पगुणाः परे”। ( अथ षधिकानां लक्षणं गुणाश्च। “गर्भस्था एव ये पाकंयान्ति ते षष्टिका मताः”। अथ षष्टिकानां नामानि। “षष्टिका शतपुष्पश्च प्रमोदकमुकुन्दकी। महाषष्टिकइत्याद्याः षष्टिकाः समुदाहृताः। एतेऽपि व्रीहयःप्रोक्ता व्रीहिलक्षणदर्शनात्। षष्टिका मधुराः शीतालघवो बद्धवर्च्चसः। वातपित्तप्रशमनाः शालिभिः सदृशाःगुणैः”। ( तत्र षष्टिकाया गुणाः। “षष्टिका प्रवरा तेषांलध्वी स्निग्धा त्रिदोषजित्। स्वाद्वी मृद्वी ग्राहिणीच बलदा ज्वरहारिणी। रक्तशालिगुणैस्तुल्याततः स्वल्पगुणाः परे। षष्टिका (षाठी) इति लोके। ( अथ शूकधान्यानि। तेषु यवाः प्रसिद्धाः। अतियवःपोतशूकः कृष्णारुणवर्णो यवः। तोक्यो हरितोनिःशूकः स्वल्पो यवः यवेति प्रसिद्धः। तेषां नामानिगुणाश्च। “यवस्तु पीतशूकः स्यान्निःशूकोऽतियवःऋतः। तोक्यस्तद्वत्सहरितस्ततः स्वल्पश्च कीर्त्तितः। [Page3878-b+ 38] यवः कषायो मधुरः शीतलो लेखनो मृदुः। व्रणेषुतिलवत् पथ्यो रूक्षो मेधाग्निबर्द्धनः। कटुपाकोऽनभि-ष्यन्दी स्वर्यो बलकरो गुरुः। बहुबातमलो वर्णस्थैर्य्य-कारी च पिच्छिलः। कण्ठत्वगामयश्लेष्मपित्तमेदप्रणा-शनः। पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत्। अस्मा-दतियवो न्यूनस्तोक्यो न्यूनतरस्ततः। ( अथ गोधूमस्य नामानि लक्षणं गुणाश्च। “गोधूमः सुम-नोऽपि स्यात् बिविधः स च र्कार्त्तितः। महागोधूम इ-त्याख्यः पश्चाद्देशात् समागतः। महागोधूमः। (बडगोहुम)इति लोके। “मधूली तु ततः किञ्चिदल्पा सा मध्यदेशजा। निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखामिधः। गोधूमोमधुरःशीतो बातपित्तहरो गुरुः। कफशुक्रप्रदो बल्यःस्निग्धः सन्धानकृत् सरः। जीवनी वृंहणो वर्ण्योव्रण्यो रुच्यः स्थिरत्वकृत्। कफप्रदो नवीनो नतुपुराणः। पुराणयवगोधूमक्षुद्रजाङ्गलशूलभागिति” वाग्भटेन वसन्ते गृहीतत्वात्।
“मधूली शीतला स्निग्धापित्तघ्नी मधुरा लधुः। शुक्रला वृंहणी पथ्यातद्वम्मन्दीमुखः स्मृतः”। ( अथ शिम्बीधान्यानि तत्पर्य्यायानाह। “शमीजाःशिम्बिजाः शिम्बीभवाः सूर्य्याश्च वैदलाः। तेषां गुणाः। “वैदलामधुरा रूक्षाः कषायाः कटुपाकिनः। वातलाःकफपित्तघ्नबद्धमूत्रमला हिमाः। ऋते मुद्गमसूराभ्यामन्येत्वाध्मानकारिणः।
मुद्गमसूरयोरनाध्मानकारित्वमन्यवै-दलापेक्षया न तु सर्वथा एतयोरपि किञ्चिदाध्मानकारि-त्वात्। ( तत्र मुद्गस्य गुणाः। “मुद्गो रूक्षो लघुर्ग्राही कफ-पित्तहरोहिमः। स्वादुरल्पानिलो नेत्र्यो ज्वरघ्नोवनजस्तथा। मुद्गो बहुविधः श्यामो हरितः पीतक-स्तथा। श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो लघुः स्मृतः। सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः। चरकादि-भिरप्युक्त एव एब गुणाधिकः। ( अथ माषः (उरद)। माषो गुरुः स्वादुपाकः स्निग्धोरुच्योऽनिलापहः। स्रंसनस्तर्पणो बल्यः शुक्रलोवृंहणः परः। भिन्नमूत्रमलस्तन्यो मेदःपित्तकफप्रदः। गुदकीलार्द्दितश्वासपङ्क्तिशूलानि नाशयेत्। कफपित्त-करा माषा वृन्ताकं कफपित्तकृत्”। ( अथ राजमाषस्य (वरवटी) राजमाषो महामाषश्चपलश्चबलः स्मृतः। राजमाषो गुरुःस्वादुस्तुवरस्तर्पणः[Page3879-a+ 38] सरः। रूक्षो वातकरो रुच्यः स्तन्यो भूरिबलप्रदः। श्वेतो रक्तस्तथा कृष्णस्त्रिविधः स प्रकीर्त्तितः। योमहांस्तेषु भवति स एवोक्तो गुणाधिकः”। ( अथ निष्पावः। स तु राजशिम्बीवीजं (भेटवासु) इतिलोके। “निष्पाबो राजशिम्बिः स्याद् बल्लकः श्वेत-शिम्बिकः। निष्पावो मधुरो रूक्षो विपाकेऽम्ली गुरुःसरः। कषायःस्तन्यपित्तास्नमूत्रवातविबन्धकृत्। विदा-ह्युष्णो विषश्लेष्मशोथहृच्छुक्रनाशनः”। ( अथ मकुष्ठः। मकुष्ठोवनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ। मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः। वह्नि-जिन् मधुरः पाके कृमिकृज्ज्वरनाशनः”। ( अथ मसूरः। “मङ्गल्यको मसूरः स्यान्मङ्गल्या चमसूरिका। मसूरो मधुरः पाके संग्राही शीतलोलघुः। कफपित्तास्रजिद्रूक्षो वातलो ज्वरनाशनः। ( अथ आढकी (रहरी)। “आढकी तुवरी चापि साप्रोक्ता शणपुष्पिका। आढकी तुवरा रूक्षा मधुरा शीतलालघुः। ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्”। ( अथ चणकः (छोला)। “चणको हरिमन्थः स्यात्सकलप्रिय इत्यपि। चणकः शीतलो रूक्षः पित्त-रक्तकफापहः। लघुः कषायो विष्टम्भी वातलोज्वरनाशनः। स चाङ्गारेण सम्भृष्टस्तैलभृष्टश्च तद्-गुणः। आर्द्रभृष्टो बलकरो रोचनश्च प्रकीर्त्तितः। शुष्कभृष्टोऽतिरूक्षश्च वातकुष्ठप्रकोपणः। स्विन्नःपित्तकफं हन्यात् सूपः क्षोभकरो मतः। आर्द्रोऽतिकोमलो रुच्यः पित्तशुक्रहरो हिमः। कषायो वातलोग्राही कफपित्तहरो लघुः। ( कल्ययः (केराव)। कलायो वर्त्तुलः प्रोक्तः सतीनश्चहरेणुकः। कलायो मधुरः स्वादुः पाके रूक्षश्च शीतलः। अथ त्रिपुटः (खेसारी)। त्रिपुटः खण्डिकोऽपिस्यात् कथ्यन्ते तद्गुणा अथ। त्रिपुटो मधुरस्तिक्तस्तुवरो रूक्षणो भृशम्। कफपित्तहरो रुच्यो ग्राहकःशीतलस्तथा। किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः। ( अथ कुलत्थी। कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणाअथ। कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत्। लघुर्विदाही वीर्योष्णः श्वासकासकफानिलान्। हन्तिहिक्काश्मरीशुक्रदाहानाहान् सपीनसान्। स्वेदसंग्रा-हको मेदोज्वरकृमिहरः परः। ( अथ तिलः। तिलः कृष्णः सितो रक्तः स वर्ण्योऽल्प-[Page3879-b+ 38] तिलः स्मृतः। तिलो रसे कटुस्तिक्तो मधुरस्तुवरोगुरुः। विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत्। बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः। दन्त्योऽल्पमूत्रकृद् ग्राही वातघ्नोऽग्निमृतिप्रदः। कृष्णःश्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः। अन्ये हीनतराःप्रोक्तास्तज्ज्ञैरक्तादयस्तिलाः। ( अथ अतसी (तिसि)। अतसी नीलपुष्पी च पार्वतीस्यादुमा क्षुमा। अतसी मधुरा तिक्ता स्निग्धा पाकेकटुर्गुरुः। उष्णासृक्शुक्रवातघ्नी कफपित्तविनाशिनी। अथ तुवरी (तोरी तोडीति) लोके। तुवरी ग्राहिणीप्रोक्ता लघ्वी कफविषास्रजित्। तीक्ष्णोष्णा वह्निदाकण्डूकुष्ठकोष्ठकृमिप्रणुत्। ( अथ सर्षप (रक्तसरीसो पिअरी सरीसो)। सर्षपःकटुकः स्नेहस्तुन्दुभश्च कदम्बकः। गौरस्तु सर्षपः प्राज्ञैःसिद्धार्थ इति कथ्यते। सर्षपस्तु रसे पाके कटुः स्निग्धःसतिक्तकः। तीक्ष्णोष्णः कफवातघ्नोरक्तपित्ताग्निवर्द्धनः। रक्षोहरो जयेत् कण्डूं कुष्ठकोष्ठकृगिग्रहान्। यथारक्तस्तथा गौरः किन्तु गौरो वरो मतः। ( अथ राजी (कृष्णा राइ)। राजी तु राजिका तीक्ष्ण-गन्धा कुञ्जनिकासुरी। क्षवः क्षवाभिजनकः कृमिकृत्कृष्णसर्षपः। राजिका कफपित्तघ्नी तीक्ष्नोष्णा रक्तपित्त-कृत्। किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोष्ठकृमीन् हरेत्। अतितीक्ष्णा विशेषेण तद्वत् कृष्णापि राजिका। ( अथ क्षुद्रधान्यम्। क्षुद्रधान्यं कुधान्यञ्च तृणधान्यमितिस्मृतम्। क्षुद्रधान्यमनुष्णं स्यात् कषायं लघु लेखनम्। मधुरं कटुकं पाके रूक्षञ्च क्लेदशोषकम्। वातकृत्बद्ध्वविट्कञ्च पित्तरक्तकफापहम्। ( तत्र कङ्गुः (काङ्नी)। स्त्रियां कङ्गुप्रियङ्गू द्वे कृष्णारक्ता सिता तथा। पीता चतुर्विधा कङ्गुस्तासाम्पीतावरास्मृता। कङ्गुस्तु भग्नसन्धानवातकृत् वृंहणी गुरुः। रूक्षा श्लेष्महरातीव वाजिनां गुणकृद् भृशम्। ( अथ चीना। चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गु-वद्गुणैः। ( अथ श्यामा। श्यामाकः शोषणो रूक्षो वातलः कफपित्तहृत्। ( अथ कोद्रवः। कोद्रवः कोरदूषः स्यादुद्दालो वनको-द्रवः। कोद्रवो वातलो ग्राही हिमपित्तकफापहः। उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम्। ( अथ चारुकः (सरवीज)। चारुकः सरवीजः स्यात्[Page3880-a+ 38] कथ्यन्ते तद्गुणा अथ। चारुको मधुरो रूक्षो रक्तपित्त-कफापहः। शीतलो लघुवृष्यश्च कषायो वातकोपनः। ( अथ वंशवीजम्। यवा वंशभवा रूक्षाः कषायाः कटु-पाकिनः। बद्धमूत्राः कफघ्नाश्च वातपित्तकराः सराः। ( अथ कुमुम्भवीजम्। कुसुम्भवीजं वरटा सैव प्रोक्तावरट्टिका। वरटा मधुरा स्निग्धा रक्तपित्तकफापहा। कषाया शीतला गुर्वीस्यादवृष्याऽनिलापहा। ( अथ गवेधुका (गरहेडुआ)। गवेधुका तु विद्वद्भिर्गवेधुःकथिता स्त्रियाम्। गवेधुः कटुका स्वाद्वी कार्श्यकृत् कफ-नाशिनी। ( अथ नीवारः। प्रसाधिका तु नीवारस्तृणधान्यमितिस्मृतम्। नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत्। ( अथ (पुनेरा)। पवनालोहिमः स्वादुर्ल्लोहितः श्लेष्म-पित्तजित्। अवृष्यस्तुवरो रूक्षः क्लेदकृत् कथितो लघुः। धान्यं सर्वं नवं स्वादु गुरु श्लेष्मकरं स्मृतम्। तत्तु वर्षोषितं पथ्यं यतो लघुतरं हितम्। वर्षोषितंसर्वधान्यं गौरवं परिमुञ्चात। न तु त्यजति वीर्यंस्वं क्रमान्मुञ्चत्यतः परम्। एतेषु यवगोधूमतिलमाषानवा हिताः। पुराणा विरसा रूक्षा न तथा गुण-कारिणः। पुराणा वर्षद्वयादुपरिस्थिताः। यवादयोनवाः स्वस्थान् प्रति हिताः। पय्याशिनान्तु पुराणाहिताः। “पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुगितिवसन्ते वाग्भटेनोक्तत्वात्”। स्मार्त्तादिकर्मोपयोगिधान्यभेदाश्च हेमा॰ दा॰ उक्ता यथामार्क्कण्डेयपुराणे “जज्ञिरे तानि बीजानि ग्रा-म्यारण्याभिधानि च। ओषध्यः फलपाकान्ताः सर्वेसप्तदश स्मृताः। व्रीहयश्च यवाश्चैव गोधूमाः कङ्गु-कास्तिलाः। प्रियङ्गवः कोविदाराः कोरदूषाः सती-नकाः। माषमुद्गामसूराश्च निष्पावाः सकुलोत्यकाः। आढक्यश्चणकाश्चैव चीनाः सप्तदश स्मृताः। इत्येताओषधीनान्तु ग्राम्याणां जातयः स्मृताः। ओषध्योयज्ञिया ज्ञेया ग्राम्यारण्याश्चतुर्दश। व्रीहयश्च यवा-श्चैव गोधूमाः कङ्गुसर्षपाः। माषामुद्गाः सप्तमाश्च अष्टमाश्चकुलोत्थकाः। श्यामाकाश्चैव नीवारा जर्तिलाः सग-वेधुकाः। कोविदारसमायुक्तास्तथा वेणुयवाश्च ये। ग्रा-म्यारण्याः स्मृता ह्येता ओषध्यश्च चतुर्दश” “स्कन्द-पुराणे “यवगोधूमधान्यानि तिलाः कङ्गुकुलोत्थकाः। माषामुद्गामसूराश्च निष्पावाः श्यामसर्षपाः। गवेधुकाश्च नीवारा आढक्योऽथ सतीनकाः। चणकाश्चीनकाश्चैवधान्यान्यष्टादशैवं तु” धान्यानि व्रीहयः। नीवाराःआरण्यव्रीहयः। सतीनका वर्त्तुलकलायाः। चीनकाःषष्टिकविशेषाः। षट्त्रिंशन्मतात् “यवा गोधूम-धान्यानि तिलाः कङ्गुस्तथैव च। श्यामाकश्चीनकश्चैवसप्तधान्यमुदाहृतम्”। “एकादश्यां विशेषेण ह्यन्नमात्रं परित्यजेत्। फलं मूलंजलादीनि किञ्चिद्भक्ष्वं प्रकल्पयेत्। अन्नं तु धान्यसम्भूतगिरिजे! भुवि जायते। धान्यानि विविधानीह जगत्यांशृणु तान्यथ। श्यामामाषमसूराश्च धान्यकोद्रवसर्षपाः। मकुष्ठो राजमाषाश्च तुवरोजुमरस्तथा। यवगोधूममुद्गाश्च तिलकङ्गुकुलत्थकाः। गवेधुकाश्च नीवाराआढकश्च कलायकाः। माण्डूको वज्रको रङ्कः कीचकोवडकस्तथा। तिलकाश्चणकाद्याश्च धान्यानि कथितानिवै। एतद्धान्य समद्भूतमन्नं भवति शोभने!। अन्नत्यागेब्रते भक्ष्यमेतदेव विवर्जयेत्” पाद्मोत्तरखण्डम्। ( धान्यमानन्तु हेमा॰ दा॰ उक्तं यथाभविष्यपुराणे “पलद्वयन्तु प्रसृतं द्विगुणं कुडवं म-तम्। चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः। आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितोबुधैः। कुम्भो द्रोण-द्वयं सूर्पः खारी द्रोणास्तु षोडश”। विष्णुधर्मोत्तरे “पलञ्च कुडवः प्रस्य आढको द्रोण एव च। धान्य-मानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः। द्रोणैः षोड-शमिः खारी विंशत्या कुम्भ उच्यते। कुम्भैस्तु दश-भिर्वाधो धान्यसंख्या प्रकीर्त्तिता”। वाराहपुराणे “पलद्वयन्तु प्रसृतम् मुष्टिरेकं पलं स्मृतम्। अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ तु पुष्कलम्। पुष्कलानि चचत्वारि आढकः परिकीर्त्तितः। चतुराढको भवेत्द्रोण इत्येतन्मानलक्षणम्। चतुर्भिः सेतिकाभिस्तुप्रस्थ एकः प्रकीतितः” मुष्टिर्यजमानस्येति केचित्। पाद्मे “चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः। चतुराढको भवेद्रोण इत्येतन्मानलक्षणम्”। अथ गोपथ-ब्राह्मणे। “पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम्। पलैर्द्वात्रिंशद्भिःप्रस्थो मागधेषु प्रकीर्त्तितः। आढकस्तैः-श्चतुर्भिश्च द्रोणः स्याच्चतुराढकः”।
टीकाद्वयोपेतम्
|| कृषि शासनम् ||
|| अथ षष्ठोध्यायः || [ 6 ]
|| अथ चतुर्थं स्वामि पाद कथनम् ||
तुरीयश्चरणः स्वामी कृषेः प्रोक्तोमनीषिभिः ॥
कृषाण लक्षणम्
संनद्धः सनिरोगश्च शैथिल्य परिवर्जितः ॥१॥
अधुना कृषेश्चतुर्थस्वामिनाम पादं ब्रुवन्नाह । तुरीय इति । सः , कीदृश इत्यपेक्षायामाह । सन्नद्ध इत्यादि । शैथिल्यपरिवर्जितः यतः शैथिल्ययुक्तस्य कर्षणेऽयुक्तत्वप्रतिपादनात् । तथाहि । समर्थैश्च कृषिः कार्यालोकानां हितकाम्यया। असमर्थो हि कृषकोभिक्षामटति नीचवत् । गोहितः क्षेत्रगामी च कालशो बीज तत्परः। वितन्द्रः सर्ब शस्याढ्यः कृषको नावसीदति ।इति कृषि संग्रहे पराशरः ॥१ ॥
समर्थेन कृषिः कार्या लोकानां हितकाम्यया ।
असमर्थो हि कृषको भिक्षां प्राप्नोति मानवः ॥ (८२)
गोहितः क्षेत्रगामी च कालज्ञो बीजतत्परः ।
वितन्द्रः सर्वशस्याढ्यः कृषको नावसीदति ॥ (८३)
कृषी का चौथा स्वामि ( कृषाण ) नामक पाद , कृषि कर्म कुशल मुनियों ने कहा है । यह स्वामी -सर्वकार्य करनेंको सदा स्वयं तयार रहै नोंकरोके ऊपर विश्वास नहीं करै ,
रोग रहित – निज शरीरकी सदा आरोग्यता का उपाय भी विचारता रहै , और आलस्य नहीं करै॥१॥
कृषिकर्मविधानज्ञः कृषिशास्त्रविचारवान् ॥
कर्मकृत् कर्मदृग् धीरोदयाक्रोधश्च सूर्यवत् ॥२॥
पुनः कृषिकर्मणां कर्षण बीजवाप शस्यशोधनादीनां तज्जनित प्रत्यवायशमनार्थं करादिदानानां च विधानं विधिस्तज्जानातीति कृषिकर्मविधानज्ञः । तथाच तद्विधिमाह पराशरः॥
स्थिराङ्गं नीरुजं तृप्तं सुनर्दं षण्ढवर्जितम् । वाहयेद्दिवसस्यार्धं पश्चात्स्नानं समाचरेत् ।। २.४ ।। |
जप्यं देवार्चनं होमं स्वाध्यायं चैवं अभ्यसेत् ।एकद्वित्रिचतुर्विप्रान्भोजयेत्स्नातकान्द्विजः ।। २.५ ।। |
स्वयंकृष्टे तथा क्षेत्रे धान्यैश्च स्वयमर्जितैः ।निर्वपेत्पञ्च यज्ञांश्च क्रतुदीक्षां च कारयेत् ।। २.६ ।। |
तिला रसा न विक्रेया विक्रेया धान्यतत्समाः ।विप्रस्यैवंविधा वृत्तिस्तृणकाष्ठादिविक्रयः ।। २.७ ।। पराशरस्मृतौ द्वितीयाध्याये इत्यादि । |
राज्ञे दत्वा तु षड्भागं देवानाञ्चैकविंषकम् ।विप्राणां त्रिंषकं भागं कृषिकर्ता न लिप्यते॥ इत्यादिच कर्मकृत् कृषेः कर्मकरः । तथाच कृषिपद्धतिकारः ।
पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् । गोषु चात्मसमं दद्यात् स्वयमेव कृषिं व्रजेत् ॥ (८०) इति कर्मदृक् अन्यैरनुचरादिभिः कार्यमाणकर्मणान्द्रष्टा ।अन्यथा तत्र हानिश्रुतिः । फलत्यवेक्षिता स्वर्णं दैन्यं सैवानपेक्षिता । कृषिः कृषिपुराणज्ञ इत्युवाच पराशरः॥ इति “कृषिपद्धतिः कृषिगावोबाणविद्याः स्त्रियोराजकुलानि च । क्षणेनैवावसीदन्ति मुहूर्तमनवेक्षणात्” इति चान्यत्र तत्संग्रहे । दयाच क्रोधश्चतौस्तोऽस्येति दयाक्रोधः । मत्वर्थीयोऽच् । सूर्यवत् यथा दक्षिणमार्गगतौ मन्दमन्दातपेन प्रजाः सुखयति चोत्तरगतौतु तीव्रातितीव्रातपेन प्रजाः उत्तापयति तथैव कृशकश्च समये समये दयाक्रोधयुक्तः स्यान्नतु सर्वदा क्रोधयुक्तश्च दयायुक्तश्चेतिभावः । एवं कृते कृषेर्यथावत्वमुपजायते ॥२॥
खेती के जोतनें वोनें – नराई करनें- आदि और उक्त कर्मों से उत्पन्न पाप निवृत्यर्थ स्नान – देवपूजा- होम- पठन पाठन वेदाभ्यास – ब्राहमणभोजन- पञ्चयज्ञ – सोमयाग दीक्षा – आदि कर्म और कर ( लगान ) दान आदिकर्मों के विधियों के जाननेवाला , कृषि ( जिन्होंने खेतीका भली भांति विवरण लिखाहोवै ) शास्त्रों के विचार में तत्पर , उक्त खेतीके कर्मों के करनें वाला , एवं अनुचर आदि से कराए हुए कर्मों के स्वयं देखने वाला , कारण न देखनेसे हानि
( दीनता- दरिद्रता ) होती है धैर्यवाला जैसे दक्षिणायनसूर्य अति मन्द २ घाम से शीतकाल में प्रजा को सुख देते हैं एवं उत्तरायण में प्रतिदिन तीव्र से भी अतितीव्र किरणों के तेज से प्रजाको अतिपीडित करते हैं तैसेही कृषाण को योग्य है कि निज कृषिकर्मचारियों के कर्मों को देख सदा क्रोध और दयायुक्त नहीं होवै किन्तु समय २ पर दयाकरै और क्रोध करनेके समय क्रोधकरै॥२॥
वदान्यः पुत्रवच्छस्य गवानुचर पालकः ॥
भूमितत्व परिज्ञाता विष्णुभक्तिपरायणः॥३॥
वदान्योवहुप्रदश्चारुवक्ता चेत्युभयत्रार्थे ” मेदिनीकोषः ” यतस्तज्जनितप्रत्यवाय शान्त्यर्थं पराशरादिभिर्दानमेवोक्तं । तथाच नखैर्विलिखने यस्याः पापमाहुर्मनीषिणः । तस्याः सीर विदारेण किन्न पापं क्षितेर्भवेत् । तृणैकच्छेदमात्रेपि प्रोच्यते क्षयमायुषः। असङ्ख्य कन्द निर्णाशा दसङ्ख्याते भवेदघम् । इत्यादि । वर्णानाञ्च गृहस्थानां कृषि वृत्युपजीविनां। तदेनसो विशुद्ध्यर्थं प्राह सत्यवतीपतिः। द्वादशो नवमो वापि सप्तमः पञ्चमोऽपि वा। धान्यभागः प्रदातव्यो सीरिणा खलके ध्रुवम्। अस्मर्यव्यूढभूमौ च विंशांशी क्षेत्रभुग्भवेत् । एकैकांशाय कर्षःस्या द्यावद्दशमसप्तमौ। ग्रामेशस्य नृपस्याऽपि वर्णिभिः कृषिजीविभिः।स स भागः प्रदातव्यो यतस्तौ वलि भागिनौ।
इत्यादि वृद्धपराशरःपराशरश्च ।” यः करोति कृषिं सम्यक् कृषाणस्तु स उच्यते । अन्नन्ददानोविधिवन्निष्पापः सुप्रियातिथिः ” इति कृषिसंग्रहे कृषाण लक्षणात् । परन्तु ब्राह्मणस्यात्र निषेधः प्रोक्तः पराशरेण तथाहि वृद्धपराशरस्मृतौ ” ब्राहमणस्तु कृषिं कुर्वन्वाहयेदिच्छया धराम् । न किञ्चित्कस्यचिद्दद्यात्स सर्वस्य प्रभुर्यतः।” इति परन्तत्र स एव हेतूनपि दर्शयति । यथा ” ब्रह्मा वै ब्राह्मणानास्यात्प्रभूनसृजदादितः। तद्रक्षणाय वाहुभ्यामसृजत्क्षत्रियानपि । पाषुपाल्याशनोत्पत्यै ऊरुभ्याञ्च तथाविशः । द्विजदास्याय पण्याय पद्भ्यां शूद्र मकल्पयत् । यत् किञ्चिज्जगति ह्यत्र भू हेमाश्व गजादिकम् । स्वभावेनेह विप्राणां ब्रह्मा स्वयमकल्पयत् । ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ । न तयोरन्तरं किञ्चित्प्रजा धर्म्मेण रक्षयेत् ।तस्मान्न ब्राह्मणो दद्यात् कुर्वाणो धर्मतः कृषिम् । ग्रामेशस्य नृपस्यापि किञ्चिन्मात्रमसौ बलिम् । ” इति किन्तु ग्रामेशराजानौ चेदिच्छेतान्तर्हिदद्यादपि धर्मशास्त्रस्य च कालाधीनत्वात् । एवमातिथ्यादि पूजनमपि धान्यदानादिना कुर्यात् । किञ्च पुत्रवत्सुतइव शस्यादेः पालकोरक्षकः । भूमेः पृथिव्यास्तत्वं । याथार्थ्यं यथाऽसौ धरा रोगरहिता सर्वशस्यसम्पन्ना यथेष्ट फलदाऽसौ च किञ्चिदेव रोगादिविपन्नाकृते सारादिदानेन प्रतीकारे भविष्यत्येव कार्यकारिणी यश्च व्याधिव्यापन्नाऽसमर्था न सम्यक् शस्यफलदास्तीति न ग्राह्येति तस्य परिज्ञाता विचारवान् ॥३॥
अति दानशील – कारण शास्त्र में दान करने से कृषिकर्ता के पापों की शुद्धि कही है , पुत्र समान खेती ( फ़सल ) वृषादि पशु अनुचरों की रक्षा करनें वाला , भूमि के गुण दोषों को भली भांति जानने वाला , श्रीलक्ष्मी नारायण की परमभक्ति वाला हो ॥३॥
दारिद्र्य जनक कृषाण लक्षणम् ।
द्वितीयस्तु दरिद्रः स्यादृण याञ्चा परायणः॥
अन्न वस्त्र परिक्षीणो दासकर्मरतः सदा ॥४॥
कृषिञ्च तादृशीं कुर्याद्यथा वाहान्न पीडयेत्॥
वाहपीडार्जितं शस्यं गर्हितं सर्व कर्मसु ॥५॥
वाहपीडार्जितं शस्यं फलितञ्च चतुर्गुणम् ॥
वाहनिश्वासविफलः कृषकोनिःस्वतां व्रजेत् ॥६॥
उक्त लक्षण विरुद्धाचारी दरिद्र इति वदन्नाह । द्वितीय इत्यादि । द्वितीयोऽपरः उक्तलक्षणविरुद्ध इत्यर्थः॥४॥ वृषपीडार्जितशस्यात्कृषको निर्धनः प्रत्यवायीचेत्याह।कृषिमिति। वाहान् वृषभान् महिषांश्च । सर्वकर्मसु देवर्षि पितृ वैश्वदेवातिथि सोमयागादि कर्मसु ॥५॥ वाहस्य वृषादेर्निःश्वासैस्तत्प्रवाहैर्विषम फलेन युक्तो भवति कर्षकोनिःस्वतां निर्धनतां व्रजेत्प्राप्नुयादित्यर्थः॥६॥
पूर्वोक्त कृषाणलक्षण विरुद्धाचरणशील जन दरिद्री , प्रतिदिन ऋणयाञ्चा तत्पर अन्नवस्त्र रहित, सदा दास ( नौकरी ) कर्मयुक्त होता है ॥४॥ यथा वृषादियों को दुःख न होवै तैसी खेती करै कारण दुःखित वृषादि से सम्पादन किया अन्नादि सर्वोत्तम कर्मों में निन्द्य कहा है ॥५॥
दुःखित वृषादिसे सम्पादन करने पर भी चतुर्गुण हुआ धान्यादि परन्तु वृषादि के दुःखपूर्वक निकले हुवे श्वास वायुसे कृषाण निर्धन हो जाता है ॥६॥
दारिद्र्य नाशोपाय कथनम् ।
यो हलेन कुदालेन गोदेवद्विज पूजकः ॥
रत्नगर्भां श्रयेन्नित्यं दारिद्र्य रोगभीः कुतः॥ ७॥
वैद्य मित्रता कथनम् ।
कदाचिदपि लोकेस्मिन्पूर्वकर्मविपाकतः ॥
यदि रोगभय व्याप्तोभवेद्भेषजसेवकः ॥८॥
तदर्थं कृषकोवैद्यमित्रतां समवाप्नुयात् ॥
वैद्यकज्ञानावश्यकता कथनम्।
अथवा चायुर्वेदज्ञः स्वयं रक्षेत्स्वकन्तनुम् ॥९॥
यश्च रत्नगर्भासेवकस्तस्य दारिद्र्यादि नाशोभवतीत्याह । य इति ॥७॥ कदाऽपि पूर्वकर्मविपाकाद्रोगभयं स्यात्तदौषधसेवां कुर्यात् इत्याह ।कदाचिदिति ॥८॥ भेषजसेवार्थं वैद्यमैत्र्यायुर्वेदज्ञानावश्यकतामाह। तदर्थमिति ॥९॥
जो हल – फावड़ोंसे पृथ्वी की सेवा करै और नित्य गो -देवता-ब्राह्मणों का पूजक हो उसको दारिद्र्य-रोग आदिका भय कहां से हो सकता है ॥७॥ कदाचित् भी लोक में प्रारव्धवश यदि रोगभय हो तौ औषध सेवा करै ॥८॥ तिस हेतु कृषाण वैद्यसे मित्रता करै अथवा स्वयं आयुर्वेदज्ञ हो निजदेहरक्षा करै ॥९॥
आरोग्य कथनम् ।
अथ किञ्चित् प्रवक्ष्यामि स्वाम्यारोग्यप्रदायकम् ॥
आयुर्वेदमतादत्र ज्वररोगादि पाचनम् ॥१०॥
ज्वरोपाय कथनम् ।
ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजनम् ॥
ज्वर पाचनम् ।
सप्ताहात्परतोऽस्तव्धे सामे स्यात्पाचनं ज्वरे ॥११॥
क्वाथ कथनम् ।
दश रक्तिक माषेण गृहीत्वा तोलकद्वयम् ॥
दत्वाम्भः षोडशगुणं ग्राह्यं पादावशेषितम् ॥१२॥
नागरं देवकाष्ठञ्च धन्याकं बृहतीद्वयम् ॥
दद्यात्पाचनकं पूर्वं ज्वरिताय ज्वरापहम् ॥१३॥
रोग प्रतीकारे साधनभूतमायुर्वेदोद्धृतं किञ्चिदपि ज्वरादिरोग पाचनमाह । अथेत्यादि पञ्चचत्वारिंशच्छलोकैः।अत्र कृषिशासने स्वामिनामककृषि तुरीय पादे आयुर्वेदमतादत्रदत्तात् किञ्चिदुधृत्येतिशेषः । विस्तरन्तु तदादिश्ववलोकनीयम् ॥१०॥ परिभाषते। ज्वरितमित्यादियुग्मेन ।षडहेऽतीते षड्दिने व्यतीते ॥११॥ तोलकद्वयन्तत्प्रमितमौषधम् । अम्भोजलम् ॥१२॥ बृहतीद्वयं कण्टकारियुग्मम् ॥१३॥
अब किञ्चित् आयुर्वेद मतानुसार स्वामी ( कृषाण ) को कष्ट दायक ज्वरादि रोगों पर पाचन क्रिया कहूंगा विशेष विरेचनादि क्रिया विस्तार से वैद्यक शास्त्र से जानना ॥१०॥ प्रतिदिन लघुअन्न भोजनकर्ता हो या लङ्घन कर चुका हो तौ छः दिन के वीतने पर जौ कच्चा ज्वर नहीं रहा हो तौ सात दिन के वाद पाचन कर्मोपदेश करै ॥११॥ १०रत्ती के माषेके हिसाब से २ तोले १ खुराक में औषधि और १६ गुणा जल मृत्तिका के पात्र में स्थापन कर अग्नि से पकावै जिस समय चतुर्थांश रह जावै उस समय वस्त्र से स्वांग शीत को छान कर पीने के लिए क्वाथ रोगी को दिया जावै॥१२॥ शुण्ठी ,देवदारु ,धनियां ,दोनों कटेरी ,ज्वर रोगपीडित मनुष्य को ज्वरशमनार्थ प्रथम पाचन क्वाथ देवै परन्तु इतना ध्यान रहे कि जिस योग में औषधियों का प्रमाण न लिखा हो वहां सर्व औषधियां सम भाग लेने योग्य हैं ॥१३॥
वातज्वरे क्वाथ कथनम् ।
पाचनं पिप्पलीमूल गुडूची विश्वजं स्मृतम् ॥
पित्तज्वरे क्वाथ कथनम् ।
सक्षौद्रं पाचनं पित्ते तिक्ताव्देन्द्रयवैः स्मृतम् ॥१४॥
सामान्य ज्वरे पाचनमुक्त्वाऽधुना वातादिज्वरे पाचनमाह । पाचनमिति । विश्वजं शुण्ठीजनितम् । अव्दोमुस्ता ॥१४॥
पिप्पलीमूल , गिलोय , शुण्ठी का क्वाथ वातज्वर वाले को और कुटकी ,इन्द्रयव , नागरमोथा , का क्वाथ शहद सहित पित्तज्वर वाले को देना कहा है ॥१४॥
कफज्वरे क्वाथ कथनम् ।
मातुलुङ्ग शिफा विश्व ब्राह्मी ग्रन्थिक संयुतम् ॥
कफज्वरेऽम्बु सक्षारं पाचनं वा कणादिकम् ॥१५॥
द्वन्द्वजादिज्वरे क्वाथ कथनम् ॥
संसृष्टदोषेतु हितं संसृष्टमथपाचनम्॥
विश्वामृताब्द भूनिम्बः पंचमूली समन्वितैः॥१६॥
वातपित्तकफ़ज्वरे क्वाथ कथनम् ॥
कृतः कषायोहन्त्याऽऽशु वातपित्तकफोद्भवम्॥
पटोलं चन्दनं मूर्वा तिक्ता पाठा मृतोगणः॥१७॥
पित्तश्लेष्मानिलच्छर्दि ज्वरकण्डूविषापहः॥
दीपनं कफविच्छेदि वातपित्तानुलोमनम् ॥१८॥
ज्वरघ्न क्वाथ कथनम् ॥
ज्वरघ्नं पाचनं भेदि श्टतं धान्यपटोलयोः॥
त्रिदोषज्वरे क्वाथ कथनम्॥
पञ्चमूलीकिरातादिगणोयोज्यस्त्रिदोषजे ॥१९॥
जीर्णज्वरे क्वाथ कथनम् ॥
पित्तोत्कटे च मधुना कणया च कफोत्कटे ॥
पिप्पलीचूर्णसंयुक्तः क्वाथस्छिन्नरुहोद्भवः॥२०॥
कासारुच्यजीर्ण श्वास पाण्डु क्रिमिरोगचिकित्सा कथनम् ॥
जीर्णज्वरकफध्वंसी पंचमूलीकृतोऽथवा ॥
कासाजीर्णारुचिश्वासहृत्पाण्डु क्रिमिरोगहृत् ॥२१॥
कफज्वरे । वाऽथवा । कणादिकन्तद्गणपठितमौषधजातम् । तदुक्तं भावप्रकाशे ।
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः ३७४
सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम् ३७५
पिप्पल्यादिगणो ह्येषः कफमारुतनाशनः
गुल्मशूलज्वरहरो दीपनञ्चामपाचनः ३७६ इति ॥१५॥संसृष्टदोषेषु द्वन्द्वजादिज्वरेषु । वातपित्तकफोद्भवेषु । विश्वामृताब्दभूनिम्बैः शुण्ठी गुडूची मुस्त कैरातैः॥१६॥१७॥१८॥
त्रिदोषजे संनिपाते ॥१९॥ तत्र पित्तोत्कटे पित्तोऽल्वणे । छिन्नरुहोद्भवो गुडूचीकृतः॥२०॥२१ ॥
कफज्वर पर बिजोरा नीबू का जड , शुण्ठी ,ब्राह्मी , पिप्पलीमूल का क्वाथ यवक्षार सहित अथवा पिप्पल्याऽदि ,पीपली, पीपलामूल , स्याहमिरच , गजपीपली ,शोंठि, चीतेकीछाल, चव , रेणुका , इलायची , अजमोद , सरसों , भुनीहींग , भारंगी , पाठा , इन्द्रजौ ,जीरा ,बकायन ,मुरहरी ,अतीस ,कुटकी ,वायविडंग ,का क्वाथ पाचन है ।॥१५॥
द्वन्द्वजादि ( वातपित्त-पित्तकफ-वातकफ जन्य ) ज्वरों में दो २ तीन ३ दोष शमन कर्ता औषधियों का पाचन हितकारी होता है । शुण्ठी , गिलोय , नागरमोथा , चिरायता , शालिपर्णी , पृश्निपर्णी , दोनों कटेरी , गोखुरु , ॥१६॥ का क्वाथ शीघ्रही वातपित्तकफज्वर को नष्ट करता है । परवल , लालचन्दन ,मुरहरी , कुटकी , पाठा , गिलोय , ॥१७॥ का क्वाथ पित्त – श्लेष्म – वात – ज्वर – कण्डू – विष नाशक है और अग्नि वर्धक , कफ नाशक ,वात पित्त को अनुलोमन करता है ॥१८॥ परवल धनियां का क्वाथ ज्वरनाशक , पाचक , और मलभेदी है। शालिपर्णी , पृश्निपर्णी , दोनों कटेरी , गोखुरु , चिरायता , का क्वाथ संनिपात पर पाचन देना योग्य है ॥१९॥ पित्तोल्वण संनिपात पर शहद के साथ , कफोल्वण पर पिप्पली के चूर्ण के साथ यही क्वाथ देना योग्य है और पिप्पली चूर्ण सहित गिलोय का क्वाथ ॥२०॥ जीर्णज्वर कफनाशक है अथवा विल्वगिरी , अरलू , खमारि , पाडर , अरणी , का क्वाथ कास – श्वास- अजीर्ण – अरुचि – और पाण्डु – क्रिमि रोग- नाशक है ॥२१ ॥
ज्वरातीसारे क्वाथः आमातीसारेच ॥
पाठेन्द्रयव भूनिम्ब मुस्त पर्प्पटकादयः॥
जयत्याममतीसारं सज्वरं समहौषधाः ॥२२॥
कुटज त्वक्कृतः क्वाथो घनीभूतः सुशोभनः ॥
लोहितोऽतिविषायुक्तः सर्वातीसार नाशनः ॥२३॥
ग्रहणी कथनम् ।
ग्रहणीमाश्रितन्दोषमतीसारवदाचरेत् ॥
कफे च मंदाग्नौ क्वाथ कथनम् ॥
विश्वाभया गुडूचीनां कषायेण सडूषणम् ॥२४॥
पिवेत् श्लेमणि मन्दाग्नौ त्वक् पत्र सुरभीकृतम् ॥
आमाजीर्णादौ क्वाथः ।
धान्यनागर संसिद्धं तोयं दद्याद्विचक्षणः ॥२५॥
आमाजीर्ण प्रशमनं दीपनं वस्तिशोधनम् ॥
पाण्डु कामलघ्न क्वाथ कथनम् ॥
फलत्रिकामृतावासातिक्ता भूनिम्ब निम्बजः॥२६॥
क्वाथः क्षौद्रयुतो हन्यात् पाण्डुरोगं सकामलम् ॥
तर्पणम् ।
जलं खर्जूर मृद्वीका मधुकैः सपरूषकैः॥२७॥
शृतं शीतं प्रयोक्तव्यं तर्पणार्थं सशर्करम् ॥
पार्श्वशूल ज्वर श्वास पीनसादि नाशक क्वाथः ॥
धान्याक पिप्पली विश्व दशमूली जलं पिवेत् ॥२८॥
ज्वरातीसारे । भूनिम्बः कैरातः ॥२२॥ सर्वातीसारे ।लोहितश्चन्दनम् ॥२३॥ अतीसारवद्ग्रहणी प्रतीकारः । विश्वा शुन्ठी । अभया हरीतकी। सडूषणम्
” पिप्पली पिप्पलीमूल चव्य चित्रक नागरैः। पञ्चभिः पञ्चभिः कोलैः पञ्च कोल मुदाहृतं॥ इति पञ्चकोलं समरिचं षडूषण मुदाहृतं” इति ॥२४॥ सुरभिरेला ॥२५॥ अमृता गुडूची । तिक्ता कुटकी । भूनिम्बः कैरातः ॥२६॥ क्षौद्रयुतोमधुयुतः॥२७॥ दशमूलीद्रव्याणि । शालिपर्णी पृश्निपर्णी कण्टकारीद्वय गोक्षुरी विल्व अग्निमन्थ श्योनाक पाटला गणकारिकाः ॥२८॥
पिप्पली पिप्पलीमूल चव्य चित्रक नागरैः।
एकत्र मिश्रितैः एभिः पञ्चकोलकमुच्यते॥
पञ्चकोलं त्रिदोषघ्नं रुच्यं दीपन पाचनम्।
स्वरभेदो हरं चैव शूल गुल्मार्ति नाशनम्॥
पाठा ,इन्द्रयव , चिरायता , मोथा , पित्तपापडा आदि का क्वाथ शुण्ठीसहित ज्वरातीसार और आमातीसार को जीतता है ॥२२॥ कुरैया{कटैया} की छाल का क्वाथ गाढा किया हुआ { देखनेमें सुन्दर } लालचन्दन , अतीस , युक्त संपूर्ण अतीसारों को दूर करता है ॥२३॥
ग्रहणी की चिकित्सा अतीसार के समान करै । शुण्ठी , हरड की बकुली , गिलोय के क्वाथ के साथ। पिप्पली , पिप्पलीमूल , चव , चीते की छाल , शुण्ठी काली मिर्च का चूर्ण ॥२४॥
पीने से कफ , मन्दाग्नि दूर होते हैं यदि तज -पत्रज इलायची युक्त हो तौ । धनियां शुण्ठी का क्वाथ ॥२५॥ आमाजीर्ण नाशक- अग्निदीपन – वस्तिशोधन है | त्रिफला, गिलोय, अडूसे के पत्ते , कुटकी , चिरायता , नीम की छाल ॥२६॥ का क्वाथ शहद सहित पाण्डुरोग-कामला नाशक है । खजूर के पत्ते , मुनक्का , मुलहटी , फालसे की छाल , ॥२७॥ का शीतल किया क्वाथ खांडसहित तृप्ति के लिये देना योग्य है । धनियां , पिप्पली , शुण्ठी , शालिपर्णी, पृश्निपर्णी, दोनों कटेरी , गोखुरु , बेलगिरि , अरणी , अरलू , पाडर , खमारि का क्वाथ ॥२८॥
पार्श्वशूलज्वर श्वास पीनसादि निवृत्तये ॥
कास नाशक क्वाथः ।
कण्टकारीकृतः क्वाथः सकृष्णः सर्व कासहा ॥२९॥
हिक्काश्वासघ्न क्वाथः ।
कुलत्थ नागर व्याघ्रीवासाभिः क्वथितं जलम् ॥
पीतं पुष्करसंयुक्तं हिक्काश्वासनिवारणम् ॥३०॥
वान्तत्रये क्वाथ कथनम् ।
श्रीफलस्य गुडूच्या वा कषायो मधु संयुतः॥
पेय श्छर्दित्रये शीघ्र दूर्वा तण्डुलजाम्बुना ॥३१॥
मूर्च्छारोगे क्वाथ कथनम् ।
महौषधामृता क्षौद्रं पौष्करं ग्रन्थिकोद्भवम् ॥
पिवेत्कणायुतं क्वाथं मूर्च्छाद्येषु गदेषु च ॥३२॥
उन्मादे दशमूल क्वाथः।
दशमूलाम्बु सघृत उन्मादे मांसजैरसैः॥
वातेमन्यास्तम्भे क्वाथादिविधिः।
ससिद्धार्थक चूर्णं वा पुराणं वैककं घृतम् ॥३३॥
पञ्चमूल्याश्च दिङ्ग्मूल्याजलं वातेषु स्नेहयुक्॥
रूक्षः स्वेदस्तथा नस्यं मन्यास्तम्भे प्रशस्यते ॥३४॥
सकृष्णः पिप्पलीसहितः ॥२९॥ नागरं शुण्ठी । व्याघ्री कण्टकारी ॥३०॥
श्रीफलस्य विल्वस्य ॥३१॥ महौशधामृता क्षौद्रं शुण्ठी गुडूची मधु । ग्रन्थिकं पिप्पलीमूलं। कणायुतं पिप्पलीचूर्णसंयुतम् ॥३२॥ ससिद्धार्थकचूर्णं सर्षपचूर्ण सहितम् । एककं एकं पुराणं घृतमेववा पिवेत् ॥३३॥ स्नेहयुक्तं घृतसहितम् ॥३४॥
पार्श्वमूल-ज्वर-श्वास-पीनस आदि नाशक है । पिप्पली चूर्ण सहित कटेरी का क्वाथ कासनाशक है ॥२९॥ खुत्थी ,शुण्ठी , कटेरी , अडूसेकेपत्ते , पोहोकरमूल , का क्वाथ हिक्का-श्वास नाशक है ॥३०॥ बेलगिरी वा गिलोय का क्वाथ शहद के साथ अथवा चांवलके जलके साथ दूर्वा पीने से तीनों प्रकार की वान्त दूर हो जाती है ॥३१॥ मूर्च्छा रोग पर शुण्ठी , गिलोय , पोहोकरमूल , पिप्पलीमूल , का क्वाथ शहद पिप्पलीचूर्ण सहित पीवै ॥३२॥ शालिपर्णी, पृश्निपर्णी, दोनों कटेरी , गोखुरु , बेलगिरी , अरणी , अरलू , पाडर , खमारि का क्वाथ घृतसहित वा मांसजरस ( सोरूआ ) के साथ उन्माद रोग पर या सरसों के चूर्णके साथ अथवा पुराणा एक घृत ही सेवन करै ॥३३॥ शालिपर्णी, पृश्निपर्णी, दोनों कटेरी , गोखुरु , इस पञ्च मूल का या इन्ही में बेलगिरी , अरणी , अरलू , पाडर , खमारि पांच मिलाने से दशमूल का क्वाथ वातरोग पर घृतसहितऔर रूक्ष स्वेदविधि तथा नस्य ,वातज मन्यास्तम्भ ( आधुनिक चिकित्सा में सर्वाइकल स्पोन्डिलायटिस कहते है। ) पर उत्तम है ॥३४॥
वात रक्त चिकित्सा ।
लीढ्वा मुण्डितिका चूर्णं मधु सर्पिः समन्वितम् ॥
छिन्नाक्वाथं पिवन् हन्ति वातरक्तं सुदुस्तरम् ॥३५॥
आमवातघ्न क्वाथः ।
शुण्ठी शठ्यभया चोग्रा देवाह्वातिविषाऽमृता ॥
कषाय आमवातस्य पाचनो रूक्ष भोजनम् ॥३६॥
छिन्ना गुडूची ॥३५॥ शठी कर्चूरः । अभया हरीतकी । उग्रा वचा । देवाह्वा देवदारुः। अमृता गुडूची ॥३६॥
मुण्डी का चूर्ण सहद , घृत सहित चाटकर गिलोय के क्वाथको पीता हुआ मनुष्य अतिदुर्घट वातरक्त को जीतता है ॥३५॥ शुण्ठी , कचूर , हरड की छाल , वच , देवदारु , अतीस , गिलोय का क्वाथ आमवात नाशक पाचन और रूक्ष भोजन पथ्य है ॥३६॥
शूल नाशक क्वाथः ।
बिल्वमूलमथैरण्डं चित्रकं विश्वभेषजम् ॥
हिङ्गगु सैन्धव संयुक्तं सद्यः शूलनिवारणम् ॥३७॥
कासादौ शुण्ठी क्वाथः।
नागरं वा पिवेदुष्णकषायं चाग्निवर्धनम् ॥
कास श्वासानिलहरं शूलहृद्रोग नाशनम्॥३८॥
कृच्छ्र रोगे क्वाथः।
कषायोऽतिबलामूल साधितोऽशेष कृच्छ्रहा ॥
मूत्राघातान्यथा दोषं मूत्रकृच्छ्रहरैर्जयेत् ॥३९॥
अश्मरी नाशक क्वाथः ।
श्वदंष्ट्रैरण्डपत्राणि नागरं वरुणं त्वचम् ॥
एतत्क्वाथवरं प्रातः पिवेदश्मरि भेदनम्॥४०॥
प्रमेह नाशक क्वाथः।
कटङ्कटेरी मधुक त्रिफला चित्रकैः समैः ॥
सिद्धः कषायः पातव्यः प्रमेहाणां विनोत्थितः॥४१॥
॥३७॥३८॥३९॥ श्वदंष्ट्रा गोक्षुरं । नागरं शुण्ठी ॥४०॥ कटङ्कटेरी हरिद्रा ॥४१॥
बेल की जड , अरण्ड की जड , चीते की छाल , शुण्ठी , भुनीहिंग , सैंधालवण , सहित शीघ्र ही शूल नाशक है ॥३७॥ अथवा शुण्ठी का क्वाथ अग्निवर्धक कास-श्वास-वात-शूल- हृद्रोग नाशक पीवै ॥३८॥ बड़ी खिरेटी का क्वाथ समस्त कृच्छ्र रोगनाशक है और मूत्राघातसे अन्य कृच्छ्रों को मूत्रकृच्छ्रनाशक द्रव्यों से जीते॥३९॥ गोखुरु , अंडके पत्ते , शुण्ठी , बरनेकीछाल का श्रेष्ठक्वाथ प्रातः पीनेसे अश्मरी ( पथरी ) नाशक है ॥४०॥ हल्दी , मुलहटी , त्रिफला , चीते की छाल , समभाग का क्वाथ प्रमेह नाशक है ॥४१॥
त्वचारोग – शोथ – उदर – पाण्डु – स्थूलता – प्रसेक – कफ – आम जन्येषु चिकित्सा ।
पुनर्नवादार्वभयागुडूचीं पिवेत्समूत्रां महिषाक्षयुक्ताम् ॥
त्वग्दोषशोथोदरपाण्डुरोग स्थौल्यप्रसेकोर्ध्व कफामयेषु ॥४२॥
सर्वाङ्ग शोथरोगे क्वाथ कथनम् ।
भूनिम्बविश्वकल्कं जग्ध्वा पेयः पुनर्नवा क्वाथः॥
अपहरति नियतमाशु शोथं सर्वांगगं नृणाम् ॥४३॥
अन्त्र वृद्धि चिकित्सा |
रास्नायष्ट्यमृतैरण्ड बलागोक्षुर साधितः ॥
क्वाथोंऽत्रवृद्धिं हन्त्याऽऽशु रण्डतैलेन मिश्रितः॥४४॥
दारु दार्वीहरिद्रा।अभया पथ्या।समूत्रां गोमूत्रसहिताम्।महिषाक्षो गुग्गुलुस्तेन युक्ताम् ॥४२॥ भूनिम्बः कैरातः।विश्वः शुण्ठी ॥४३॥ यष्टी मधुयष्टी । अमृता गुडूची ॥४४॥
त्वचारोग- शोथ-उदररोग-पाण्डुरोग- स्थूलता-प्रसेक- और ऊर्ध्वभागमें कफजन्यरोगों में पुनर्नवा , दारुहल्दी , हरड की छाल ,गिलोय , शुद्धगुग्गुल , गोमूत्र सहित पीवै ॥४२॥
चिरायता , शुण्ठी की फकी खाकर ऊपर से पुनर्नवा का क्वाथ पीनेसे शीघ्र अवश्य ही मनुष्यों का सर्वांग शोथ जाता है ॥४३॥ रायसन, मुलहटी , गिलोय ,अण्ड की जड , खिरेटी , गोखुरु का क्वाथ अण्ड के तैल के साथ पीनेसे अन्त्रवृद्धिनाशक है ॥४४॥
उपदंश चिकित्सा कथनम् ।
त्रिफलायाः कषायेण भृङ्गराजरसेन वा ॥
व्रणप्रक्षालनं कुर्यादुपदंशप्रशान्तये ॥४५॥
कुष्ठरोगनाशक क्वाथः।
पटोल खदिरारिष्ट त्रिफलाकृष्णवेत्रजम्॥
तिक्ताशनः पिवेत्क्वाथं कुष्ठि कुष्ठं व्यपोहति ॥४६॥
शीत पित्तज उदर्दरोगे क्वाथः।
शीतपित्तोदर्दरोगे पटोलारिष्टवार्वमिः॥
अम्लपित्तादौ क्वाथः।
यवकृष्णपटोलानां क्वाथं क्षौद्रयुतं पिवेत् ॥४७॥
॥४५॥ अरिष्टो निम्बः ॥४६॥४७॥
त्रिफला के और भांगरे के क्वाथ से उपदंश शान्त्यर्थ व्रण (छालों) को धोवै ॥४५॥ परवल , खैरसार,नीम की छाल,त्रिफला,पीपली, बेंत की कुटकी का क्वाथ पीने से कुष्ठी का कुष्ठरोग
जाता है ॥४६॥ शीत पित्त , उदर्द रोग पर परवल के पत्र , नीमकी छाल के क्वाथ को पीकर वमन करै और जौ , पिप्पली चूर्ण , परवल के पत्तों का क्वाथ सहत सहित पीवै ॥४७॥
वमन नाशक क्वाथः।
नाशयेदम्लपित्तञ्च अरुचिं च बमिं तथा ॥
विसर्प रोग नाशक क्वाथः।
मुस्तारिष्टपटोलानां सर्वं वीसर्प नाशनः ॥४८॥
मसूरी रोग नाशक क्वाथ कथनम्।
निम्बातिमुक्तकाऽशोक प्लक्षवेतसपल्लवैः ॥
निशापर्युषितः क्वाथो मसूरी भय नाशनः ॥४९॥
मुखपाके गण्डूषः।
जातीपत्रामृता द्राक्षायास दार्वीफलत्रिकैः ॥
क्वाथः क्षौद्रयुतः शीतोगण्डूषो मुखपाकनुत्॥५०॥
शूल-प्रदर-पीत-श्वेत-रक्त-नील-कृष्णादि प्रदर नाशक क्वाथः।
दार्वीरसाञ्जन वृषाब्द किरात विल्व भल्लातकैरवकृतो मधुना कषायः॥
पीतोजयत्यतिबलं प्रदरं सशूल पीतासितारुण विलोहितनीलकृष्णम् ॥५१॥
मुस्तारिष्टपटोलानां क्वाथः इति शेषः ॥४८॥४९॥५०॥ वृषो वासकः । अव्दः मुस्ता ।
कैरवं सितकमलम् ॥५१॥
तो अम्लपित्त-अरुचि-वमन नाश करै । मोथा , नीम की छाल , परवल के पत्तों का क्वाथ विसर्प रोग नाशक है॥४८॥ नीम ,अशोक , पिलुखन , बेंत के पत्तों का क्वाथ रात्रि में बसाया हुआ मसूरी रोग नाशक है ॥४९॥ चमेली के पत्र , गिलोय , मुनक्का , जवासा , दारुहल्दी , त्रिफला का क्वाथ शहद युत शीतल गण्डूष विधिसे मुख पाक को दूर करता है ॥५०॥ दारुहल्दी ,रसोत , अडूसे के पत्ते , नागरमोथा , चिरायता , बेल ,भिलावे , कमोदिनी के पुष्पों का क्वाथ पिया हुआ अतिबल ( असाध्य ) शूल सहित पीत ,श्वेत , लाल ,( रक्त ) कृष्ण ,नील समस्त प्रदरों को हरता है ॥५१॥
गर्भिण्याज्वरशान्तये क्वाथः ।
चन्दनं सारिवालोध्र मृद्वीका शर्करान्वितम् ॥
एषां क्वाथः प्रदातव्यो गर्भिण्याज्वरशान्तये॥५२
सूतिकाया दुग्धवृध्यै क्वाथः ।
हरिद्रादिं वचादिंवा प्रपिवेत्स्तन्य वृद्धये ॥
प्रसूतिरोगे दशमूल क्वाथ कथनम् ।
दशमूलीकृतः क्वाथः सदा सूतीरुजापहः ॥५३॥
भैषज्यं पूर्वमुद्दिष्टं नराणां यज्ज्वरादिषु ॥
कार्यं तदेव वालानां मात्रा त्वस्य कनीयसी॥५४॥
॥५२॥५३॥५४॥
लालचन्दन , सारिवा , लोध ,मुनक्का का क्वाथ मिश्री सहित गर्भिणी के ज्वर का नाशक है ॥५२॥ दुग्ध वृद्ध्यर्थ हरिद्रा या वचादि क्वाथ पीवे और प्रसूति रोग पर दशमूल पूर्वोक्त क्वाथ श्रेष्ठ है ॥५३॥ जो पूर्व मनुष्यों के ज्वरादि रोगों में औषध कहा है वही बालकों के रोगों में देना परन्तु मात्रा ( तोल ) छोटी ( कम ) है ॥५४॥
दारिद्र्यनाशिनी कृषिकथनम् ।
एवं चतुष्पदाऽरोगा दृढावयव संयुता ॥
कृषिः पूर्णफला प्रोक्ता सर्वदारिद्र्य नाशिनी॥५५॥
धर्मार्थकाममोक्षाणां साधिनी जनपालिनी॥
दारिणी सर्वपापानां लोकद्वयविधायिनी॥५६॥
इति दाशरथीकृतिषु कृषिशासने कृषेः स्वामिनाम तुरीयपाद कथनं नाम षष्ठोध्यायः॥६॥
तुरीयपादमुपसंहरन्नाह । एवमित्यादि । अरोगा रोगैर्हीना । यतोऽनन्त धान्यधन रत्नादिदात्री ॥५५॥सर्वपापानां दारिणी नाशिनी यतोऽनेक जनोपकारिणी । लोकद्वय विधायिनी । यतो भूस्वर्लोक वासि प्रानिनामुपजीवनी ॥५६॥ इति नारायण भाष्य सहिते कृषिशासने तुरीयपाद कथनं नाम षष्ठोध्यायः॥६॥
एवं पूर्वोक्त प्रकारसे निरोग दृढ अवयव वाली चतुष्पद कृषि ( खेती ) पूर्ण फल देनेवाली कही है और वही संपूर्ण दारिद्र्य नाशिनी होती है ॥५५॥ धर्म अर्थ काम मोक्ष धर्म साधिनी और जनपालनकर्त्री , सर्वपापनाशक , भूर्लोक स्वर्लोक भोगदात्री होती है ॥५६॥
इति राघव भाष्यसहिते कृषिशासने तुरीयपादकथनं नाम षष्ठोध्यायः॥६॥
टीकाद्वयोपेतम्
|| कृषि शासनम् ||
|| अथ सप्तमोध्यायः || [7 ]
कृषक व्युत्पत्तिः ।
कृषिर्विलेखने प्रोक्तो लेखनं भूविदारणम् ॥
कर्षति कृषति क्ष्मां यः कर्षकः कृषकोमतः॥ १॥
कृषिं कायति कृशाणं कृषिकोऽपिमतोबुधैः॥
कृषि व्युत्पत्तिः।
कृशीवलश्च सास्त्यस्य कृष्यते कर्षणं कृषिः॥ २॥
फ़ाल व्युत्पत्ति नाम कथनम् ।
कर्षः कर्षक एवाऽसौ कृशकोऽनेन कर्षति॥
कृषिकः कृषको भूमिं फालो गोश्च मतोबुधैः॥३॥
चतुष्पाद कृषिमनूद्याधुना सामान्यतया कृषिं व्याचिख्यासुर्व्युत्पादयति । कृषिरित्यादि विशेषकेण। क्ष्मां भूमिम् ॥१॥२॥३॥
कृष धातु विलेखन अर्थ में है ऐसा वैयाकरणों ने कहा है विलेखन भूमिके फोडनेको कहते हैं भूमिको जोतता है अतः कृषाण को कर्षक और कृषक कहते हैं कृष धातु व्याकरण धातु पाठस्थ भ्वादि , तुदादिगण में है ॥१॥ कै धातु भ्वादिगण में शव्दार्थक होनेपर भी कृषिपद साहचर्य से विलेखनकरणार्थ में है अतः कृषाणको कृषिक भी आचार्य्यों ने माना है और कृषि जीवन विद्यमान है अतः उसीको कृषीवल भी कहा है।कर्षण किया जावै यह भाव प्रत्ययान्त कर्षण-कृषि दो नाम खेती के हैं ॥२॥ भूमिको जिससे खोदे ( जोते ) उसको कर्ष ही कर्षक स्वार्थ प्रत्ययान्त और कृषक , कृषिक ये करण प्रत्ययान्त चार नाम फाल( हल ) गौ ( वृष ) के आचार्यों ने कहे हैं ॥३॥
योग्य क्षेत्र कथनम् ।
नातिदूरे नातिपार्श्वे न मार्गे धेनुसञ्चरे ॥
नान्यभूमौ कृषेत्क्षेत्रं स्वधर्मं परिरक्षयन्॥४॥
अनूपरे श्मशाने चाऽच्छायेऽपाषाण शर्करे ॥
अनिम्नोच्चे कृषेत्क्षेत्रं श्रियमिच्छुः सदा नरः ॥५॥
कल्याणाभिलाषुकः क्व भूमौ क्षेत्र कर्षणङ्कुर्यात् तत्राह । नातिद्वाभ्याम् ।नातीत्यादिना नदीतीरस्यापि निषेधो बुध्यते । स्वधर्मं परिरक्षयन् इत्यनेन यद्यसौ वाहयेल्लोभाद्द्वेषान्मत्सरतोऽपि च । क्षीयतेऽसौऽचिरात्पापैः सपुत्र पशु वान्धवः । तामिस्रनरकं घोरं पापीयान्याति निश्चितम् । परकीयां योऽपहृत्य कृषिकृद्वाहयेद्धराम्।स भूमिस्तेयपापेन सुचिरं नरके वसेत् ।
एक सङ्ख्यमपि स्वर्णं भूमिमङ्गुल मातृकाम्।तथैकामपि गां हृत्वा सृष्ट्यन्तं नरके वसेत्। इति पाराशरोक्त पापावाप्तिर्नरकावाप्तिश्च सूचिता ॥४॥५॥
नगर से अतिदूर और अतिपास तथा मार्ग , गोचर , ( बीड ,रूंद ) ,अन्य की भूमि ॥४॥
में निज धर्मरक्षण करता हुआ खेत नहीं जोते अर्थात् उत्तम स्थान-ऊपर ,श्मशान , छाया , पाषाण युक्त ( पथरीली भूमि ) शर्कर ( मृदु ) अति निम्नस्थल ,अति उच्चस्थल, में भी सदा निज परमैश्वर्य की इच्छा करता हुआ कृषाण खेत नहीं जोते वोवे किन्तु उक्त स्थान और नदी तीर आदि अनुक्त स्थानों को त्याग अन्यत्र ही भूमि में जोते ॥५॥
क्षेत्र बन्ध क्रिया ।
उष्ट्राश्वाद्यैरनुल्लङ्घ्योह्यभेद्यः सूकरादिभिः ॥
शिलेष्टकामृदाद्यैश्च क्षेत्रबन्धः प्रयत्नतः ॥६॥
कार्योमृगादित्रासाय तथाऽपि तस्करादितः ॥
भयं विनाशयेद्राजा यस्माद् गृह्णात्यसौ करान् ॥७॥
क्षेत्रस्य परितोबन्धः कर्तव्यः शस्यरक्षार्थमित्यत आह । उष्ट्रेति युग्मेन। उष्ट्राश्वाद्यैरित्यत्राद्य शब्देन वृषभादयोऽपि सूच्यन्ते ॥६॥ यद्यपि मृगादित्रासाय बन्धः कार्य एव तथाऽपि तस्करादितोभयं राजा विनाशयेद्यस्मादसौ करान् गृह्णाती त्यन्वयः ॥७॥
ऊंट , घोड़ा , बैल , सुअर आदि पशुओं से फांदने में नहीं आवे और सुअर आदि पशुओं से तोड़ने में नहीं आवे ऐसा दृढ़ पाषाण , ईंट ,मृत्तिकादि का क्षेत्र ( खेत ) का बन्ध ( कोट ,डोरा ) प्रयत्न से बनावै ॥६॥ और सिंह आदि के त्रासार्थ कण्टकादि से वाढ़ यद्यपि कृषाण बनावै पर तथापि चौर आदि के भय को राजा निवृत्ति करै कारण वह कर ( लगान ) लेता है ॥७॥
श्रेष्ठ क्षेत्रम् ।
अनवद्यं शुभं स्निग्धमम्भसोगाहनक्षमम् ॥
यत्र तोयं स्थितिं गच्छेत्तत्क्षेत्रं प्रवरं मतम्॥८॥
कूप खननम् ।
क्षेत्रपार्श्वेऽथवा क्षेत्रे कूपंवा वापिकां खनेत् ॥
अनावृष्टिजनाशार्थं कृषको बुद्धिमान् नरः ॥ ९॥
नालिका जलसेकः।
अथवा नालिकान्यासं नदीतः संप्रचारयेत् ॥
पृथक् करे प्रदत्वा च शस्य सम्पत्ति हेतवे ॥१०॥
कर दान कथनम् ।
यद्यप्याज्ञप्तमृषिभिर्ब्राह्मणेतर कर्षकैः ॥
ग्रामपाय नृपाय प्रदेयः शुल्कः सदा नरैः ॥ ११॥
उत्तम क्षेत्र मभिलक्षयति । अनवद्यमिति ।अनवद्यं नातिपुष्टकृशभूवत् शुभमुषरादि दोषहीनम् । स्निग्धन्दृष्टिघ्राण तृप्तिकरम् । अम्भोऽवगाहनक्षमं नातिजल पान शक्तम् । यत्र च कञ्चित्कालं तोयञ्जलम् ॥ ८॥ ९॥ १०॥ ११॥ अति मोटी ( चिकनी ) कृश ( भूड ) भूमि में न हो और उषरादि दोष ( पूर्वोक्त ) रहित नेत्र नासिका को तृप्तिकर , बहुत जल पीने की शक्ति वाला नहीं हो और जिसमें जल की तरी कुछ काल तक रहै वह उत्तम खेत कहा है ॥ ८॥ अनावृष्टि ( सूखा ) दोष निवारणार्थ खेत के पास या खेत में कुआ या वावली का खनन बुद्धिमान् करते हैं ॥ ९॥ अथवा जल का लगान भिन्न देकर किसी बडी नदी में से नहर ,बंबा , नाली आदि निकलवा लेवै फसल की वृद्धि के लिये ॥ १०॥ यद्यपि पूर्व के मुनियों ने ब्राह्मण जाति रहित कृषाणों को देने योग्य ग्रामप ( जमीदार ) नृप ( राजा ) को लगान ( पोता ) सदा देना कहा है ॥ ११॥
तथाऽपि कालवशतः सुख श्रेयोऽभिलाषुकैः॥
ब्राह्मणैरपि भूपस्य नृपस्य देय इष्यते ॥ १२॥
यतः कोष विवृद्ध्यर्थं राज्ञो भूपस्य जायते ॥
कृषिजीवीत्युवाचेदं शक्तिपुत्रः पराशरः ॥ १३॥
॥ १२॥ १३॥
तथापि काल वश से सुख कल्याणाभिलाषि ब्राह्मणों को भी राजा और जमीदार के लिये लगान देने योग्य है ॥ १२॥ कारण कृषाण का जन्म राजा , जमीदार के खजाने की वृद्धि के लिये ही होता है । ऐसा शक्तिपुत्र पराशर ने कहा है ॥ १३॥
बीज वाप समयः ।
मधौ वा माधवे मासि द्वादशाङ्गुल क्लिन्दके ॥
स्फ़ुट कर्कटिकाद्यञ्च इक्षु कूष्माण्डकालुकम् ॥१४॥
ज्येष्ठे कृष्णे दले वाप्यं लम्बकूष्माण्ड टिण्डशे ॥
वृन्ताकत्रपुसाऽऽरोटचीन वाताद रात्रिकाः ॥१५ ॥
पित्तकारिणिकार्द्रे च मकायार्वी पटोलकं॥
राजकोशातकी मानकचु शर्करकन्दिकम् ॥१६॥
कारवेल्ली शिम्बिका च सेचनीयं यथातथम् ॥
आषाढे मुण्डको जूर्णा बजरी षष्ठिकादिकम् ॥१७॥
शिष्टे नभसि भाद्राद्ये वृन्ताक क्षुप रोपणम् ॥
भाद्रशुक्ले च गोभ्याद्यं वापनीयं प्रयत्नतः ॥१८॥
पालयेदातपादेश्चाऽऽश्विने शेषेतु रोपयेत् ॥
कार्तिके कृष्णपक्षेचाऽऽलूक गोधूम सर्षपम् ॥१९॥
चणक मुण्डचणक यव ब्रीहि कुसुम्भकम् ॥
रसातलमकायञ्च मूल गर्जर पित्तलि ॥२०॥
बीज वाप समयमाह । मधाविति नवश्लोकैः । मधौ चैत्रे । माधवे बैशाखे ॥१४॥ दले पक्षे ॥१५॥१६॥१७॥ ॥ १८॥१९॥ पित्तलीत्यत्र ह्रस्वन्त नपुंसकान् ॥२०॥
चैत्र या बैशाख में खरबूजा , तरबूज , फूट , कांकडी , सेंध , आदि और ईख ,गोल कद्दू
( कासी फल ) आलू ॥१४॥ और ज्येष्ठ कृष्ण पक्ष में लौका ( लम्बे कद्दू कदुइया ) ढ़ेढस , बेंगन , खीरा , अरारोट , चेना ,बादाम ,हल्दी ॥१५॥ लाल मिर्च ,अदरक ,मक्का ,अरई ,परबल , मानकन्द ,शकरकन्दी ॥१६॥ वोने योग्य है और करेला तथा सेंम में यथा तथा जल देना योग्य है । आषाढ़ में मडुआ , ज्वार ,बाजरा ,बाजरी , साठी आदि ॥१७॥ तथा कुछ शेष श्रावण और भाद्रपद प्रथम पक्ष में बेंगन पौधे लगाने योग्य हैं एवं भाद्रपद शुक्ल में गोभी आदि शाक बीज यत्न से वोने योग्य हैं ॥१८॥ किन्तु वोये हुए गोभी आदि के अंकुरों की घाम आदि उपद्रवों से रक्षा करै अतः सिद्ध हुआ कि ऐसे किसी पात्र में बीज वोया जाय जो घाम आदि में से उठाकर छाया में स्थापन कर दिये जावैं पुनः किञ्चित् शेष आश्विन में उक्त वृक्षों को खेत में लगा देवै । कार्तिक कृष्ण पक्ष में आलू , गेंहू , सरसों , ॥१९॥ चणा , मटर , जौ , जई , कसूम , अमेरिका आदि देशों की मक्का , मूली , गाजर , लालमिर्च वोने योग्य है ॥२०॥
शेषे मार्गऽसिते पक्षे विदेशी शिम्बिकादिकम्॥
पलाण्डुगृञ्जने धान्यं शतपुष्पादि मेथिकाम् ॥२१॥
माघे वा फाल्गुने मासि सेचयेद्विधिना नरः ॥
अथवा मुनिवाक्यञ्च हृदिधृत्वा वपेन्नरः ॥२२॥
शारद्य क्षेत्र कथनम् ।
शारद्यमुचुकैर्भूमौ कङ्काद्यं वापयेद्धली ॥
अधित्यकासु कार्पासं वदन्त्यत्र तु हैमजम् ॥२३॥
वासन्त वाप्य क्षेत्र कथनम् ।
वासन्तं ग्रीष्मकालीयं वाप्यं स्निग्धेषु तद्विदा॥
केदारेषु तथा शाली जलोपान्तेषु चेक्षवः॥२४॥
मूल वृन्ताक शाकानि कन्दलानि जलान्तिके॥
विश्रान्त वृष्टिपानीयं क्षेत्रेष्वेवं यवादिकम् ॥ २५॥
गोधूमाश्च मसूराश्च खल्वाः खलकृशास्तथा ॥
समास्तेषु च ते वाप्या धान्यान्यन्यानि योगतः ॥ २६॥
कुलत्थ मुद्ग माषाश्च राजमाषादिकास्तथा॥
वाप्या भूमिविशेषे तु भूमिजीव विजानता ॥ २७॥
तिला वहुविधा वाप्या अतसी सणमेवच ॥
मृदम्बुयोगजं सर्वं वापयेत्कृषिकृन्नरः ॥ २८॥
॥ २१॥ अथवेति॥ पक्षान्तरमाह । मुनिवाक्यम्पराशरवचनम् । धृत्वा विचार्य ॥२२॥ अधित्यकासु ऊर्ध्वभूमिषु ॥२३॥२४॥२५॥२६॥२७॥ सर्वं नीलादिवर्जमित्यर्थः ।
तथाच ” सदोप्त्वा रजनीं नीलीं पुत्रवित्तैर्वियुज्यते । स्वयं जाते पुनस्ते द्वे पालयन्नैव दुष्यति ।आरामे गृहमध्येवा मोहात् सर्षपमावपन् । पराभवं रिपोर्याति ससाधनधनक्षयम् । ” किञ्च ” निशा नीली पलाशश्च चिञ्चा श्वेताऽपराजिता ।कोविदारश्च सर्वत्र सर्वं निघ्नन्ति मङ्गलम् । ” इति पुराणवाक्यात् ॥२८॥
किञ्चित् मार्गशीर्ष कृष्णपक्ष शेष में विलायती सेंम आदि और प्याज , शलगम , धनियां ,सौंफ , आदि और मेथी ॥२१॥ एवं माघ व फाल्गुन में विधि से जल देना योग्य है अथवा पराशर मुनि के वाक्य का विचार कर वोने योग्य है ॥२२॥ कार्तिकी फसल ऊंची भूमि में कंगुनी(वानस्पतिक नाम : सेतिरिया इटालिका) आदि बीज ववावे और हेमन्त ऋतुजन्य कपास को भी ,॥२३॥ तथा वसन्त और ग्रीष्म कालिक फसल
( वैशाखी ) तरीदार खेतों में और शाली (चावल-धान ) ईख जल के पास की भूमि ( तरा ई ) में ॥२४॥ एवं मूली , वेंगन , शाक ववावे तथा कन्दशाक भी तराई में और जिन खेतों ने वर्षाका जल पिया हो उनखेतों में ॥२५॥ जौ ,गेंहू , आदि मसूर और खल्व तथा खलकुश समा धान्य बीज ववाने योग्य एवं युक्तिसे अन्य भी अन्न जाति ववावे॥२६॥
खुत्थी , मूंग ,उर्द , रमास , आदि तृणान्न भूमि शक्ति जानने वाले कर्षा को अधिक भूमि होने पर ववाने योग्य हैं ॥२७॥ तिल अनेक जातीय और अलसी ,सन , ववाने योग्य हैं उक्त ही अवस्था में मृत्तिका जलके योग से जो २ हो सकै वही २ संपूर्ण ” परन्तु ब्राह्मणादि द्विजातियों को हल्दी ,नील ,सरसों ,ढाक ,इमिली ,सफेदकोयल ,कचनार आदि वर्जकर ” { छोड़कर } ववाने योग्य हैं ॥ २८॥
बीज वाप कालः :-
वैशाखे वपनं श्रेष्ठं ज्येष्ठे तु मध्यमं स्मृतम् ॥
आषाढे चाधमं प्राहुः श्रावणेचाऽधमाधमम् ॥२९॥
रोपणार्थन्तु बीजानां शुचौ वपनमुत्तमम् ॥
श्रावणे चाऽधमं प्रोक्तं भाद्रेचैवाऽधमाधमम् ॥३०॥
बीज वाप मुहूर्तम् –
उत्तरात्रय मूलेन्द्र मैत्रपैत्रेन्दु धारकम् ॥
हस्ते चाप्यथ रेवत्यां बीज वापनमुत्तमम् ॥३१॥
विष्णु पूर्व विशाखासु यम रौद्रानिलाहिषु॥
बीजानां वपनं कृत्वा बीजं प्राप्नोति मानवः ॥३२॥
वपने रोपणे चैव वारयुग्मं विवर्जयेत् ॥
मूषिकाणां भयं भौमे मन्दे शलभकीटयोः॥३३॥
न वापयेत्तिथौ रिक्ते क्षीणे सोमे विशेषतः॥
एवं सम्यक् प्रयुञ्जानः शस्य वृद्धिमवाप्नुयात् ॥३४॥
समय स्थानं उक्त्वाऽधुना शारद्यस्य वपने चोत्तमाधममध्यम समयमाह । वैशाख इति ॥२९॥बीजरोपणाय वपनेऽप्युत्तम मध्याधमत्वन्दर्शयति। रोपणेति॥३०॥ बीज वपन मुहूर्तं कथयति । उत्तरेति पञ्च श्लोकैः। ऐन्द्र मैत्र पैत्रेन्दुधातृषु ज्येष्ठा अनुराधा मघा मृगशिरा रोहिणीषु ॥३१॥ विष्णुः श्रवणम् ।पूर्वात्रयम् यम रौद्रानिलाहिषु भरण्यार्द्रा रेवत्याश्लेशासु ॥३२॥३३॥३४॥
ज्येष्ठा | अनुराधा | मघा | मृगशिरा | रोहिणी | श्रवणा | भरणी | आर्द्रा | रेवती | आश्लेषा |
इन्द्र | मित्रम् | पितर | चन्द्रमा | ब्रह्मा | विष्णु | यमः | शिवः | पूषा | सर्पः |
मधुश्च माधवश्च वासन्तिकावृतू । शुक्रश्च शुचिश्च ग्रैष्मावृतू । नभश्च नभस्यश्च वार्षिकावृतू । इषश्चोर्जश्च शारदावृतू । सहश्च सहस्यश्च हैमन्तिकावृतू । तपश्च तपस्यश्च शैशिरावृतू ॥ऋग्वेदे ॥ त्रयोदशानां मासानां नामानि अरुणोऽरुणरजाः पुण्डरीको विश्वजिदभिजित् । आर्द्रः पिन्वमानोऽन्नवान् रसवानिरावान् । सर्वौषधः सम्भरो महस्वान् ॥ तैत्तिरीय ब्राह्मणे ॥
कार्तिक फसल का वैशाख में उत्तम ज्येष्ठ में मध्यम , आषाढ में अधम और श्रावण में वोना अधम से भी अधम कहा है परन्तु यह सिद्धान्त तराई के खेत के लिये है इतना विचार अवश्य ही कर लेना॥२९॥ और पौध लगाने के लिए बीजों का वोना आषाढ में उत्तम ,श्रावण में मध्यम , भाद्रपद में अधम कहा है ॥३०॥ तीनों उत्तरा , मूल , ज्येष्ठा , अनुराधा , मघा, मृगशिर , रोहिणी ,हस्त ,रेवती , नक्षत्रों में बीज वोना श्रेष्ठ है ॥३१॥
श्रवण ,तीनों पूर्वा ,विशाखा ,भरणी ,आर्द्रा ,स्वाति , आश्लेषा ,नक्षत्रों में बीज वोनेसे बीज मात्र ही लाभ मनुष्य को होता है ॥३२॥ वोने और पौधा लगाने में दो वार त्याग देवै कारण मंगल मूषक भय और शनि टीडी और कीडों का भय करता है एवं रिक्ता तिथि (४,९,१४,) क्षीण चन्द्र में विशेषकर बीज न वोवै । इस भांति वोता हुआ उत्तम खेती के फसली लाभों को प्राप्त होता है ॥३३॥३४॥
उत्तरा ३, मू ,ज्ये ,अनु ,मघा ,मृग ,रो ,हस्त ,रेवती | श्रेष्ठ नक्षत्र |
श्रवण,पू ३,उत्तरा,विशाखा,मघा,भरणी,आर्द्रा ,स्वाति ,आश्लेषा | वर्ज्य नक्षत्र |
४ ,९ ,१४ ,३०, तिथि मंगल,शनिवार,क्षीण चन्द्र | वर्ज्य तिथि वारादि |
ज्येष्ठान्ते त्रिदिनं सार्ध माषाढादौ तथैवच ॥
वपनं सर्वशस्यानां फलार्थी कृषकस्त्यजेत् ॥ ३५॥
बीजोप्तौ सर्पाकार चक्रम् ।
सूर्यभादुरगः स्थाप्यस्त्रिनाड्येकान्तर क्रमात् ॥
मुखे त्रीणि गले त्रीणि भानि द्वादश तूदरे ॥३६॥
पुच्छे चतुर्वहिः पञ्च दिनभाच्च फलं वदेत् ॥
वदने चोचकं विद्याद्गलकेंगारकस्तथा ॥३७॥
उदरे धान्यवृद्धिः स्यात्पुच्छे धान्यक्षयो भवेत् ॥
ईतिरोगभयं राज्ये चक्रे बीजोप्ति सम्भवे ॥३८॥
ज्येष्ठान्ते ज्येष्ठमासान्ते ।आषाढस्य मासस्याऽऽदौ प्रथमे पक्षे।
तदाह वराहः। वृषान्ते मिथुनादौ च त्रीण्यहानि रजस्वला ।
बीजं न वापयेत्तत्र जनः पापाद् विनश्यति ॥ मृगशिरसि निवृत्ते रौद्रपादे ऽम्बुवाची भवति ऋतुमती क्ष्मा वर्जयेत्त्रीण्यहानि । यदि वपति कृषाणः क्षेत्रमासाद्य बीजं न भवति फललाभो दारुणश्चात्र कालः ॥ इति चाऽन्यत्र ॥ ३५॥ बीजोप्ति नक्षत्र चक्रमुच्यते । सूर्यभादिति विशेषकेण । सूर्यभात् सूर्यभुज्यमान नक्षत्रात्। सर्पस्तदाकार चक्रमित्यर्थः । त्रिनाड्यकान्तर क्रमादिति त्रि त्रि नाडीषु त्रि त्रि नक्षत्र स्थापनं क्रमतः कार्यम् । मुखादिस्थानेषु । तद्यथा । यदि अश्विन्यां सूर्यस्तदादिं गणयेत् त्रिनाडीषु अश्विनी भरणी कृत्तिकाषु दत्तेषु नक्षत्रेषु रोहिणी वहिः कार्या ।
मृगशिराआर्द्रापुनर्वसून्दत्वानाडीषुपुष्योवहिः स्थाप्यः। एवमन्येषामपि स्थापनं कार्यम् ॥ ३६॥ चोचकं शस्यशून्यताम् ॥ ३७॥ ईतयः ” अतिवृष्टिरनाव्रष्टिः शलभा मूषकाः शुकाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥” इति ॥३८॥
बीज वोनेमें वर्ज्य दिन ज्येष्ठके बाद आषाढके आदिमें ३ || { साढ़े तीन दिन में } समस्त बीजों का वोना फलार्थी कृषाण त्यागै || ३५ || बीजोप्ति नक्षत्र स्थापन चक्र जिस नक्षत्र पर सूर्य हो उसी नक्षत्र से आदि ले क्रम से सर्पाकार चक्र में तीन २ नाडियों में नक्षत्र स्थापन करै | जैसे मुखमें ३ गले में ३ उदर में १२ || ३६ || पुच्छ में ३ बाहिर ५ और दिन के नक्षत्र से फल कहै मुखस्थ नक्षत्रों में शस्यशून्यता ( फसल का नहीं जमना ) गलस्थ नक्षत्रों में अंगार भय , ||३७ || उदरस्थों में धान्य वृद्धि , पुच्छस्थों में धान्य नाश बाहिर के नक्षत्रों में राज्य में सूखा , अति वर्षा , टीडी , मूषक , पक्षी , राजाओं की चढायी ,का भय होता है || ३८ ||
|| सर्पाकार बीजोप्ति स्थापन चक्रम् ||
बीजोप्ति विधिः ।
हिमेन वारिणा सिक्तं बीजं शान्तमनाः शुचिः ॥
इन्द्रं चित्ते समाधाय स्वयं मुष्टि त्रयं वपेत् ॥३९॥
कृत्वा धान्यस्य पुण्याहं कृषकाहृष्टमानसाः॥
प्राङ्गमुखाः कलशन्धृत्वा पठेयुर्मन्त्रमुत्तमम् ॥४०
ॐ वसुधे हेमगर्भासि वहु शस्यफलप्रदे ||
वसुपूज्ये नमस्तुभ्यं वसुपूर्णाऽस्तुमे कृषिः॥४१॥
रोपयिष्यामि धान्यानां वृक्षबीजानि प्रावृषि॥
सुस्था भवन्तु कृषकाधनधान्यसमृद्धिभिः॥४२॥
वासवो नित्यवर्षी स्यान्नित्य वर्षास्तु तोयदाः॥
शस्यसंपत्तयः सर्वाः सफ़लाः सन्तु नीरुजः ॥४३॥
इति प्रणम्य वसुधां कृशकान् घृतपायसैः ॥
भोजयित्वा गृही भूरि निर्विघ्नां कुरुते कृषिम् ॥४४ ॥
बीजोप्ति विधिमाह । हिमेनेति । हिमेन शीतेन वारिणा जलेन ॥ ३९ ॥ पुण्याहमुत्सवसहितदिनम् ॥ ४० ॥
॥ ४१ ॥४२॥ ४३॥ ४४॥
बीज वोने का विधान — शीतल जल से बीज को सिंचन कर शान्तमन से पवित्र हो कृषाण ( क्षेत्राधिपति ) आप प्रथम इंद्र का चित्त में ध्यान कर तीन मुष्टि बीज वोवै ॥३९॥ बीज वोकर उत्सव पूर्वक प्रसन्न चित्त कृषाण पूर्व दिशा को मुख कर जल पूर्ण कलश को लेकर मूलस्थ तीन श्लोक मंत्रों को पढ़कर भूमि को नमस्कार कर घृत सहित क्षीर भोजन अच्छी भांति कृषकों को कराकर निर्विघ्न खेती करता है ॥४०॥
मन्त्रार्थ – हे भूमि ! तुम सुवर्ण को धारण करती हो अधिकाधिक फसल के देनेवाली हौ अष्टवसु नाम के देवों द्वारा पूजित या धन से पूज्य या मिल सको हौ तुम्हारे लिये नमस्कार है हमारी खेती धन से पूर्ण होवै ॥४१॥ वर्षा ऋतु में संपूर्ण अन्न जातीय बीजों को लगाऊंगा धन, धान्य आदि समृद्धि से कृषाण सुन्दर स्थिति वाले होओ ॥४२॥ नित्य वर्षने वाले इन्द्र और मेघ होवैं , और सस्य सम्पत्ति संपूर्ण सफल और निरोग होवैं ॥४३॥४४॥
रोपण मुहूर्तम्-
पूर्वाभाद्रपदा मूलं रोहिण्युत्तरफाल्गुनी ॥
विशाखा शतभिषा वाऽथ धान्यानां रोपणे वरा॥४५॥
वापारोपभेदः :-
वपनं रोपणं चैव बीजं स्यादुभयात्मकम् ॥
वपनं गदनिर्मुक्तं रोपणं सगदं विदुः ॥४६॥
न वृक्ष रूप धान्यानां बीजाकर्षणमाचरेत् ॥
न फलन्ति दृढाबीजवृक्षाः केदारसंस्थिताः ॥४७॥
हस्तान्तरे कर्कटे च सिंहे हस्तार्धमेवच॥
रोपणं सर्वधान्यानां कन्यायाञ्चतुरङ्गुलम् ॥४८॥
धान्यारोपणं कथयन्तन्मुहूर्तमादावाह । पूर्वेति | द्वीश इति साधु पाठः । वरा श्रेष्ठा ॥४५॥ वपनमवरोपणमाहोस्वित्तदभिन्नमित्यत आह । वपनमिति ॥ ४६ ॥ ४७ ॥ ४८ ॥
धान्य रोपण मुहूर्त– पूर्वा भाद्रपद , मूल , रोहिणी , उत्तरा फ़ाल्गुनी , विशाखा , शतभिषा नक्षत्र धान्य वृक्षों के लगाने में श्रेष्ठ हैं ॥४५॥ वपन -रोपण का अन्तर वोना – लगाना दो भांति का बीज होता है निरोग – बीज वोना , रोगी – बीज लगाना कहा है ॥ ४६॥ बीज सहित जोतने की भांति वृक्षरूप धान्य (जमे हुवे खेत) को नहीं जोते कारण खेत में जमे हुए बीज वृक्ष जोतने के वाद अच्छी फ़सल को नहीं देते हैं ॥४७ ॥ रोपण प्रकार – कर्क के सूर्य में ? हस्त के अन्तर से , सिंहस्थ सूर्य में आधे हस्त के अन्तर से , कन्या के सूर्य में चार अंगुल के अन्तर से संपूर्ण धान्य बीज वृक्षों का लगाना उत्तम है ॥४८॥
कर्षण फलम् —
कर्षणेन विना सर्वं कृषाणानां वृथायते ॥
अतः सुकर्षणं कार्यं येन भूः संप्रभूयते ॥४९॥
निम्न निम्नतराद्यश्च सुकर्षण विभेदकैः॥
सीरेणाऽऽकृष्य सौभाग्यप्रचारेण प्रमर्दयेत् ॥५०॥
कर्षणमन्तरा वपनरोपणादिकं न भवतीत्यत आह । कर्षणेनेति । भूः पृथ्वी । संप्रभूयते सम्यक् समर्था भवतीत्यर्थः ॥ ४९॥ सीरेण हलेन ॥ ५० ॥
विना जोतें संपूर्ण कर्म कृषाण का वृथा होता है अतः जिस भांति भूमि श्रेष्ठ फल देने वाली होवै तैसा जोतना योग्य है ॥४९॥ गम्भीर से अतिगंभीर आदि उत्तम कर्षण (जोतने) के भेदों से हल से जोत कर सुहागे
( पटेले ) से जमीन के ढेलों को मर्दन कर ( दवा ) देवै ॥ ५०॥
यथा येन प्रकारेण अतिवन्यप्रदा धरा ॥
जायते तत्प्रमाणेन विधेया सारसीरतः॥५१॥
कर्षण प्रकारः :-
इक्षु कार्पास वातारि मूल कन्दादिकोप्तये ॥
कृषे निम्न्नतमां भूमिं गोधूमायुप्तये नतु ॥५२॥
भूशक्ति रक्षणार्थाय क्षेत्र ऐक्षवके यवान् ॥
वपन प्रकारः :-
यव्यादिषु च कार्पासान् वपेत्सस्योन्नतीच्छया॥५३॥
कर्षणं वपनं सर्वं लाङ्गलेन विधीयते ॥
हल महिमा –
अतोहलं प्रवक्ष्यामि पराशरमुनीरितम्॥५४॥
पराशरोक्त हल लक्षणम् :-
चत्वारिंशत्तथाचाष्टावंगुलो निकुटः स्मृतः॥
ऊर्ध्वोर्ध्वमङ्गुलैर्भेद्यो हलीषा वेधतश्चयः ॥५५॥
षोडशैवतुतस्याऽधः षड्विंशति तथोपरि ॥
वेधस्तस्यास्तु कर्तव्यः प्रमाणेन षडङ्गुलः॥५६॥
अन्गुलैश्चाष्टभिस्तस्माद्वेधस्स्यात्प्रातिहारिकः ॥
तस्याऽधस्ताच्च चत्वारि सवेधश्चतुरङ्गुलः ॥५७॥
अष्टाङ्गुलमुरस्तस्य वेधादूर्ध्वम्प्रकल्पयेत् ॥
ग्रीवा दशगुणाचोर्ध्वं हस्तग्राही ततः स्मृतः ॥५८॥
सापि तज्ज्ञैः शुभा कार्या तद्वेधस्त्र्यंगुलो भवेत् ॥
पञ्चाङ्गुलमुरस्तस्य शिरसीति विभावनम् ॥५९॥
पृथुत्वं शिरसोधार्यं हस्तोदर प्रमाणकम् ॥
अङ्गुलानि तथा चाष्टावुरसः पृथुता भवेत्॥६०॥
अतिवन्यप्रदाऽतिशस्यफलदा । सारसीरतः गोमयकूट सारदान हलप्रसारण कर्मभ्याम् ॥ ५१॥ वातारिरेरण्डः॥ ५२॥ ५३॥ कर्षणादिकन्तु हलेन भवतीत्यतः पराशरोक्तं हल लक्षणमुच्यते । कर्षणमिति ।हलं हललक्षणम् ॥ ५४ ॥ तत्र हलावयवान्सप्रमाणानाह । अष्टचत्वारिंशदङ्गुल प्रमितोनिकुटो भवति यञ्च हलस्थूलकाष्ठं कुडनामानं वदन्ति । यश्चोर्ध्वादूर्ध्वं वक्ष्यमाणैः षड्विंशत्यङ्गुलैर्हलीषावेधाद्वेद्यो भवति ॥ ५५॥ तस्य हलीशावेधस्याऽधः षोडश एवाङ्गुल प्रमितोवशिष्टो भवति । तस्या हलीशाया वेधस्तु प्रमाणेन षडङ्गुलः प्रकर्तव्यः॥५६॥ तस्य हलीशा वेधस्याष्टभिरङ्गुलैरधस्तादवशिष्ट स्थले प्रातिहारि अधश्चतुरन्गुलो भवति । तस्माच्च कारणाच्चत्वारि अङ्गुलानि सवेधो , अर्थाच्चतुरन्गुलोप्रातिहारितश्चचतुरङ्गुलप्रमितोऽधोवशिष्यतेऽर्थात्सवेधाष्टान्गुलोऽवशिष्टो भवति ॥ ५७ ॥ तस्य हलीशादण्डस्य वेधादूर्ध्वमष्टान्गुल प्रमितमुरस्थलं तदुपरिभागे ग्रीवा दशगुणा दशाङ्गुल प्रमिता कार्या मान्या ततश्चोर्ध्वे हस्तग्राहीति ॥ ५८ ॥ तद्वेधो हस्तग्राह्य वेधस्त्र्यन्गुलप्रमितो भवेत् । उरः उरःस्थलाद्धस्तग्राह्युपरि भागे पञ्चाङ्गुलं पन्चान्गुलप्रमितं शिरसि मस्तकमिति निकुटे विभावनम् विचारः। उरः शिरसीति प्रयोगौ छान्दसौ ॥ ५९॥ हस्तग्राह्याः सिरसः पृथुत्वं हस्ततल प्रमाणकं कार्यम् । तथाचाष्टावन्गुलानि उरसः उरस्थलस्य पृथुता पुष्टत्वं भवेदित्यर्थः॥६०॥
जिस भांति श्रेष्ठ फसल दात्री भूमि हो उसी भांति खात दान और हलकर्मों से उत्तम भूमि को वनावै ॥५१॥ ईख ,कपास ,अरण्ड , मूली ,जमीकन्द आदि कन्द जातीय फसल वोने के लिये अति गंभीर भूमि जोते परन्तु गेंहू आदि अन्न जातीय बीज वोने के लिये वहुत गंभीर नहीं जोते कारण गहरा पड़ा बीज जम नहीं सकता है ॥५२॥ भूमि में शक्ति (जोश) वने रहने के लिये ईख आदि के खेतों को जोतनें से शुद्ध कर गेहूं , जौ वोवै और जौ आदि के खेतों में कपास आदि वोवै उत्तम शाखा की इच्छा से ॥ ५३ ॥ जोतने वोने आदि संपूर्ण कार्य खेती के हल से किए जाते हैं अतः पराशर मुनि के कहे हुए हल लक्षण को कहूंगा ॥ ५४ ॥ हल लक्षण निकुट – नामके हल में जो पीछे सबसे मोटी जो लकड़ी लगाई जाती है उसको कुड ( हल ) कहते हैं वह प्रमाण में ४८ अंगुल का होता है । जो हलीशा ( हर्स ) के छेद से भी ऊपर छिद्र किया जाता है ॥५५ ॥ वह हर्स के छेद से नीचे १६ अंगुल और ऊपर २६ अंगुल शेष रहता है और उसमें ६ अंगुल का हर्स का वेध किया जाता है ॥५६॥ हर्स के वेध से ८ अंगुल का प्रतिहारिक ( पतिहारी का ) छेद किया जाता है ॥ ५७॥ हर्स के वेध से ऊपर उक्त २६ अंगुलों में ८ अंगुल का उरः स्थल माना जाता है । उसके ऊपर १० अंगुल की ग्रीवा मानी जाती है एवं १८ अंगुल को त्याग ऊपर भाग में हस्तग्राही ( मुठिया ) लगाया जाता है ॥ ५८॥ वह उत्तम रमणीय हस्त को सुख दायक बनाने योग्य है परन्तु उस मुठिया का कुड़ में वेध ३ अंगुल प्रमाण का और उसके ऊपर ५ अंगुल का शिर माना जाता है यह निकुट हल के अवयव का विचार कहा है ॥ ५९॥ और मुठिया का शिर ८ अंगुल की मोटाई गोलाई में होना योग्य है ॥ ६०॥
वेधाद्वहिः प्रतीहारी षट्त्रिंशदङ्गुला भवेत् ॥
सुतीक्ष्ण लोहफालास्यान्मृत्काष्ठादि विकारकृत्॥६१॥
वेधान्निजवेधात् । सुतीक्ष्णोऽतिनिशितोलोहस्य फालो यस्यां सा मृदो मृत्तिकायाः काष्ठस्य भूपिहितैन्धनस्य चादिना शस्य जटादेश्च विकारस्य छेदन भेदनोत्पाटन रूपस्य कृत् कर्त्रीत्यर्थः॥६१॥
खास अपने वेधसे वाहिर ३६ अंगुल प्रतीहारी ( पतिहारी ) नामा अवयव होता है जिसमें दृढ लोहे का अति पैना फाल ( फारा ) लगाया जाता है जिससे खेत की मृत्तिका में दबे हुवे पत्थर ,काष्ठ ,मृत्तिका ,घास आदि वृक्षों की जड़ टूटकर ऊपर उखड़ आती है ॥ ६१॥
हल निर्माणेऽशुभवृक्षाः :-
न सीरं क्षीरवृक्षस्य न विल्वपिचुमन्दयोः ॥
इत्यादीनां प्रकुर्वाणो न नन्दति चिरं गृही ॥६२॥
कतमवृक्षस्य काष्ठस्य लाङ्गलं निर्मातव्यमित्यपेक्षायामाह।
नेत्यादियुग्मेन । सीरं हलं। क्षीरवृक्षस्य पिप्पलोदुम्बर बटादेः । पिचुमन्दोनिम्बः।आदिना शिरीषादेरपि संग्रहः। न नन्दति चिरं सुखेन न तिष्ठतीत्यर्थः ॥ ६२॥
दुग्धवाले वृक्षों { पीपल – गूलर – बट – पाकर – आदि } का और बेल ,नींम के काष्ठ का हल कृषाण को अतिकाल सुखदाता नहीं होता है अतः उक्त वृक्षों के काष्ठ का न बनवावै ॥६२॥
प्लक्षाक्षयोर्न तत्कुर्याद्राक्षसौ कीर्तितौ हि तौ ॥
तयोः काष्ठस्य कुर्वाणः सशस्यो नश्यते गृही॥६३॥
किञ्च । अक्षो विभीतकः । हि यतस्तौ राक्षसौ
तयोरक्षोजातिः।अतोऽवशिष्टस्य शिंशिपादेर्निर्मातव्यं इत्यर्थादेवायातमिति भावः ॥६३॥
पाकर और बहेडे की लकड़ी का भी हल नहीं बनावै कारण उक्त दोनों राक्षस जाति कहे हैं यदि उनकी लकड़ी का हल बनवाया जावै तो कृषाण और खेती दोनों का शीघ्र ही नाश होवै ॥६३ ॥
हलीशा लक्षणम् :-
प्राञ्जला सप्तहस्ताच चरुरस्राच वर्तुला ॥
शालादि शुभकाष्ठानां हलीशा विदुषां मता ॥ ६४॥
हलीशा लाङ्गलदण्डस्तु शालादिशुभकाष्ठानांमित्यन्वयः।
सा च प्रमाणेन प्राञ्जला एकाञ्जलिसहिता सप्तहस्ता एवमेकाञ्जलिसप्तहस्तप्रमिता स्वरूपे चतुरस्रा च कोणविहीनाऽथवा वर्तुला घाटयितव्या ॥६४॥
हलीशा ( हर्स – हस्स ) प्रमाण -हस्स दृढ़ सचिक्कण शाल ( सार ) शीशों आदि काष